| |
|

This overlay will guide you through the buttons:

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।स वृषा वृषभो भुवत्॥१॥
तम् इन्द्रम् वाजयामसि महे वृत्राय हन्तवे ।स वृषा वृषभः भुवत्॥१॥
tam indram vājayāmasi mahe vṛtrāya hantave .sa vṛṣā vṛṣabhaḥ bhuvat..1..

इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।द्युम्नी श्लोकी स सोम्यः ॥२॥
इन्द्रः स दामने कृतः ओजिष्ठः स मदे हितः ।द्युम्नी श्लोकी स सोम्यः ॥२॥
indraḥ sa dāmane kṛtaḥ ojiṣṭhaḥ sa made hitaḥ .dyumnī ślokī sa somyaḥ ..2..

गिरा वज्रो न संभृतः सबलो अनपच्युतः ।ववक्ष ऋष्वो अस्तृतः ॥३॥
गिरा वज्रः न संभृतः स बलः अन् अपच्युतः ।ववक्ष ऋष्वः अस्तृतः ॥३॥
girā vajraḥ na saṃbhṛtaḥ sa balaḥ an apacyutaḥ .vavakṣa ṛṣvaḥ astṛtaḥ ..3..

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।इन्द्रं वाणीरनूषत ॥४॥
इन्द्रम् इद् गाथिनः बृहत् इन्द्रम् अर्केभिः अर्किणः ।इन्द्रम् वाणीः अनूषत ॥४॥
indram id gāthinaḥ bṛhat indram arkebhiḥ arkiṇaḥ .indram vāṇīḥ anūṣata ..4..

इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।इन्द्रो वज्री हिरण्ययः ॥५॥
इन्द्रः इद् हर्योः सचा संमिश्लः आ वचः-युजा ।इन्द्रः वज्री हिरण्ययः ॥५॥
indraḥ id haryoḥ sacā saṃmiślaḥ ā vacaḥ-yujā .indraḥ vajrī hiraṇyayaḥ ..5..

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।वि गोभिरद्रिमैरयत्॥६॥
इन्द्रः दीर्घाय चक्षसे आ सूर्यम् रोहयत् दिवि ।वि गोभिः अद्रिम् ऐरयत्॥६॥
indraḥ dīrghāya cakṣase ā sūryam rohayat divi .vi gobhiḥ adrim airayat..6..

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।एदं बर्हिः सदो मम ॥७॥
आ याहि सुषुम हि ते इन्द्र सोमम् पिबा इमम् ।आ इदम् बर्हिः सदः मम ॥७॥
ā yāhi suṣuma hi te indra somam pibā imam .ā idam barhiḥ sadaḥ mama ..7..

आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।उप ब्रह्माणि नः शृणु ॥८॥
आ त्वा ब्रह्म-युजा हरी वहताम् इन्द्र केशिना ।उप ब्रह्माणि नः शृणु ॥८॥
ā tvā brahma-yujā harī vahatām indra keśinā .upa brahmāṇi naḥ śṛṇu ..8..

ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।सुतावन्तो हवामहे ॥९॥
ब्रह्माणः त्वा वयम् युजा सोम-पाम् इन्द्र सोमिनः ।सुतावन्तः हवामहे ॥९॥
brahmāṇaḥ tvā vayam yujā soma-pām indra sominaḥ .sutāvantaḥ havāmahe ..9..

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।रोचन्ते रोचना दिवि ॥१०॥
युञ्जन्ति ब्रध्नम् अरुषम् चरन्तम् परि तस्थुषः ।रोचन्ते रोचना दिवि ॥१०॥
yuñjanti bradhnam aruṣam carantam pari tasthuṣaḥ .rocante rocanā divi ..10..

युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृवाहसा ॥११॥
युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृ-वाहसा ॥११॥
yuñjanti asya kāmyā harī vipakṣasā rathe .śoṇā dhṛṣṇū nṛ-vāhasā ..11..

केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।समुषद्भिरजायथाः ॥१२॥
केतुम् कृण्वन् अ केतवे पेशः मर्याः अ पेशसे ।समुषद्भिः अजायथाः ॥१२॥
ketum kṛṇvan a ketave peśaḥ maryāḥ a peśase .samuṣadbhiḥ ajāyathāḥ ..12..

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।दृशे विश्वाय सूर्यम् ॥१३॥
उदु त्यम् जातवेदसम् देवम् वहन्ति केतवः ।दृशे विश्वाय सूर्यम् ॥१३॥
udu tyam jātavedasam devam vahanti ketavaḥ .dṛśe viśvāya sūryam ..13..

अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।सूराय विश्वचक्षसे ॥१४॥
अप त्ये तायवः यथा नक्षत्राः यन्ति अक्तुभिः ।सूराय विश्व-चक्षसे ॥१४॥
apa tye tāyavaḥ yathā nakṣatrāḥ yanti aktubhiḥ .sūrāya viśva-cakṣase ..14..

अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।भ्राजन्तो अग्नयो यथा ॥१५॥
अदृश्रन् अस्य केतवः वि रश्मयः जनाम् अनु ।भ्राजन्तः अग्नयः यथा ॥१५॥
adṛśran asya ketavaḥ vi raśmayaḥ janām anu .bhrājantaḥ agnayaḥ yathā ..15..

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।विश्वमा भासि रोचन ॥१६॥
तरणिः विश्व-दर्शतः ज्योतिष्कृत् असि सूर्य ।विश्वमा भासि रोचन ॥१६॥
taraṇiḥ viśva-darśataḥ jyotiṣkṛt asi sūrya .viśvamā bhāsi rocana ..16..

प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।प्रत्यङ्विश्वं स्वर्दृशे ॥१७॥
प्रत्यङ् देवानाम् विशः प्रत्यङ् उदेषि मानुषीः ।प्रत्यङ् विश्वम् स्वर् दृशे ॥१७॥
pratyaṅ devānām viśaḥ pratyaṅ udeṣi mānuṣīḥ .pratyaṅ viśvam svar dṛśe ..17..

येना पावक चक्षसा भुरण्यन्तं जनामनु ।त्वं वरुण पश्यसि ॥१८॥
येन पावक चक्षसा भुरण्यन्तम् जनाम् अनु ।त्वम् वरुण पश्यसि ॥१८॥
yena pāvaka cakṣasā bhuraṇyantam janām anu .tvam varuṇa paśyasi ..18..

वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।पश्यं जन्मानि सूर्य ॥१९॥
वि द्याम इषि रजस्पृथु अहर् मिमानः अक्तुभिः ।पश्यम् जन्मानि सूर्य ॥१९॥
vi dyāma iṣi rajaspṛthu ahar mimānaḥ aktubhiḥ .paśyam janmāni sūrya ..19..

सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।शोचिष्केशं विचक्षणम् ॥२०॥
सप्त त्वा हरितः रथे वहन्ति देव सूर्य ।शोचिष्केशम् विचक्षणम् ॥२०॥
sapta tvā haritaḥ rathe vahanti deva sūrya .śociṣkeśam vicakṣaṇam ..20..

अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।ताभिर्याति स्वयुक्तिभिः ॥२१॥
अयुक्त सप्त शुन्ध्युवः सूरः रथस्य नप्त्यः ।ताभिः याति स्व-युक्तिभिः ॥२१॥
ayukta sapta śundhyuvaḥ sūraḥ rathasya naptyaḥ .tābhiḥ yāti sva-yuktibhiḥ ..21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In