| |
|

This overlay will guide you through the buttons:

यदस्या अंहुभेद्याः कृधु स्थूलमुपातसत्।मुष्काविदस्या एजतो गोशफे शकुलाविव ॥१॥
यत् अस्याः अंहुभेद्याः कृधु स्थूलम् उपातसत्।मुष्कौ इद् अस्याः एजतः गो-शफे शकुलौ इव ॥१॥
yat asyāḥ aṃhubhedyāḥ kṛdhu sthūlam upātasat.muṣkau id asyāḥ ejataḥ go-śaphe śakulau iva ..1..

यदा स्थूलेन पससाणौ मुष्का उपावधीत्।विष्वञ्चा वस्या वर्धतः सिकतास्वेव गर्दभौ ॥२॥
यदा स्थूलेन पससाणौ मुष्कौ उपावधीत्।विष्वञ्चा वस्या वर्धतः सिकतासु एव गर्दभौ ॥२॥
yadā sthūlena pasasāṇau muṣkau upāvadhīt.viṣvañcā vasyā vardhataḥ sikatāsu eva gardabhau ..2..

यदल्पिकास्वल्पिका कर्कधूकेवषद्यते ।वासन्तिकमिव तेजनं यन्त्यवाताय वित्पति ॥३॥
यत् अल्पिकासु अल्पिका कर्कधूका इवषद्यते ।वासन्तिकम् इव तेजनम् यन्त्य-वाताय वित्पति ॥३॥
yat alpikāsu alpikā karkadhūkā ivaṣadyate .vāsantikam iva tejanam yantya-vātāya vitpati ..3..

यद्देवासो ललामगुं प्रविष्टीमिनमाविषुः ।सकुला देदिश्यते नारी सत्यस्याक्षिभुवो यथा ॥४॥
यत् देवासः ललामगुम् प्रविष्टि इमिनम् आविषुः ।स कुला देदिश्यते नारी सत्यस्य अक्षि-भुवः यथा ॥४॥
yat devāsaḥ lalāmagum praviṣṭi iminam āviṣuḥ .sa kulā dediśyate nārī satyasya akṣi-bhuvaḥ yathā ..4..

महानग्न्यतृप्नद्वि मोक्रददस्थानासरन् ।शक्तिकानना स्वचमशकं सक्तु पद्यम ॥५॥
महान् अग्नि अतृप्नत् वि ।शक्तिकानना स्व-चमशकम् सक्तु ॥५॥
mahān agni atṛpnat vi .śaktikānanā sva-camaśakam saktu ..5..

महानग्न्युलूखलमतिक्रामन्त्यब्रवीत्।यथा तव वनस्पते निरघ्नन्ति तथैवेति ॥६॥
महानग्ना उलूखलम् अतिक्रामन्ती अब्रवीत्।यथा तव वनस्पते निरघ्नन्ति तथा एव इति ॥६॥
mahānagnā ulūkhalam atikrāmantī abravīt.yathā tava vanaspate niraghnanti tathā eva iti ..6..

महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।यथैव ते वनस्पते पिप्पति तथैवेति ॥७॥
ब्रूते भ्रष्टा उथ अपि अ भूभुवः ।यथा एव ते वनस्पते पिप्पति तथा एव इति ॥७॥
brūte bhraṣṭā utha api a bhūbhuvaḥ .yathā eva te vanaspate pippati tathā eva iti ..7..

महानग्न्युप ब्रूते भ्रष्टोथाप्यभूभुवः ।यथा वयो विदाह्य स्वर्गे नमवदह्यते ॥८॥
ब्रूते भ्रष्टा उथ अपि अ भूभुवः ।यथा वयः विदाह्य स्वर्गे नम् अवदह्यते ॥८॥
brūte bhraṣṭā utha api a bhūbhuvaḥ .yathā vayaḥ vidāhya svarge nam avadahyate ..8..

