| |
|

This overlay will guide you through the buttons:

उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः ।गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिमभ्यर्का अनावन् ॥१॥
उद-प्रुतः न वयः रक्षमाणाः वावदतः अभ्रियस्य इव घोषाः ।गिरि-भ्रजः न ऊर्मयः मदन्तः बृहस्पतिम् अभि अर्काः अनावन् ॥१॥
uda-prutaḥ na vayaḥ rakṣamāṇāḥ vāvadataḥ abhriyasya iva ghoṣāḥ .giri-bhrajaḥ na ūrmayaḥ madantaḥ bṛhaspatim abhi arkāḥ anāvan ..1..

सं गोभिरङ्गिरसो नक्षमाणो भग इवेदर्यमणं निनाय ।जने मित्रो न दम्पती अनक्ति बृहस्पते वाजयाशूंरिवाजौ ॥२॥
सम् गोभिः अङ्गिरसः नक्षमाणः भगः इव इद् अर्यमणम् निनाय ।जने मित्रः न दम्पती अनक्ति बृहस्पते वाजयाशूंरिव इव आजौ ॥२॥
sam gobhiḥ aṅgirasaḥ nakṣamāṇaḥ bhagaḥ iva id aryamaṇam nināya .jane mitraḥ na dampatī anakti bṛhaspate vājayāśūṃriva iva ājau ..2..

साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः ।बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥३॥
साध्वर्याः अतिथिनीः इषिरा स्पार्हाः सु वर्णाः अनवद्य-रूपाः ।बृहस्पतिः पर्वतेभ्यः वितूर्य निर्गाः ऊपे यवम् इव स्थिविभ्यः ॥३॥
sādhvaryāḥ atithinīḥ iṣirā spārhāḥ su varṇāḥ anavadya-rūpāḥ .bṛhaspatiḥ parvatebhyaḥ vitūrya nirgāḥ ūpe yavam iva sthivibhyaḥ ..3..

आप्रुषायन् मधुना ऋतस्य योनिमवक्षिपन्न् अर्क उल्कामिव द्योः ।बृहस्पतिरुद्धरन्न् अश्मनो गा भूम्या उद्नेव वि त्वचं बिभेद ॥४॥
आप्रुषायन् मधुना ऋतस्य योनिम् अवक्षिपन् अर्कः उल्काम् इव द्योः ।बृहस्पतिः उद्धरन् अश्मनः गाः भूम्याः उद्ना इव वि त्वचम् बिभेद ॥४॥
āpruṣāyan madhunā ṛtasya yonim avakṣipan arkaḥ ulkām iva dyoḥ .bṛhaspatiḥ uddharan aśmanaḥ gāḥ bhūmyāḥ udnā iva vi tvacam bibheda ..4..

अप ज्योतिषा तमो अन्तरिक्षदुद्नः शीपालमिव वात आजत्।बृहस्पतिरनुमृश्या वलस्याभ्रमिव वात आ चक्र आ गाः ॥५॥
अप ज्योतिषा तमः अन्तरिक्षत् उद्नः शीपालम् इव वातः आजत्।बृहस्पतिः अनुमृश्य वलस्य अभ्रम् इव वातः आ चक्रे आ गाः ॥५॥
apa jyotiṣā tamaḥ antarikṣat udnaḥ śīpālam iva vātaḥ ājat.bṛhaspatiḥ anumṛśya valasya abhram iva vātaḥ ā cakre ā gāḥ ..5..

यदा वलस्य पीयतो जसुं भेद्बृहस्पतिरग्नितपोभिरर्कैः ।दद्भिर्न जिह्वा परिविष्टमाददाविर्निधींरकृणोदुस्रियाणाम् ॥६॥
यदा वलस्य पीयतः जसुम् भेत् बृहस्पतिः अग्नि-तपोभिः अर्कैः ।दद्भिः न जिह्वा परिविष्टम् आदद आविस् निधींरकृणोत् उस्रियाणाम् ॥६॥
yadā valasya pīyataḥ jasum bhet bṛhaspatiḥ agni-tapobhiḥ arkaiḥ .dadbhiḥ na jihvā pariviṣṭam ādada āvis nidhīṃrakṛṇot usriyāṇām ..6..

