| |
|

This overlay will guide you through the buttons:

ता वज्रिणं मन्दिनं स्तोम्यं मद इन्द्रं रथे वहतो हर्यता हरी ।पुरूण्यस्मै सवनानि हर्यत इन्द्राय सोमा हरयो दधन्विरे ॥१॥
ता वज्रिणम् मन्दिनम् स्तोम्यम् मदे इन्द्रम् रथे वहतः हर्यता हरी ।पुरूणि अस्मै सवनानि हर्यते इन्द्राय सोमाः हरयः दधन्विरे ॥१॥
tā vajriṇam mandinam stomyam made indram rathe vahataḥ haryatā harī .purūṇi asmai savanāni haryate indrāya somāḥ harayaḥ dadhanvire ..1..

अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन् हरयो हरी तुरा ।अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवन्तमानशे ॥२॥
अरम् कामाय हरयः दधन्विरे स्थिराय हिन्वन् हरयः हरी तुरा ।अर्वद्भिः यः हरिभिः जोषम् ईयते सः अस्य कामम् हरिवन्तम् आनशे ॥२॥
aram kāmāya harayaḥ dadhanvire sthirāya hinvan harayaḥ harī turā .arvadbhiḥ yaḥ haribhiḥ joṣam īyate saḥ asya kāmam harivantam ānaśe ..2..

हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥३॥
हरि-श्मशारुः हरि-केशः आयसः तुरस्पेये यः हरि-पाः अवर्धत ।अर्वद्भिः यः हरिभिः वाजिनीवसुः अति विश्वा दुरिता पारिषत् हरी ॥३॥
hari-śmaśāruḥ hari-keśaḥ āyasaḥ turaspeye yaḥ hari-pāḥ avardhata .arvadbhiḥ yaḥ haribhiḥ vājinīvasuḥ ati viśvā duritā pāriṣat harī ..3..

श्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यान्धसः ॥४॥
श्रुवा इव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।प्र यत् कृते चमसे मर्मृजत् हरी पीत्वा मदस्य हर्यतस्य अन्धसः ॥४॥
śruvā iva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ .pra yat kṛte camase marmṛjat harī pītvā madasya haryatasya andhasaḥ ..4..

उत स्म सद्न हर्यतस्य पस्त्योरत्यो न वाजं हरिवामचिक्रदत्।मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतस्चिदा ॥५॥
उत स्म सद्न हर्यतस्य पस्त्योः अत्यः न वाजम् हरिवाम् अचिक्रदत्।मही चित् हि धिषणा अहर्यत्-ओजसा बृहत् वयः दधिषे हर्यतस्चिदा ॥५॥
uta sma sadna haryatasya pastyoḥ atyaḥ na vājam harivām acikradat.mahī cit hi dhiṣaṇā aharyat-ojasā bṛhat vayaḥ dadhiṣe haryatascidā ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In