| |
|

This overlay will guide you through the buttons:

अच्छा म इन्द्रं मतयः स्वर्विदः सध्रीचीर्विश्वा उशतीरनूषत ।परि ष्वजन्ते जनयो यथा पतिं मर्यं न शुन्ध्युं मघवानमूतये ॥१॥
अच्छा मे इन्द्रम् मतयः स्वर्-विदः सध्रीचीः विश्वाः उशतीः अनूषत ।परि स्वजन्ते जनयः यथा पतिम् मर्यम् न शुन्ध्युम् मघवानम् ऊतये ॥१॥
acchā me indram matayaḥ svar-vidaḥ sadhrīcīḥ viśvāḥ uśatīḥ anūṣata .pari svajante janayaḥ yathā patim maryam na śundhyum maghavānam ūtaye ..1..

न घा त्वद्रिगप वेति मे मनस्त्वे इत्कामं पुरुहूत शिश्रय ।राजेव दस्म नि षदोऽधि बर्हिष्यस्मिन्त्सु सोमेऽवपानमस्तु ते ॥२॥
न घा त्वद्रिगप वेति मे मनः-त्वे इद् कामम् पुरुहूत शिश्रय ।राजा इव दस्म नि सदः अधि बर्हिषि अस्मिन् सु सोमे अवपानम् अस्तु ते ॥२॥
na ghā tvadrigapa veti me manaḥ-tve id kāmam puruhūta śiśraya .rājā iva dasma ni sadaḥ adhi barhiṣi asmin su some avapānam astu te ..2..

विषूवृदिन्द्रो अमुतेरुत क्षुधः स इद्रायो मघवा वस्व ईशते ।तस्येदिमे प्रवणे सप्त सिन्धवो वयो वर्धन्ति वृषभस्य शुष्मिणः ॥३॥
विषूवृत् इन्द्रः अमुतेः उत क्षुधः सः इद्रायः मघवा वस्वः ईशते ।तस्य इद् इमे प्रवणे सप्त सिन्धवः वयः वर्धन्ति वृषभस्य शुष्मिणः ॥३॥
viṣūvṛt indraḥ amuteḥ uta kṣudhaḥ saḥ idrāyaḥ maghavā vasvaḥ īśate .tasya id ime pravaṇe sapta sindhavaḥ vayaḥ vardhanti vṛṣabhasya śuṣmiṇaḥ ..3..

वयो न वृक्षं सुपलाशमासदन्त्सोमास इन्द्रं मन्दिनश्चमूषदः ।प्रैषामनीकं शवसा दविद्युतद्विदत्स्वर्मनवे ज्योतिरार्यम् ॥४॥
वयः न वृक्षम् सु पलाशम् आसदन् सोमासः इन्द्रम् मन्दिनः चमूषदः ।प्र एषाम् अनीकम् शवसा दविद्युतत् विदत् स्वर् मनवे ज्योतिः आर्यम् ॥४॥
vayaḥ na vṛkṣam su palāśam āsadan somāsaḥ indram mandinaḥ camūṣadaḥ .pra eṣām anīkam śavasā davidyutat vidat svar manave jyotiḥ āryam ..4..

कृतं न श्वघ्नी वि चिनोति देवने संवर्गं यन् मघवा सूर्यं जयत्।न तत्ते अन्यो अनु वीर्यं शकन् न पुराणो मघवन् नोत नूतनः ॥५॥
कृतम् न श्वघ्नी वि चिनोति देवने संवर्गम् यत् मघवा सूर्यम् जयत्।न तत् ते अन्यः अनु वीर्यम् शकत् न पुराणः मघवन् न उत नूतनः ॥५॥
kṛtam na śvaghnī vi cinoti devane saṃvargam yat maghavā sūryam jayat.na tat te anyaḥ anu vīryam śakat na purāṇaḥ maghavan na uta nūtanaḥ ..5..

