| |
|

This overlay will guide you through the buttons:

विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥१॥
विश्वाः पृतनाः अभिभूतरम् नरम् सजूस् ततक्षुः इन्द्रम् जजनुः च राजसे ।क्रत्वा वरिष्ठम् वरे आमुरिम् उत उग्रम् ओजिष्ठम् तवसम् तरस्विनम् ॥१॥
viśvāḥ pṛtanāḥ abhibhūtaram naram sajūs tatakṣuḥ indram jajanuḥ ca rājase .kratvā variṣṭham vare āmurim uta ugram ojiṣṭham tavasam tarasvinam ..1..

समीं रेभासो अस्वरन्न् इन्द्रं सोमस्य पीतये ।स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥२॥
समीम् रेभासः अस्वरन् इन्द्रम् सोमस्य पीतये ।स्वर्पतिम् यदि ईम् वृधे धृतव्रतः हि ओजसा समूतिभिः ॥२॥
samīm rebhāsaḥ asvaran indram somasya pītaye .svarpatim yadi īm vṛdhe dhṛtavrataḥ hi ojasā samūtibhiḥ ..2..

नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥३॥
नेमिम् नमन्ति चक्षसा मेषम् विप्राः अभिस्वरा ।सु दीतयः वः अद्रुहः अपि कर्णे तरस्विनः समृक्वभिः ॥३॥
nemim namanti cakṣasā meṣam viprāḥ abhisvarā .su dītayaḥ vaḥ adruhaḥ api karṇe tarasvinaḥ samṛkvabhiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In