| |
|

This overlay will guide you through the buttons:

य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः ।यः पत्यते वृषभो वृष्ण्यावान्त्सत्यः सत्वा पुरुमायः सहस्वान् ॥१॥
यः एकः इद् हव्यः चर्षणीनाम् इन्द्रम् तम् गीर्भिः अभ्यर्चे आभिः ।यः पत्यते वृषभः वृष्ण्यावान् सत्यः सत्वा पुरु-मायः सहस्वान् ॥१॥
yaḥ ekaḥ id havyaḥ carṣaṇīnām indram tam gīrbhiḥ abhyarce ābhiḥ .yaḥ patyate vṛṣabhaḥ vṛṣṇyāvān satyaḥ satvā puru-māyaḥ sahasvān ..1..

तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः ।नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥२॥
तम् उ नः पूर्वे पितरः नवग्वाः सप्त विप्रासः अभि वाजयन्तः ।नक्षत्-दाभम् ततुरिम् पर्वतेष्ठाम् अमद्रोघ-वाचम् मतिभिः शविष्ठम् ॥२॥
tam u naḥ pūrve pitaraḥ navagvāḥ sapta viprāsaḥ abhi vājayantaḥ .nakṣat-dābham taturim parvateṣṭhām amadrogha-vācam matibhiḥ śaviṣṭham ..2..

तमीमहे इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।यो अष्कृधोयुरजरः स्वर्वान् तमा भर हरिवो मादयध्यै ॥३॥
तमीमहे इन्द्रमस्य रायः पुरु-वीरस्य नृवतः पुरुक्षोः ।यः अष्कृधोयुः अजरः स्वर्वान् तम् आ भर हरिवस् मादयध्यै ॥३॥
tamīmahe indramasya rāyaḥ puru-vīrasya nṛvataḥ purukṣoḥ .yaḥ aṣkṛdhoyuḥ ajaraḥ svarvān tam ā bhara harivas mādayadhyai ..3..

तन् नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र ।कस्ते भागः किं वयो दुध्र खिदुः पुरुहूत पुरूवसोऽसुरघ्नः ॥४॥
तत् नः वि वोचः यदि ते पुरा चित् जरितारः आनशुः सुम्नम् इन्द्र ।कः ते भागः किम् वयः दुध्र खिदुः पुरुहूत पुरूवसो असुर-घ्नः ॥४॥
tat naḥ vi vocaḥ yadi te purā cit jaritāraḥ ānaśuḥ sumnam indra .kaḥ te bhāgaḥ kim vayaḥ dudhra khiduḥ puruhūta purūvaso asura-ghnaḥ ..4..

तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः ।तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥५॥
तम् पृच्छन्ती वज्रहस्तम् रथेष्ठाम् इन्द्रम् वेपी वक्वरी यस्य नु गीः ।तुवि-ग्राभम् तुविकूर्मिम् रभः-दाम् गातुम् इषे नक्षते तुम्रम् अच्छ ॥५॥
tam pṛcchantī vajrahastam ratheṣṭhām indram vepī vakvarī yasya nu gīḥ .tuvi-grābham tuvikūrmim rabhaḥ-dām gātum iṣe nakṣate tumram accha ..5..

अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन ।अच्युता चिद्वीलिता स्वोजो रुजो वि दृल्हा धृषता विरप्शिन् ॥६॥
अया ह त्यम् मायया वावृधानम् मनः-जुवा स्वतवः पर्वतेन ।अच्युता सु ओजः रुजः वि दृल्हा धृषता विरप्शिन् ॥६॥
ayā ha tyam māyayā vāvṛdhānam manaḥ-juvā svatavaḥ parvatena .acyutā su ojaḥ rujaḥ vi dṛlhā dhṛṣatā virapśin ..6..

तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै ।स नो वक्षदनिमानः सुवह्नेन्द्रो विश्वान्यति दुर्गहाणि ॥७॥
तम् वः धिया नव्यस्या शविष्ठम् प्रत्नम् प्रत्न-वत् परितंसयध्यै ।स नः वक्षत् अनिमानः सु वह्ना इन्द्रः विश्वानि अति दुर्गहाणि ॥७॥
tam vaḥ dhiyā navyasyā śaviṣṭham pratnam pratna-vat paritaṃsayadhyai .sa naḥ vakṣat animānaḥ su vahnā indraḥ viśvāni ati durgahāṇi ..7..

आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा ।तपा वृषन् विश्वतः शोचिषा तान् ब्रह्मद्विषे शोचय क्षामपश्च ॥८॥
आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयः अन्तरिक्षा ।तप वृषन् विश्वतस् शोचिषा तान् ब्रह्म-द्विषे शोचय क्षाम-पः च ॥८॥
ā janāya druhvaṇe pārthivāni divyāni dīpayaḥ antarikṣā .tapa vṛṣan viśvatas śociṣā tān brahma-dviṣe śocaya kṣāma-paḥ ca ..8..

भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक्।धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥९॥
भुवः जनस्य दिव्यस्य राजा पार्थिवस्य जगतः त्वेष-संदृश्।धिष्व वज्रम् दक्षिणे इन्द्र हस्ते विश्वाः अजुर्य दयसे वि मायाः ॥९॥
bhuvaḥ janasya divyasya rājā pārthivasya jagataḥ tveṣa-saṃdṛś.dhiṣva vajram dakṣiṇe indra haste viśvāḥ ajurya dayase vi māyāḥ ..9..

आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् ।यया दासान्यार्याणि वृत्रा करो वज्रिन्त्सुतुका नाहुषाणि ॥१०॥
आ संयतम् इन्द्र नः स्वस्तिम् शत्रु-तूर्याय बृहतीम् अमृध्राम् ।यया दासानि आर्याणि वृत्रा करः वज्रिन् सुतुका नाहुषाणि ॥१०॥
ā saṃyatam indra naḥ svastim śatru-tūryāya bṛhatīm amṛdhrām .yayā dāsāni āryāṇi vṛtrā karaḥ vajrin sutukā nāhuṣāṇi ..10..

स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो ।न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक्॥११॥
स नः नियुद्भिः पुरुहूत वेधः विश्व-वाराभिः आ गहि प्रयज्यो ।न याः अदेवः वरते न देवः आभिः याहि तूयमा मद्र्यद्रिक्॥११॥
sa naḥ niyudbhiḥ puruhūta vedhaḥ viśva-vārābhiḥ ā gahi prayajyo .na yāḥ adevaḥ varate na devaḥ ābhiḥ yāhi tūyamā madryadrik..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In