| |
|

This overlay will guide you through the buttons:

यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यमूषत्।यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥१॥
यः जातः एव प्रथमः मनस्वान् देवः देवान् क्रतुना पर्यमूषत्।यस्य शुष्मात् रोदसी अभ्यसेताम् नृम्णस्य मह्ना स जनासः इन्द्रः ॥१॥
yaḥ jātaḥ eva prathamaḥ manasvān devaḥ devān kratunā paryamūṣat.yasya śuṣmāt rodasī abhyasetām nṛmṇasya mahnā sa janāsaḥ indraḥ ..1..

यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान् प्रकुपितामरम्णात्।यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥२॥
यः पृथिवीम् व्यथमानाम् अदृंहत् यः पर्वतान् प्रकुपिताम् अरम्णात्।यः अन्तरिक्षम् विममे वरीयः यः द्याम् अस्तभ्नात् स जनासः इन्द्रः ॥२॥
yaḥ pṛthivīm vyathamānām adṛṃhat yaḥ parvatān prakupitām aramṇāt.yaḥ antarikṣam vimame varīyaḥ yaḥ dyām astabhnāt sa janāsaḥ indraḥ ..2..

यो हत्वाहिमरिणात्सप्त सिन्धून् यो गा उदाजदपधा वलस्य ।यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥३॥
यः हत्वा अहिम् अरिणात् सप्त सिन्धून् यः गाः उदाजत् अपधा वलस्य ।यः अश्मनोः अन्तर् अग्निम् जजान संवृज् समत्सु स जनासः इन्द्रः ॥३॥
yaḥ hatvā ahim ariṇāt sapta sindhūn yaḥ gāḥ udājat apadhā valasya .yaḥ aśmanoḥ antar agnim jajāna saṃvṛj samatsu sa janāsaḥ indraḥ ..3..

येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।श्वघ्नीव यो जिगीवां लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥४॥
येन इमा विश्वा च्यवना कृतानि यः दासम् वर्णम् अधरम् गुहा अकः ।श्वघ्नी इव यः जिगीवाम् लक्षम् आददर्यः पुष्टानि स जनासः इन्द्रः ॥४॥
yena imā viśvā cyavanā kṛtāni yaḥ dāsam varṇam adharam guhā akaḥ .śvaghnī iva yaḥ jigīvām lakṣam ādadaryaḥ puṣṭāni sa janāsaḥ indraḥ ..4..

यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् ।सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥५॥
यम् स्मा पृच्छन्ति कुह स इति घोरम् उत ईमा आहुः न एषः अस्ति इति एनम् ।सः अर्यः पुष्टीः विजः इव आ मिनाति श्रदस्मै धत्त स जनासः इन्द्रः ॥५॥
yam smā pṛcchanti kuha sa iti ghoram uta īmā āhuḥ na eṣaḥ asti iti enam .saḥ aryaḥ puṣṭīḥ vijaḥ iva ā mināti śradasmai dhatta sa janāsaḥ indraḥ ..5..

यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥६॥
यः रध्रस्य चोदिता यः कृशस्य यः ब्रह्मणः नाधमानस्य कीरेः ।युक्त-ग्राव्णः यः अविता सु शिप्रः सुत-सोमस्य स जनासः इन्द्रः ॥६॥
yaḥ radhrasya coditā yaḥ kṛśasya yaḥ brahmaṇaḥ nādhamānasya kīreḥ .yukta-grāvṇaḥ yaḥ avitā su śipraḥ suta-somasya sa janāsaḥ indraḥ ..6..

यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥७॥
यस्य अश्वासः प्रदिशि यस्य गावः यस्य ग्रामाः यस्य विश्वे रथासः ।यः सूर्यम् यः उषसम् जजान यः अपाम् नेता स जनासः इन्द्रः ॥७॥
yasya aśvāsaḥ pradiśi yasya gāvaḥ yasya grāmāḥ yasya viśve rathāsaḥ .yaḥ sūryam yaḥ uṣasam jajāna yaḥ apām netā sa janāsaḥ indraḥ ..7..

यं क्रन्दसी संयती विह्वयेते परेऽवरे उभया अमित्राः ।समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥८॥
यम् क्रन्दसी संयती विह्वयेते परे अवरे उभयाः अमित्राः ।समानम् चित् रथम् आतस्थिवांसा नाना हवेते स जनासः इन्द्रः ॥८॥
yam krandasī saṃyatī vihvayete pare avare ubhayāḥ amitrāḥ .samānam cit ratham ātasthivāṃsā nānā havete sa janāsaḥ indraḥ ..8..

यस्मान् न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥९॥
यस्मात् न ऋते विजयन्ते जनासः यम् युध्यमानाः अवसे हवन्ते ।यः विश्वस्य प्रतिमानम् बभूव यः अ च्युत-च्युत् स जनासः इन्द्रः ॥९॥
yasmāt na ṛte vijayante janāsaḥ yam yudhyamānāḥ avase havante .yaḥ viśvasya pratimānam babhūva yaḥ a cyuta-cyut sa janāsaḥ indraḥ ..9..

यः शस्वतो मह्येनो दधानान् अमन्यमानां छर्वा जघान ।यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥१०॥
यः शस्वतः मह्येनः इनः दधानान् अ मन्यमानाम् शर्वा जघान ।यः शर्धते न अनुददाति शृध्याम् यः दस्योः हन्ता स जनासः इन्द्रः ॥१०॥
yaḥ śasvataḥ mahyenaḥ inaḥ dadhānān a manyamānām śarvā jaghāna .yaḥ śardhate na anudadāti śṛdhyām yaḥ dasyoḥ hantā sa janāsaḥ indraḥ ..10..