महानग्न्युप ब्रूते स्वसावेशितं पसः ।इत्थं फलस्य वृक्षस्य शूर्पे शूर्पं भजेमहि ॥९॥
महान् अग्निः उप ब्रूते स्वसा-वेशितम् पसः ।इत्थम् फलस्य वृक्षस्य शूर्पे शूर्पम् भजेमहि ॥९॥
mahān agniḥ upa brūte svasā-veśitam pasaḥ .ittham phalasya vṛkṣasya śūrpe śūrpam bhajemahi ..9..

महानग्नी कृकवाकं शम्यया परि धावति ।अयं न विद्म यो मृगः शीर्ष्णा हरति धाणिकाम् ॥१०॥
महान् अग्नी कृकवाकम् शम्यया परि धावति ।अयम् न विद्म यः मृगः शीर्ष्णा हरति धाणिकाम् ॥१०॥
mahān agnī kṛkavākam śamyayā pari dhāvati .ayam na vidma yaḥ mṛgaḥ śīrṣṇā harati dhāṇikām ..10..

महानग्नी महानग्नं धावन्तमनु धावति ।इमास्तदस्य गा रक्ष यभ मामद्ध्यौदनम् ॥११॥
महानग्नी महानग्नम् धावन्तम् अनु धावति ।इमाः तत् अस्य गाः रक्ष यभ माम् अद्धि ओदनम् ॥११॥
mahānagnī mahānagnam dhāvantam anu dhāvati .imāḥ tat asya gāḥ rakṣa yabha mām addhi odanam ..11..

सुदेवस्त्वा महानग्नीर्बबाधते महतः साधु खोदनम् ।कुसं पीवरो नवत्॥१२॥
सुदेवः त्वा महान् अग्निः बबाधते महतः साधु खोदनम् ।कुसम् पीवरः नवत्॥१२॥
sudevaḥ tvā mahān agniḥ babādhate mahataḥ sādhu khodanam .kusam pīvaraḥ navat..12..

वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे ।महान् वै भद्रो यभ मामद्ध्यौदनम् ॥१३॥
वशा दग्धाम् इमा अङ्गुरिम् प्रसृजता उग्रतम् परे ।महान् वै भद्रः यभ माम् अद्ध्या ओदनम् ॥१३॥
vaśā dagdhām imā aṅgurim prasṛjatā ugratam pare .mahān vai bhadraḥ yabha mām addhyā odanam ..13..

विदेवस्त्वा महानग्नीर्विबाधते महतः साधु खोदनम् ।कुमारिका पिङ्गलिका कार्द भस्मा कु धावति ॥१४॥
विदेवः त्वा महान् अग्नीः विबाधते महतः साधु खोदनम् ।कुमारिका पिङ्गलिका कार्द भस्मा कु धावति ॥१४॥
videvaḥ tvā mahān agnīḥ vibādhate mahataḥ sādhu khodanam .kumārikā piṅgalikā kārda bhasmā ku dhāvati ..14..

महान् वै भद्रो बिल्वो महान् भद्र उदुम्बरः ।महामभिक्त बाधते महतः साधु खोदनम् ॥१५॥
महान् वै भद्रः बिल्वः महान् भद्रः उदुम्बरः ।बाधते महतः साधु खोदनम् ॥१५॥
mahān vai bhadraḥ bilvaḥ mahān bhadraḥ udumbaraḥ .bādhate mahataḥ sādhu khodanam ..15..

यः कुमारी पिङ्गलिका वसन्तं पीवरी लभेत्।तैलकुण्डमिमाङ्गुष्ठं रोदन्तं शुदमुद्धरेत्॥१६॥
यः कुमारी पिङ्गलिका वसन्तम् पीवरी लभेत्।रोदन्तम् शुदम् उद्धरेत्॥१६॥
yaḥ kumārī piṅgalikā vasantam pīvarī labhet.rodantam śudam uddharet..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In