| |
|

This overlay will guide you through the buttons:

यन् नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥१॥
यत् नासत्या भुरण्यथः यत् वा देव भिषज्यथः ।अयम् वाम् वत्सः मतिभिः न विन्धते हविष्मन्तम् हि गच्छथः ॥१॥
yat nāsatyā bhuraṇyathaḥ yat vā deva bhiṣajyathaḥ .ayam vām vatsaḥ matibhiḥ na vindhate haviṣmantam hi gacchathaḥ ..1..

आ नूनमश्विनोर्ऋषि स्तोमं चिकेत वामया ।आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥२॥
आ नूनम् अश्विनोः ऋषि स्तोमम् चिकेत वामया ।आ सोमम् मधुमत्तमम् घर्मम् सिञ्चात् अथर्वणि ॥२॥
ā nūnam aśvinoḥ ṛṣi stomam ciketa vāmayā .ā somam madhumattamam gharmam siñcāt atharvaṇi ..2..

आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥३॥
आ नूनम् रघु-वर्तनिम् रथम् तिष्ठाथः अश्विना ।आ वाम् स्तोमाः इमे मम नभः न चुच्यवीरत ॥३॥
ā nūnam raghu-vartanim ratham tiṣṭhāthaḥ aśvinā .ā vām stomāḥ ime mama nabhaḥ na cucyavīrata ..3..

यदद्य वां नासत्योक्थैराचुच्युवीमहि ।यद्वा वाणीभिरश्विनेवेत्कण्वस्य बोधतम् ॥४॥
यत् अद्य वाम् नासत्य उक्थैः आचुच्युवीमहि ।यत् वा वाणीभिः अश्विना इव इद् कण्वस्य बोधतम् ॥४॥
yat adya vām nāsatya ukthaiḥ ācucyuvīmahi .yat vā vāṇībhiḥ aśvinā iva id kaṇvasya bodhatam ..4..

यद्वां कक्षीवामुत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥५॥
यत् वाम् कक्षीवान् उत यत् वि अश्वः ऋषिः यत् वाम् दीर्घतमाः जुहाव ।पृथी यत् वाम् वैन्यः सादनेषु एव इदतस् अश्विना चेतयेथाम् ॥५॥
yat vām kakṣīvān uta yat vi aśvaḥ ṛṣiḥ yat vām dīrghatamāḥ juhāva .pṛthī yat vām vainyaḥ sādaneṣu eva idatas aśvinā cetayethām ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In