विशंविशं मघवा पर्यशायत जनानां धेना अवचाकशद्वृषा ।यस्याह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥६॥
विशम् विशम् मघवा पर्यशायत जनानाम् धेनाः अवचाकशत्-वृषा ।यस्य अह शक्रः सवनेषु रण्यति स तीव्रैः सोमैः सहते पृतन्यतः ॥६॥
viśam viśam maghavā paryaśāyata janānām dhenāḥ avacākaśat-vṛṣā .yasya aha śakraḥ savaneṣu raṇyati sa tīvraiḥ somaiḥ sahate pṛtanyataḥ ..6..

आपो न सिन्धुमभि यत्समक्षरन्त्सोमास इन्द्रं कुल्या इव ह्रदम् ।वर्धन्ति विप्रा महो अस्य सादने यवं न वृष्टिर्दिव्येन दानुना ॥७॥
आपः न सिन्धुम् अभि यत् समक्षरन् सोमासः इन्द्रम् कुल्याः इव ह्रदम् ।वर्धन्ति विप्राः महः अस्य सादने यवम् न वृष्टिः दिव्येन दानुना ॥७॥
āpaḥ na sindhum abhi yat samakṣaran somāsaḥ indram kulyāḥ iva hradam .vardhanti viprāḥ mahaḥ asya sādane yavam na vṛṣṭiḥ divyena dānunā ..7..

वृषा न क्रुद्धः पतयद्रजःस्वा यो अर्यपत्नीरकृणोदिमा अपः ।स सुन्वते मघवा जीरदानवेऽविन्दज्ज्योतिर्मनवे हविष्मते ॥८॥
वृषा न क्रुद्धः पतयत्-रजःस्वा यः अर्य-पत्नीः अकृणोत् इमाः अपः ।स सुन्वते मघवा जीर-दानवे अविन्दत् ज्योतिः-मनवे हविष्मते ॥८॥
vṛṣā na kruddhaḥ patayat-rajaḥsvā yaḥ arya-patnīḥ akṛṇot imāḥ apaḥ .sa sunvate maghavā jīra-dānave avindat jyotiḥ-manave haviṣmate ..8..

उज्जायतां परशु ज्योतिषा सह भूया ऋतस्य सुदुघा पुराणवत्।वि रोचतामरुषो भानुना शुचिः स्वर्न शुक्रं शुशुचीत सत्पतिः ॥९॥
उज्जायताम् परशु ज्योतिषा सह भूयाः ऋतस्य सु दुघा पुराण-वत्।वि रोचताम् अरुषः भानुना शुचिः स्वर् न शुक्रम् शुशुचीत सत्पतिः ॥९॥
ujjāyatām paraśu jyotiṣā saha bhūyāḥ ṛtasya su dughā purāṇa-vat.vi rocatām aruṣaḥ bhānunā śuciḥ svar na śukram śuśucīta satpatiḥ ..9..

गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥
गोभिः तरेम अमतिम् दुरेवाम् यवेन क्षुधम् पुरुहूत विश्वाम् ।वयम् राजभिः प्रथमाः धनानि अस्माकेन वृजनेन जयेम ॥१०॥
gobhiḥ tarema amatim durevām yavena kṣudham puruhūta viśvām .vayam rājabhiḥ prathamāḥ dhanāni asmākena vṛjanena jayema ..10..

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः ।इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यः वरिवः कृणोतु ॥११॥
बृहस्पतिः नः परि पातु पश्चात् उत उत्तरस्मात् अधरात् अघायोः ।इन्द्रः पुरस्तात् उत मध्यतस् नः सखा सखिभ्यः वरिवः कृणोतु ॥११॥
bṛhaspatiḥ naḥ pari pātu paścāt uta uttarasmāt adharāt aghāyoḥ .indraḥ purastāt uta madhyatas naḥ sakhā sakhibhyaḥ varivaḥ kṛṇotu ..11..

बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य ।धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥१२॥
बृहस्पते युवम् इन्द्रः च वस्वः दिव्यस्य ईशाथे उत पार्थिवस्य ।धत्तम् रयिम् स्तुवते कीरये चित् यूयम् पात स्वस्तिभिः सदा नः ॥१२॥
bṛhaspate yuvam indraḥ ca vasvaḥ divyasya īśāthe uta pārthivasya .dhattam rayim stuvate kīraye cit yūyam pāta svastibhiḥ sadā naḥ ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In