| |
|

This overlay will guide you through the buttons:

यातं छर्दिष्पा उत परस्पा भूतं जगत्पा उत नस्तनूपा ।वर्तिस्तोकाय तनयाय यातम् ॥१॥
यातम् छर्दिष्पौ उत परस्पा भूतम् जगत्-पौ उत नः तनू-पा ।वर्ति-स्तोकाय तनयाय यातम् ॥१॥
yātam chardiṣpau uta paraspā bhūtam jagat-pau uta naḥ tanū-pā .varti-stokāya tanayāya yātam ..1..

यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।यदादित्येभिर्ऋभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥२॥
यत् इन्द्रेण स रथम् याथः अश्विना यत् वा वायुना भवथः समोकसा ।यत् आदित्येभिः ऋभुभिः सजोषसा यत् वा विष्णोः विक्रमणेषु तिष्ठथः ॥२॥
yat indreṇa sa ratham yāthaḥ aśvinā yat vā vāyunā bhavathaḥ samokasā .yat ādityebhiḥ ṛbhubhiḥ sajoṣasā yat vā viṣṇoḥ vikramaṇeṣu tiṣṭhathaḥ ..2..

यदद्याश्विनावहं हुवेय वाजसातये ।यत्पृत्सु तुर्वणे सनस्तच्छ्रेष्ठमश्विनोरवः ॥३॥
यत् अद्य अश्विनौ अहम् हुवेय वाजसातये ।यत् पृत्सु तुर्वणे सनः तत् श्रेष्ठम् अश्विना उरवः ॥३॥
yat adya aśvinau aham huveya vājasātaye .yat pṛtsu turvaṇe sanaḥ tat śreṣṭham aśvinā uravaḥ ..3..

आ नूनं यातमश्विनेमा हव्यानि वां हिता ।इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥४॥
आ नूनम् यातम् अश्विना इमा हव्यानि वाम् हिता ।इमे सोमासः अधि तुर्वशे यदौ इमे कण्वेषु वाम् अथ ॥४॥
ā nūnam yātam aśvinā imā havyāni vām hitā .ime somāsaḥ adhi turvaśe yadau ime kaṇveṣu vām atha ..4..

यन् नासत्या पराके अर्वाके अस्ति भेषजम् ।तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥५॥
यत् नासत्या पराके अर्वाके अस्ति भेषजम् ।तेन नूनम् विमदाय प्रचेतसा छर्दिः वत्साय यच्छतम् ॥५॥
yat nāsatyā parāke arvāke asti bheṣajam .tena nūnam vimadāya pracetasā chardiḥ vatsāya yacchatam ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In