बृहस्पतिरमत हि त्यदासां नाम स्वरीणां सदने गुहा यत्।आण्डेव भित्वा शकुनस्य गर्भमुदुस्रियाः पर्वतस्य त्मनाजत्॥७॥
बृहस्पतिः अमत हि त्यदासाम् नाम स्वरीणाम् सदने गुहा यत्।आण्डा इव भित्वा शकुनस्य गर्भम् उदुस्रियाः पर्वतस्य त्मना आजत्॥७॥
bṛhaspatiḥ amata hi tyadāsām nāma svarīṇām sadane guhā yat.āṇḍā iva bhitvā śakunasya garbham udusriyāḥ parvatasya tmanā ājat..7..

अश्नापिनद्धं मधु पर्यपश्यन् मत्स्यं न दीन उदनि क्षियन्तम् ।निष्टज्जभार चमसं न वृक्षाद्बृहस्पतिर्विरवेणा विकृत्य ॥८॥
अश्ना अपिनद्धम् मधु पर्यपश्यत् मत्स्यम् न दीने उदनि क्षियन्तम् ।निष्टज्जभार चमसम् न वृक्षात् बृहस्पतिः विरवेण विकृत्य ॥८॥
aśnā apinaddham madhu paryapaśyat matsyam na dīne udani kṣiyantam .niṣṭajjabhāra camasam na vṛkṣāt bṛhaspatiḥ viraveṇa vikṛtya ..8..

सोषामविन्दत्स स्वः सो अग्निं सो अर्केण वि बबाधे तमांसि ।बृहस्पतिर्गोवपुषो वलस्य निर्मज्जानं न पर्वणो जभार ॥९॥
स उषाम् अविन्दत् स स्वर् सः अग्निम् सः अर्केण वि बबाधे तमांसि ।बृहस्पतिः गो-वपुषः वलस्य निर्मज्जानम् न पर्वणः जभार ॥९॥
sa uṣām avindat sa svar saḥ agnim saḥ arkeṇa vi babādhe tamāṃsi .bṛhaspatiḥ go-vapuṣaḥ valasya nirmajjānam na parvaṇaḥ jabhāra ..9..

हिमेव पर्णा मुषिता वनानि बृहस्पतिनाकृपयद्वलो गाः ।अनानुकृत्यमपुनश्चकार यात्सूर्यामासा मिथ उच्चरातः ॥१०॥
हिमा इव पर्णा मुषिता वनानि बृहस्पतिना अकृपयत् वलः गाः ।अनानुकृत्यम् अपुनर् चकार यात् सूर्यामासा मिथस् उच्चरातः ॥१०॥
himā iva parṇā muṣitā vanāni bṛhaspatinā akṛpayat valaḥ gāḥ .anānukṛtyam apunar cakāra yāt sūryāmāsā mithas uccarātaḥ ..10..

अभि श्यावं न कृशनेभिरश्वं नक्षत्रेभिः पितरो द्यामपिंशन् ।रात्र्यां तमो अदधुर्ज्योतिरहन् बृहस्पतिर्भिनदद्रिं विदद्गाः ॥११॥
अभि श्यावम् न कृशनेभिः अश्वम् नक्षत्रेभिः पितरः द्याम् अपिंशन् ।रात्र्याम् तमः अदधुः ज्योतिः अहन् बृहस्पतिः भिनत् अद्रिम् विदद्गाः ॥११॥
abhi śyāvam na kṛśanebhiḥ aśvam nakṣatrebhiḥ pitaraḥ dyām apiṃśan .rātryām tamaḥ adadhuḥ jyotiḥ ahan bṛhaspatiḥ bhinat adrim vidadgāḥ ..11..

इदमकर्म नमो अभ्रियाय यः पूर्वीरन्वानोनवीति ।बृहस्पतिः स हि गोभिः सो अश्वैः स वीरेभिः स नृभिर्नो वयो धात्॥१२॥
इदम् अकर्म नमः अभ्रियाय यः पूर्वीः अन्वानोनवीति ।बृहस्पतिः स हि गोभिः सः अश्वैः स वीरेभिः स नृभिः नः वयः धात्॥१२॥
idam akarma namaḥ abhriyāya yaḥ pūrvīḥ anvānonavīti .bṛhaspatiḥ sa hi gobhiḥ saḥ aśvaiḥ sa vīrebhiḥ sa nṛbhiḥ naḥ vayaḥ dhāt..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In