यः शम्भरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत्।ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥११॥
यः शम्भरम् पर्वतेषु क्षियन्तम् चत्वारिंश्याम् शरदि अन्वविन्दत्।ओजायमानम् यः अहिम् जघान दानुम् शयानम् स जनासः इन्द्रः ॥११॥
yaḥ śambharam parvateṣu kṣiyantam catvāriṃśyām śaradi anvavindat.ojāyamānam yaḥ ahim jaghāna dānum śayānam sa janāsaḥ indraḥ ..11..

यः शम्भरं पर्यतरत्कसीभिर्योऽचारुकास्नापिबत्सुतस्य ।अन्तर्गिरौ यजमानं बहुं जनं यस्मिन्न् आमूर्छत्स जनास इन्द्रः ॥१२॥
यः शम्भरम् पर्यतरत् कसीभिः यः अचारु-कास्ना अपिबत् सुतस्य ।अन्तर् गिरौ यजमानम् बहुम् जनम् यस्मिन् आ अमूर्छत् स जनासः इन्द्रः ॥१२॥
yaḥ śambharam paryatarat kasībhiḥ yaḥ acāru-kāsnā apibat sutasya .antar girau yajamānam bahum janam yasmin ā amūrchat sa janāsaḥ indraḥ ..12..

यः सप्तरश्मिर्वृषभस्तुविष्मान् अवासृजत्सर्तवे सप्त सिन्धून् ।यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥१३॥
यः सप्त-रश्मिः वृषभः तुविष्मान् अवासृजत् सर्तवे सप्त सिन्धून् ।यः रौहिणम् अस्फुरत् वज्र-बाहुः द्याम् आरोहन्तम् स जनासः इन्द्रः ॥१३॥
yaḥ sapta-raśmiḥ vṛṣabhaḥ tuviṣmān avāsṛjat sartave sapta sindhūn .yaḥ rauhiṇam asphurat vajra-bāhuḥ dyām ārohantam sa janāsaḥ indraḥ ..13..

द्यावा चिदस्मै पृथिवी ममेते शुष्माच्चिदस्य पर्वता भयन्ते ।यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥१४॥
द्यावा चित् अस्मै पृथिवी मम एते शुष्मात् चित् अस्य पर्वताः भयन्ते ।यः सोम-पाः निचितः वज्र-बाहुः यः वज्र-हस्तः स जनासः इन्द्रः ॥१४॥
dyāvā cit asmai pṛthivī mama ete śuṣmāt cit asya parvatāḥ bhayante .yaḥ soma-pāḥ nicitaḥ vajra-bāhuḥ yaḥ vajra-hastaḥ sa janāsaḥ indraḥ ..14..

यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥१५॥
यः सुन्वन्तम् अवति यः पचन्तम् यः शंसन्तम् यः शशमानम् ऊती ।यस्य ब्रह्म वर्धनम् यस्य सोमः यस्य इदम् राधः स जनासः इन्द्रः ॥१५॥
yaḥ sunvantam avati yaḥ pacantam yaḥ śaṃsantam yaḥ śaśamānam ūtī .yasya brahma vardhanam yasya somaḥ yasya idam rādhaḥ sa janāsaḥ indraḥ ..15..

जातो व्यख्यत्पित्रोरुपस्थे भुवो न वेद जनितुः परस्य ।स्तविष्यमाणो नो यो अस्मद्व्रता देवानां स जनास इन्द्रः ॥१६॥
जातः व्यख्यत् पित्रोः उपस्थे भुवः न वेद जनितुः परस्य ।स्तविष्यमाणः नः यः अस्मद्-व्रता देवानाम् स जनासः इन्द्रः ॥१६॥
jātaḥ vyakhyat pitroḥ upasthe bhuvaḥ na veda janituḥ parasya .staviṣyamāṇaḥ naḥ yaḥ asmad-vratā devānām sa janāsaḥ indraḥ ..16..

यः सोमकामो हर्यश्वः सूरिर्यस्माद्रेजन्ते भुवनानि विश्वा ।यो जघान शम्बरं यश्च शुष्णं य एकवीरः स जनास इन्द्रः ॥१७॥
यः सोम-कामः हरि-अश्वः सूरिः यस्मात् रेजन्ते भुवनानि विश्वा ।यः जघान शम्बरम् यः च शुष्णम् यः एक-वीरः स जनासः इन्द्रः ॥१७॥
yaḥ soma-kāmaḥ hari-aśvaḥ sūriḥ yasmāt rejante bhuvanāni viśvā .yaḥ jaghāna śambaram yaḥ ca śuṣṇam yaḥ eka-vīraḥ sa janāsaḥ indraḥ ..17..

यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः ।वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥१८॥
यः सुन्वते पचते दुध्रः आ चित् वाजम् दर्दर्षि स किल असि सत्यः ।वयम् ते इन्द्र विश्वह प्रियासः सु वीरासः विदथमा वदेम ॥१८॥
yaḥ sunvate pacate dudhraḥ ā cit vājam dardarṣi sa kila asi satyaḥ .vayam te indra viśvaha priyāsaḥ su vīrāsaḥ vidathamā vadema ..18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In