| |
|

This overlay will guide you through the buttons:

न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।नू चिद्धि रत्नं ससतामिवाविदन् न दुष्टुतिर्द्रविणोदेषु शस्यते ॥१॥
न्यु सु वाचम् प्र महे भरामहे गिरः इन्द्राय सदने विवस्वतः ।नु चित् हि रत्नम् ससताम् इव अविदत् न दुष्टुतिः द्रविणः-देषु शस्यते ॥१॥
nyu su vācam pra mahe bharāmahe giraḥ indrāya sadane vivasvataḥ .nu cit hi ratnam sasatām iva avidat na duṣṭutiḥ draviṇaḥ-deṣu śasyate ..1..

दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः ।शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥२॥
दुरः अश्वस्य दुरः इन्द्र गोरसि दुरः यवस्य वसुनः इनस्पतिः ।शिक्षा-नरः प्रदिवः अ काम-कर्शनः सखा सखिभ्यः तम् इदम् गृणीमसि ॥२॥
duraḥ aśvasya duraḥ indra gorasi duraḥ yavasya vasunaḥ inaspatiḥ .śikṣā-naraḥ pradivaḥ a kāma-karśanaḥ sakhā sakhibhyaḥ tam idam gṛṇīmasi ..2..

शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु ।अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥३॥
शचीवस् इन्द्र पुरु-कृत् द्युमत्तम तव इद् इदम् अभितस् चेकिते वसु ।अतस् संगृभ्य अभिभूतः आ भर मा त्वायतः जरितुः कामम् ऊनयीः ॥३॥
śacīvas indra puru-kṛt dyumattama tava id idam abhitas cekite vasu .atas saṃgṛbhya abhibhūtaḥ ā bhara mā tvāyataḥ jarituḥ kāmam ūnayīḥ ..3..

एभिर्द्युभिर्सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना ।इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥४॥
एभिः द्युभिः सुमनाः एभिः इन्दुभिः निरुन्धानः अमतिम् गोभिः अश्विना ।इन्द्रेण दस्युम् दरयन्तः इन्दुभिः युत-द्वेषसः सम् इषा रभेमहि ॥४॥
ebhiḥ dyubhiḥ sumanāḥ ebhiḥ indubhiḥ nirundhānaḥ amatim gobhiḥ aśvinā .indreṇa dasyum darayantaḥ indubhiḥ yuta-dveṣasaḥ sam iṣā rabhemahi ..4..

समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः ।सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥५॥
सम् इन्द्र राया सम् इषा रभेमहि सम् वाजेभिः पुरु-श्चन्द्रैः अभिद्युभिः ।सम् देव्या प्रमत्या वीर-शुष्मया गो-अग्रया अश्वावत्या रभेमहि ॥५॥
sam indra rāyā sam iṣā rabhemahi sam vājebhiḥ puru-ścandraiḥ abhidyubhiḥ .sam devyā pramatyā vīra-śuṣmayā go-agrayā aśvāvatyā rabhemahi ..5..

ते त्वा मदा अमदन् तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते ।यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥६॥
ते त्वा मदाः अमदन् तानि वृष्ण्या ते सोमासः वृत्र-हत्येषु सत्पते ।यत् कारवे दश वृत्राणि अप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥६॥
te tvā madāḥ amadan tāni vṛṣṇyā te somāsaḥ vṛtra-hatyeṣu satpate .yat kārave daśa vṛtrāṇi aprati barhiṣmate ni sahasrāṇi barhayaḥ ..6..

युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा ।नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥७॥
युधा युधम् उप घ इद् इषि धृष्णुया पुरा पुरम् समिदम् हंसि ओजसा ।नम्या यत् इन्द्र सख्या परावति निबर्हयः नमुचिम् नाम मायिनम् ॥७॥
yudhā yudham upa gha id iṣi dhṛṣṇuyā purā puram samidam haṃsi ojasā .namyā yat indra sakhyā parāvati nibarhayaḥ namucim nāma māyinam ..7..

त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी ।त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥८॥
त्वम् करञ्जम् उत पर्णयम् वधीः तेजिष्ठया अतिथिग्वस्य वर्तनी ।त्वम् शता वङ्गृदस्य अभिनत् पुरः अनानुदः परिषूताः ऋजिश्वना ॥८॥
tvam karañjam uta parṇayam vadhīḥ tejiṣṭhayā atithigvasya vartanī .tvam śatā vaṅgṛdasya abhinat puraḥ anānudaḥ pariṣūtāḥ ṛjiśvanā ..8..

त्वमेतां जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः ।षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक्॥९॥
त्वम् एताम् जन-राज्ञः द्विस् दश-अबन्धुना सुश्रवसा उपजग्मुषः ।षष्टिम् सहस्रा नवतिम् नव श्रुतः नि चक्रेण रथ्याः दुष्पदा अवृणक्॥९॥
tvam etām jana-rājñaḥ dvis daśa-abandhunā suśravasā upajagmuṣaḥ .ṣaṣṭim sahasrā navatim nava śrutaḥ ni cakreṇa rathyāḥ duṣpadā avṛṇak..9..

त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् ।त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥१०॥
त्वम् आविथ सुश्रवसम् तव ऊतिभिः तव त्रामभिः इन्द्र तूर्वयाणम् ।त्वम् अस्मै कुत्सम् अतिथिग्वम् आयुम् महे राज्ञे यूने अरन्धनायः ॥१०॥
tvam āvitha suśravasam tava ūtibhiḥ tava trāmabhiḥ indra tūrvayāṇam .tvam asmai kutsam atithigvam āyum mahe rājñe yūne arandhanāyaḥ ..10..

य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम ।त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥११॥
ये उदृचि इन्द्र देव-गोपाः सखायः ते शिवतमाः असाम ।त्वाम् स्तोषाम त्वया सु वीराः द्राघीयः आयुः प्रतरम् दधानाः ॥११॥
ye udṛci indra deva-gopāḥ sakhāyaḥ te śivatamāḥ asāma .tvām stoṣāma tvayā su vīrāḥ drāghīyaḥ āyuḥ prataram dadhānāḥ ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In