| |
|

This overlay will guide you through the buttons:

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।जुहूमसि द्यविद्यवि ॥१॥
सु रूप-कृत्नुम् ऊतये सुदुघाम् इव गो-दुहे ।जुहूमसि द्यवि द्यवि ॥१॥
su rūpa-kṛtnum ūtaye sudughām iva go-duhe .juhūmasi dyavi dyavi ..1..

उप नः सवना गहि सोमस्य सोमपाः पिब ।गोदा इद्रेवतो मदः ॥२॥
उप नः सवना गहि सोमस्य सोम-पाः पिब ।गो-दाः इद्रेवतः मदः ॥२॥
upa naḥ savanā gahi somasya soma-pāḥ piba .go-dāḥ idrevataḥ madaḥ ..2..

अथा ते अन्तमानां विद्याम सुमतीनाम् ।मा नो अति ख्य आ गहि ॥३॥
अथा ते अन्तमानाम् विद्याम सुमतीनाम् ।मा नः अति ख्यः आ गहि ॥३॥
athā te antamānām vidyāma sumatīnām .mā naḥ ati khyaḥ ā gahi ..3..

शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।इन्द्र सोमं शतक्रतो ॥४॥
शुष्मिन्तमम् नः ऊतये द्युम्निनम् पाहि जागृविम् ।इन्द्र सोमम् शतक्रतो ॥४॥
śuṣmintamam naḥ ūtaye dyumninam pāhi jāgṛvim .indra somam śatakrato ..4..

इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।इन्द्र तानि त आ वृणे ॥५॥
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।इन्द्र तानि ते आ वृणे ॥५॥
indriyāṇi śatakrato yā te janeṣu pañcasu .indra tāni te ā vṛṇe ..5..

अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।उत्ते शुष्मं तिरामसि ॥६॥
अगन् इन्द्र श्रवः बृहत्-द्युम्नम् दधिष्व दुष्टरम् ।उद् ते शुष्मम् तिरामसि ॥६॥
agan indra śravaḥ bṛhat-dyumnam dadhiṣva duṣṭaram .ud te śuṣmam tirāmasi ..6..

अर्वावतो न आ गह्यथो शक्र परावतः ।उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥७॥
अर्वावतः नः आ गहि अथो शक्र परावतः ।उ लोकः यः ते अद्रिवस् इन्द्र इह ततस् आ गहि ॥७॥
arvāvataḥ naḥ ā gahi atho śakra parāvataḥ .u lokaḥ yaḥ te adrivas indra iha tatas ā gahi ..7..

इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत्।स हि स्थिरो विचर्षनिः ॥८॥
इन्द्रः अङ्ग महत् भयम् अभी सत् अप चुच्यवत्।स हि स्थिरः विचर्षनिः ॥८॥
indraḥ aṅga mahat bhayam abhī sat apa cucyavat.sa hi sthiraḥ vicarṣaniḥ ..8..

इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्।भद्रं भवाति नः पुरः ॥९॥
इन्द्रः च मृलयाति नः न नः पश्चात् अघम् नशत्।भद्रम् भवाति नः पुरस् ॥९॥
indraḥ ca mṛlayāti naḥ na naḥ paścāt agham naśat.bhadram bhavāti naḥ puras ..9..

इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्।जेता शत्रून् विचर्षणिः ॥१०॥
इन्द्रः आशाभ्यः परि सर्वाभ्यः अभयम् करत्।जेता शत्रून् विचर्षणिः ॥१०॥
indraḥ āśābhyaḥ pari sarvābhyaḥ abhayam karat.jetā śatrūn vicarṣaṇiḥ ..10..

क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥११॥
कः ईम् वेद सुते सचा पिबन्तम् क-द्वयः दधे ।अयम् यः पुरस् विभिनत्ति ओजसा मन्दानः शिप्री अन्धसः ॥११॥
kaḥ īm veda sute sacā pibantam ka-dvayaḥ dadhe .ayam yaḥ puras vibhinatti ojasā mandānaḥ śiprī andhasaḥ ..11..

दाना मृगो न वारणः पुरुत्रा चरथं दधे ।नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥१२॥
दाना मृगः न वारणः पुरुत्रा चरथम् दधे ।नकिर् त्वा नि यम-दाः सुते गमः महान् चरसि ओजसा ॥१२॥
dānā mṛgaḥ na vāraṇaḥ purutrā caratham dadhe .nakir tvā ni yama-dāḥ sute gamaḥ mahān carasi ojasā ..12..

य उग्रः सन्न् अनिष्टृत स्थिरो रणाय संस्कृतः ।यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत्॥१३॥
यः उग्रः सन् अ निष्टृत स्थिरः रणाय संस्कृतः ।यदि स्तोतुः मघवा शृणवत् हवम् न इन्द्रः योषत्या गमत्॥१३॥
yaḥ ugraḥ san a niṣṭṛta sthiraḥ raṇāya saṃskṛtaḥ .yadi stotuḥ maghavā śṛṇavat havam na indraḥ yoṣatyā gamat..13..

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतार आसते ॥१४॥
वयम् घ त्वा सुतावन्तः आपः न वृक्त-बर्हिषः ।पवित्रस्य प्रस्रवणेषु वृत्रहन् परि स्तोतारः आसते ॥१४॥
vayam gha tvā sutāvantaḥ āpaḥ na vṛkta-barhiṣaḥ .pavitrasya prasravaṇeṣu vṛtrahan pari stotāraḥ āsate ..14..

स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥१५॥
स्वरन्ति त्वा सुते नरः वसो निरेके उक्थिनः ।कदा सुतम् तृषाणः ओकः आ गमः इन्द्र स्वब्दी इव वंसगः ॥१५॥
svaranti tvā sute naraḥ vaso nireke ukthinaḥ .kadā sutam tṛṣāṇaḥ okaḥ ā gamaḥ indra svabdī iva vaṃsagaḥ ..15..

कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् ।पिशङ्गरूपं मघवन् विचर्षणे मक्षू गोमन्तमीमहे ॥१६॥
कण्वेभिः धृष्णवा धृषत्-वाजम् दर्षि सहस्रिणम् ।पिशङ्ग-रूपम् मघवन् विचर्षणे मक्षू गोमन्तम् ईमहे ॥१६॥
kaṇvebhiḥ dhṛṣṇavā dhṛṣat-vājam darṣi sahasriṇam .piśaṅga-rūpam maghavan vicarṣaṇe makṣū gomantam īmahe ..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In