| |
|

This overlay will guide you through the buttons:

अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय ।ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥१॥
अस्मै इदु प्र तवसे तुराय प्रयः न हर्मि स्तोमम् माहिनाय ।ऋचीषमाय अध्रिगवे ओहम् इन्द्राय ब्रह्माणि राततमा ॥१॥
asmai idu pra tavase turāya prayaḥ na harmi stomam māhināya .ṛcīṣamāya adhrigave oham indrāya brahmāṇi rātatamā ..1..

अस्मा इदु प्रय इव प्र यंसि भराम्यान्गूषं बाधे सुवृक्ति ।इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥२॥
अस्मै इदु प्रयः इव प्र यंसि भरामि आन्गूषम् बाधे सुवृक्ति ।इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियः मर्जयन्त ॥२॥
asmai idu prayaḥ iva pra yaṃsi bharāmi āngūṣam bādhe suvṛkti .indrāya hṛdā manasā manīṣā pratnāya patye dhiyaḥ marjayanta ..2..

अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन ।मंहिष्ठमछोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥३॥
अस्मै इदु त्यम् उपमम् स्वर्षाम् भरामि आङ्गूषम् आस्येन ।मंहिष्ठम् अछोक्तिभिः मतीनाम् सुवृक्तिभिः सूरिम् वावृधध्यै ॥३॥
asmai idu tyam upamam svarṣām bharāmi āṅgūṣam āsyena .maṃhiṣṭham achoktibhiḥ matīnām suvṛktibhiḥ sūrim vāvṛdhadhyai ..3..

अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥४॥
अस्मै इदु स्तोमम् सम् हिनोमि रथम् न तष्टा इव तत् सिनाय ।गिरः च गिः-वाहसे सुवृक्ती इन्द्राय विश्वमिन्वम् मेधिराय ॥४॥
asmai idu stomam sam hinomi ratham na taṣṭā iva tat sināya .giraḥ ca giḥ-vāhase suvṛktī indrāya viśvaminvam medhirāya ..4..

अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे ।वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥५॥
अस्मै इदु सप्तिम् इव श्रवस्या इन्द्राय अर्कम् जुह्वा समञ्जे ।वीरम् दानौकसम् वन्दध्यै पुराम् गूर्त-श्रवसम् दर्माणम् ॥५॥
asmai idu saptim iva śravasyā indrāya arkam juhvā samañje .vīram dānaukasam vandadhyai purām gūrta-śravasam darmāṇam ..5..

अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय ।वृत्रस्य चिद्विदद्येन मर्म तुजन्न् ईशानस्तुजता कियेधाः ॥६॥
अस्मै इदु त्वष्टा तक्षत् वज्रम् सु अपस्तमम् स्वर्यम् रणाय ।वृत्रस्य चित् विदत् येन मर्म तुजन् ईशानः तुजता कियेधाः ॥६॥
asmai idu tvaṣṭā takṣat vajram su apastamam svaryam raṇāya .vṛtrasya cit vidat yena marma tujan īśānaḥ tujatā kiyedhāḥ ..6..

अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवां चार्वन्ना ।मुषायद्विष्णुः पचतं सहीयान् विध्यद्वराहं तिरो अद्रिमस्ता ॥७॥
अस्य इदु मातुः सवनेषु सद्यस् महः पितुम् पपिवान् चारु-अन्ना ।मुषायत् विष्णुः पचतम् सहीयान् विध्यत् वराहम् तिरस् अद्रि-मस्ता ॥७॥
asya idu mātuḥ savaneṣu sadyas mahaḥ pitum papivān cāru-annā .muṣāyat viṣṇuḥ pacatam sahīyān vidhyat varāham tiras adri-mastā ..7..

अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः ।परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥८॥
अस्मै इद् उ ग्नाः चित् देव-पत्नीः इन्द्राय अर्क-महि-हत्ये ऊवुः ।परि द्यावापृथिवी जभ्रे उर्वी न अस्य ते महिमानम् परि स्तः ॥८॥
asmai id u gnāḥ cit deva-patnīḥ indrāya arka-mahi-hatye ūvuḥ .pari dyāvāpṛthivī jabhre urvī na asya te mahimānam pari staḥ ..8..

अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात्।स्वरालिन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥९॥
अस्य इद् एव प्र रिरिचे महि-त्वम् दिवस् पृथिव्याः परि अन्तरिक्षात्।स्वराल्-इन्द्रः दमे आ विश्व-गूर्तः स्वरि-रमत्रः ववक्षे रणाय ॥९॥
asya id eva pra ririce mahi-tvam divas pṛthivyāḥ pari antarikṣāt.svarāl-indraḥ dame ā viśva-gūrtaḥ svari-ramatraḥ vavakṣe raṇāya ..9..

अस्येदेव शवसा शुशन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः ।गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥१०॥
अस्य इद् एव शवसा शुशन्तम् वि वृश्चत् वज्रेण वृत्रम् इन्द्रः ।गाः न व्राणाः अवनीः अमुञ्चत् अभि श्रवः दावने सचेताः ॥१०॥
asya id eva śavasā śuśantam vi vṛścat vajreṇa vṛtram indraḥ .gāḥ na vrāṇāḥ avanīḥ amuñcat abhi śravaḥ dāvane sacetāḥ ..10..

अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत्।ईशानकृद्दाशुषे दशस्यन् तुर्वीतये गाधं तुर्वणिः कः ॥११॥
अस्य इदु त्वेषसा रन्त सिन्धवः परि यत् वज्रेण सीमयच्छत्।ईशान-कृत् दाशुषे दशस्यन् तुर्वीतये गाधम् तुर्वणिः कः ॥११॥
asya idu tveṣasā ranta sindhavaḥ pari yat vajreṇa sīmayacchat.īśāna-kṛt dāśuṣe daśasyan turvītaye gādham turvaṇiḥ kaḥ ..11..

अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः ।गोर्न पर्व वि रदा तिरश्चेष्यन्न् अर्णांस्यपां चरध्यै ॥१२॥
अस्मै इदु प्र भर तूतुजानः वृत्राय वज्रम् ईशानः कियेधाः ।गोः न पर्व वि रद तिरस् च इष्यन् अर्णांसि अपाम् चरध्यै ॥१२॥
asmai idu pra bhara tūtujānaḥ vṛtrāya vajram īśānaḥ kiyedhāḥ .goḥ na parva vi rada tiras ca iṣyan arṇāṃsi apām caradhyai ..12..

अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥१३॥
अस्य इदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्यः उक्थैः ।युधे यदिष्णानः आयुधानि ऋघायमाणः निरिणाति शत्रून् ॥१३॥
asya idu pra brūhi pūrvyāṇi turasya karmāṇi navyaḥ ukthaiḥ .yudhe yadiṣṇānaḥ āyudhāni ṛghāyamāṇaḥ niriṇāti śatrūn ..13..

अस्येदु भिया गिरयश्च दृल्हा द्यावा च भूमा जनुषस्तुजेते ।उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥१४॥
अस्य इदु भिया गिरयः च दृल्हाः द्यावा च भूमा जनुषः तुजेते ।उप उ वेनस्य जोगुवानः ओणिम् सद्यस् भुवत्-वीर्याय नोधाः ॥१४॥
asya idu bhiyā girayaḥ ca dṛlhāḥ dyāvā ca bhūmā januṣaḥ tujete .upa u venasya joguvānaḥ oṇim sadyas bhuvat-vīryāya nodhāḥ ..14..

अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः ।प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥१५॥
अस्मै इदु त्यद् अनु दायि एषाम् एकः यत् वव्ने भूरेः ईशानः ।प्र एतशम् सूर्ये पस्पृधानम् सौवश्व्ये सुषु इमावत् इन्द्रः ॥१५॥
asmai idu tyad anu dāyi eṣām ekaḥ yat vavne bhūreḥ īśānaḥ .pra etaśam sūrye paspṛdhānam sauvaśvye suṣu imāvat indraḥ ..15..

एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात्॥१६॥
एव ते हारियोजना सुवृक्ती इन्द्र ब्रह्माणि गोतमासः अक्रन् ।आ एषु विश्व-पेशसम् धियम् धाः प्रातर् मक्षू धियावसुः जगम्यात्॥१६॥
eva te hāriyojanā suvṛktī indra brahmāṇi gotamāsaḥ akran .ā eṣu viśva-peśasam dhiyam dhāḥ prātar makṣū dhiyāvasuḥ jagamyāt..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In