| |
|

This overlay will guide you through the buttons:

अभि त्वा वर्चसा गिरः सिञ्चन्त्या चरण्युवः ।अभि वत्सं न धेनवः ॥१॥
अभि त्वा वर्चसा गिरः सिञ्चन्त्या चरण्युवः ।अभि वत्सम् न धेनवः ॥१॥
abhi tvā varcasā giraḥ siñcantyā caraṇyuvaḥ .abhi vatsam na dhenavaḥ ..1..

ता अर्षन्ति शुभ्रियः पृञ्चतीर्वर्चसा पयः ।जातं जनिर्यथा हृदा ॥२॥
ताः अर्षन्ति शुभ्रियः पृञ्चतीः वर्चसा पयः ।जातम् जनिः यथा हृदा ॥२॥
tāḥ arṣanti śubhriyaḥ pṛñcatīḥ varcasā payaḥ .jātam janiḥ yathā hṛdā ..2..

वज्रापवसाध्यः कीर्तिर्म्रियमाणमावहन् ।मह्यमायुर्घृतं पयः ॥३॥
वज्रापव-साध्यः कीर्तिः म्रियमाणम् आवहन् ।मह्यम् आयुः घृतम् पयः ॥३॥
vajrāpava-sādhyaḥ kīrtiḥ mriyamāṇam āvahan .mahyam āyuḥ ghṛtam payaḥ ..3..

आयं गौः पृश्निरक्रमीदसदन् मातरं पुरः ।पितरं च प्रयन्त्स्वः ॥४॥
आ अयम् गौः पृश्निः अक्रमीत् असदत् मातरम् पुरस् ।पितरम् च प्रयन् स्वर् ॥४॥
ā ayam gauḥ pṛśniḥ akramīt asadat mātaram puras .pitaram ca prayan svar ..4..

अन्तश्चरति रोचना अस्य प्राणादपानतः ।व्यख्यन् महिषः स्वः ॥५॥
अन्तर् चरति रोचना अस्य प्राणात् अपानतः ।व्यख्यत् महिषः स्वर् ॥५॥
antar carati rocanā asya prāṇāt apānataḥ .vyakhyat mahiṣaḥ svar ..5..

त्रिंशद्धामा वि राजति वाक्पतङ्गो अशिश्रियत्।प्रति वस्तोरहर्द्युभिः ॥६॥
त्रिंशत्-धामा वि राजति वाच्-पतङ्गः अशिश्रियत्।प्रति वस्तोः अहर्द्युभिः ॥६॥
triṃśat-dhāmā vi rājati vāc-pataṅgaḥ aśiśriyat.prati vastoḥ ahardyubhiḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In