| |
|

This overlay will guide you through the buttons:

तं वां रथं वयमद्या हुवेम पृथुज्रयमश्विना संगतिं गोः ।यः सूर्यां वहति वन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम् ॥१॥
तम् वाम् रथम् वयम् अद्य हुवेम पृथुज्रयम् अश्विना संगतिम् गोः ।यः सूर्याम् वहति वन्धुरायुः गिर्-वाहसम् पुरुतमम् वसूयुम् ॥१॥
tam vām ratham vayam adya huvema pṛthujrayam aśvinā saṃgatim goḥ .yaḥ sūryām vahati vandhurāyuḥ gir-vāhasam purutamam vasūyum ..1..

युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥२॥
युवम् श्रियम् अश्विना देवता ताम् दिवः नपाता वनथः शचीभिः ।युवोः वपुः अभि पृक्षः सचन्ते वहन्ति यत् ककुहासः रथे वाम् ॥२॥
yuvam śriyam aśvinā devatā tām divaḥ napātā vanathaḥ śacībhiḥ .yuvoḥ vapuḥ abhi pṛkṣaḥ sacante vahanti yat kakuhāsaḥ rathe vām ..2..

को वामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।ऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत्॥३॥
कः वाम् अद्या करते रात-हव्यः ऊतये वा सुत-पेयाय वा अर्कैः ।ऋतस्य वा वनुषे पूर्व्याय नमः येमानः अश्विना ववर्तत्॥३॥
kaḥ vām adyā karate rāta-havyaḥ ūtaye vā suta-peyāya vā arkaiḥ .ṛtasya vā vanuṣe pūrvyāya namaḥ yemānaḥ aśvinā vavartat..3..

हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम् ।पिबाथ इन् मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥४॥
हिरण्ययेन पुरु-भू रथेन इमम् यज्ञम् नासत्या उप यातम् ।पिबाथः इद् मधुनः सोम्यस्य दधथः रत्नम् विधते जनाय ॥४॥
hiraṇyayena puru-bhū rathena imam yajñam nāsatyā upa yātam .pibāthaḥ id madhunaḥ somyasya dadhathaḥ ratnam vidhate janāya ..4..

आ नो यातं दिवो अच्छ पृथिव्या हिरण्ययेन सुवृता रथेन ।मा वामन्ये नि यमन् देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥५॥
आ नः यातम् दिवः अच्छ पृथिव्याः हिरण्ययेन सुवृता रथेन ।मा वामन्ये नि यमन् देवयन्तः सम् यत् ददे नाभिः पूर्व्या वाम् ॥५॥
ā naḥ yātam divaḥ accha pṛthivyāḥ hiraṇyayena suvṛtā rathena .mā vāmanye ni yaman devayantaḥ sam yat dade nābhiḥ pūrvyā vām ..5..

नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।नरो यद्वामश्विना स्तोममावन्त्सधस्तुतिमाजमील्हासो अग्मन् ॥६॥
नु नः रयिम् पुरु-वीरम् बृहन्तम् दस्रा मिमाथाम् उभयेषु अस्मे ।नरः यत् वाम् अश्विना स्तोमम् आवन् सधस्तुतिम् आजमील्हासः अग्मन् ॥६॥
nu naḥ rayim puru-vīram bṛhantam dasrā mimāthām ubhayeṣu asme .naraḥ yat vām aśvinā stomam āvan sadhastutim ājamīlhāsaḥ agman ..6..

इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।उरुष्यतं जरितारं युवं ह श्रितः कामो नासत्या युवद्रिक्॥७॥
इह इह यत् वाम् समना सा इयम् अस्मे सुमतिः वाज-रत्ना ।उरुष्यतम् जरितारम् युवम् ह श्रितः कामः नासत्या युवद्रिक्॥७॥
iha iha yat vām samanā sā iyam asme sumatiḥ vāja-ratnā .uruṣyatam jaritāram yuvam ha śritaḥ kāmaḥ nāsatyā yuvadrik..7..

मधुमतीरोषधीर्द्याव आपो मधुमन् नो भवत्वन्तरिक्षम् ।क्षेत्रस्य पतिर्मधुमान् नो अस्त्वरिष्यन्तो अन्वेनं चरेम ॥८॥
मधुमतीः ओषधीः द्यावः आपः मधुमत् नः भवतु अन्तरिक्षम् ।क्षेत्रस्य पतिः मधुमान् नः अस्तु अरिष्यन्तः अनु एनम् चरेम ॥८॥
madhumatīḥ oṣadhīḥ dyāvaḥ āpaḥ madhumat naḥ bhavatu antarikṣam .kṣetrasya patiḥ madhumān naḥ astu ariṣyantaḥ anu enam carema ..8..

पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।सहस्रं शंसा उत ये गविष्टौ सर्वामित्तामुप याता पिबध्यै ॥९॥
पनाय्यम् तत् अश्विना कृतम् वाम् वृषभः दिवः रजसः पृथिव्याः ।सहस्रम् शंसाः उत ये गविष्टौ सर्वाम् इद् ताम् उप याता पिबध्यै ॥९॥
panāyyam tat aśvinā kṛtam vām vṛṣabhaḥ divaḥ rajasaḥ pṛthivyāḥ .sahasram śaṃsāḥ uta ye gaviṣṭau sarvām id tām upa yātā pibadhyai ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In