| |
|

This overlay will guide you through the buttons:

वार्त्रहत्याय शवसे पृतनाषाह्याय च ।इन्द्र त्वा वर्तयामसि ॥१॥
वार्त्रहत्याय शवसे पृतनाषाह्याय च ।इन्द्र त्वा वर्तयामसि ॥१॥
vārtrahatyāya śavase pṛtanāṣāhyāya ca .indra tvā vartayāmasi ..1..

अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।इन्द्र कृण्वन्तु वाघतः ॥२॥
अर्वाचीनम् सु ते मनः उत चक्षुः शतक्रतो ।इन्द्र कृण्वन्तु वाघतः ॥२॥
arvācīnam su te manaḥ uta cakṣuḥ śatakrato .indra kṛṇvantu vāghataḥ ..2..

नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे ।इन्द्राभिमातिषाह्ये ॥३॥
नामानि ते शतक्रतो विश्वाभिः गीर्भिः ईमहे ।इन्द्र अभिमातिषाह्ये ॥३॥
nāmāni te śatakrato viśvābhiḥ gīrbhiḥ īmahe .indra abhimātiṣāhye ..3..

पुरुष्टुतस्य धामभिः शतेन महयामसि ।इन्द्रस्य चर्षणीधृतः ॥४॥
पुरुष्टुतस्य धामभिः शतेन महयामसि ।इन्द्रस्य चर्षणी-धृतः ॥४॥
puruṣṭutasya dhāmabhiḥ śatena mahayāmasi .indrasya carṣaṇī-dhṛtaḥ ..4..

इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे ।भरेषु वाजसातये ॥५॥
इन्द्रम् वृत्राय हन्तवे पुरुहूतम् उप ब्रुवे ।भरेषु वाजसातये ॥५॥
indram vṛtrāya hantave puruhūtam upa bruve .bhareṣu vājasātaye ..5..

वाजेषु सासहिर्भव त्वामीमहे शतक्रतो ।इन्द्र वृत्राय हन्तवे ॥६॥
वाजेषु सासहिः भव त्वा अमीमहे शतक्रतो ।इन्द्र वृत्राय हन्तवे ॥६॥
vājeṣu sāsahiḥ bhava tvā amīmahe śatakrato .indra vṛtrāya hantave ..6..

द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च ।इन्द्र साक्ष्वाभिमातिषु ॥७॥
द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवःसु च ।इन्द्र साक्ष्व अभिमातिषु ॥७॥
dyumneṣu pṛtanājye pṛtsutūrṣu śravaḥsu ca .indra sākṣva abhimātiṣu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In