| |
|

This overlay will guide you through the buttons:

प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदम् ।घृतं न यो हरिभिश्चारु सेचत आ त्वा विशन्तु हरिवर्पसं गिरः ॥१॥
प्र ते महे विदथे शंसिषम् हरी प्र ते वन्वे वनुषः हर्यतम् मदम् ।घृतम् न यः हरिभिः चारु सेचते आ त्वा विशन्तु हरि-वर्पसम् गिरः ॥१॥
pra te mahe vidathe śaṃsiṣam harī pra te vanve vanuṣaḥ haryatam madam .ghṛtam na yaḥ haribhiḥ cāru secate ā tvā viśantu hari-varpasam giraḥ ..1..

हरिं हि योनिमभि ये समस्वरन् हिन्वन्तो हरी दिव्यं यथा सदः ।आ यं पृणन्ति हरिभिर्न धेनव इन्द्राय शूशं हरिवन्तमर्चत ॥२॥
हरिम् हि योनिम् अभि ये समस्वरन् हिन्वन्तः हरी दिव्यम् यथा सदः ।आ यम् पृणन्ति हरिभिः न धेनवः इन्द्राय शूशम् हरिवन्तम् अर्चत ॥२॥
harim hi yonim abhi ye samasvaran hinvantaḥ harī divyam yathā sadaḥ .ā yam pṛṇanti haribhiḥ na dhenavaḥ indrāya śūśam harivantam arcata ..2..

सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।द्युम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥
सः अस्य वज्रः हरितः यः आयसः हरिः निकामः हरिः आ गभस्त्योः ।द्युम्नी सु शिप्रः हरिमन्युसायकः इन्द्रे नि रूपा हरिता मिमिक्षिरे ॥३॥
saḥ asya vajraḥ haritaḥ yaḥ āyasaḥ hariḥ nikāmaḥ hariḥ ā gabhastyoḥ .dyumnī su śipraḥ harimanyusāyakaḥ indre ni rūpā haritā mimikṣire ..3..

दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या ।तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिम्भरः ॥४॥
दिवि न केतुः अधि धायि हर्यतः विव्यचत् वज्रः हरितः न रंह्या ।तुदत् अहिम् हरि-शिप्रः यः आयसः सहस्रशोकाः अभवत् हरिम्भरः ॥४॥
divi na ketuḥ adhi dhāyi haryataḥ vivyacat vajraḥ haritaḥ na raṃhyā .tudat ahim hari-śipraḥ yaḥ āyasaḥ sahasraśokāḥ abhavat harimbharaḥ ..4..

त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेश यज्वभिः ।त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतम् ॥५॥
त्वम् त्वम् अहर् यथा उपस्तुतः पूर्वेभिः इन्द्र हरि-केश यज्वभिः ।त्वम् हर्यसि तव विश्वम् उक्थ्यम् असामि राधः हरि-जात हर्यतम् ॥५॥
tvam tvam ahar yathā upastutaḥ pūrvebhiḥ indra hari-keśa yajvabhiḥ .tvam haryasi tava viśvam ukthyam asāmi rādhaḥ hari-jāta haryatam ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In