| |
|

This overlay will guide you through the buttons:

इमा नु कं भुवना सीषधामेन्द्रश्च विश्वे च देवाः ।यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह चीकॢपाति ॥१॥
इमा नु कम् भुवना सीषधाम इन्द्रः च विश्वे च देवाः ।यज्ञम् च नः तन्वम् च प्रजाम् च आदित्यैः इन्द्रः सह चीकॢपाति ॥१॥
imā nu kam bhuvanā sīṣadhāma indraḥ ca viśve ca devāḥ .yajñam ca naḥ tanvam ca prajām ca ādityaiḥ indraḥ saha cīkḷpāti ..1..

आदित्यैरिन्द्रः सगणो मरुद्भिरस्माकं भूत्वविता तनूनाम् ।हत्वाय देवा असुरान् यदायन् देवा देवत्वमभिरक्षमाणाः ॥२॥
आदित्यैः इन्द्रः स गणः मरुद्भिः अस्माकम् भूत्वा अविता तनूनाम् ।हत्वाय देवाः असुरान् यदा अयन् देवाः देव-त्वम् अभिरक्षमाणाः ॥२॥
ādityaiḥ indraḥ sa gaṇaḥ marudbhiḥ asmākam bhūtvā avitā tanūnām .hatvāya devāḥ asurān yadā ayan devāḥ deva-tvam abhirakṣamāṇāḥ ..2..

प्रत्यञ्चमर्कमनयं छचीभिरादित्स्वधामिषिरां पर्यपश्यन् ।अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥३॥
प्रत्यञ्चम् अर्कम् अनयम् शचीभिः आदित्-स्वधाम् इषिराम् पर्यपश्यन् ।अया वाजम् देव-हितम् सनेम मदेम शत-हिमाः सु वीराः ॥३॥
pratyañcam arkam anayam śacībhiḥ ādit-svadhām iṣirām paryapaśyan .ayā vājam deva-hitam sanema madema śata-himāḥ su vīrāḥ ..3..

य एक इद्विदयते वसु मर्ताय दाशुषे ।ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥४॥
यः एकः इद् विदयते वसु मर्ताय दाशुषे ।ईशानः अप्रतिष्कुतः इन्द्रः अङ्ग ॥४॥
yaḥ ekaḥ id vidayate vasu martāya dāśuṣe .īśānaḥ apratiṣkutaḥ indraḥ aṅga ..4..

कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत्।कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥५॥
कदा मर्तम् अराधसम् पदा क्षुम्पम् इव स्फुरत्।कदा नः शुश्रवत्-गिरः इन्द्रः अङ्ग ॥५॥
kadā martam arādhasam padā kṣumpam iva sphurat.kadā naḥ śuśravat-giraḥ indraḥ aṅga ..5..

यश्चिद्धि त्वा बहुभ्य आ सुतावामाविवासति ।उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥६॥
यः चित् हि त्वा बहुभ्यः आ सुतावाम् आविवासति ।उग्रम् तत् पत्यते शवः इन्द्रः अङ्ग ॥६॥
yaḥ cit hi tvā bahubhyaḥ ā sutāvām āvivāsati .ugram tat patyate śavaḥ indraḥ aṅga ..6..

य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।येना हंसि न्यत्त्रिणं तमीमहे ॥७॥
यः इन्द्र सोम-पातमः मदः शविष्ठ चेतति ।येन हंसि न्यत्त्रिणम् तमीमहे ॥७॥
yaḥ indra soma-pātamaḥ madaḥ śaviṣṭha cetati .yena haṃsi nyattriṇam tamīmahe ..7..

येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।येना समुद्रमाविथा तमीमहे ॥८॥
येन दशग्वम् अध्रिगुम् वेपयन्तम् स्वर्णरम् ।येन समुद्रम् आविथ तमीमहे ॥८॥
yena daśagvam adhrigum vepayantam svarṇaram .yena samudram āvitha tamīmahe ..8..

येन सिन्धुं महीरपो रथामिव प्रचोदयः ।पन्थामृतस्य यातवे तमीमहे ॥९॥
येन सिन्धुम् महीरपः प्रचोदयः ।पन्थामृतस्य यातवे तमीमहे ॥९॥
yena sindhum mahīrapaḥ pracodayaḥ .panthāmṛtasya yātave tamīmahe ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In