| |
|

This overlay will guide you through the buttons:

सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।जुहूमसि द्यविद्यवि ॥१॥
सु रूप-कृत्नुम् ऊतये सुदुघाम् इव गो-दुहे ।जुहूमसि द्यवि द्यवि ॥१॥
su rūpa-kṛtnum ūtaye sudughām iva go-duhe .juhūmasi dyavi dyavi ..1..

उप नः सवना गहि सोमस्य सोमपाः पिब ।गोदा इद्रेवतो मदः ॥२॥
उप नः सवना गहि सोमस्य सोम-पाः पिब ।गो-दाः इद्रेवतः मदः ॥२॥
upa naḥ savanā gahi somasya soma-pāḥ piba .go-dāḥ idrevataḥ madaḥ ..2..

अथा ते अन्तमानां विद्याम सुमतीनाम् ।मा नो अति ख्य आ गहि ॥३॥
अथा ते अन्तमानाम् विद्याम सुमतीनाम् ।मा नः अति ख्यः आ गहि ॥३॥
athā te antamānām vidyāma sumatīnām .mā naḥ ati khyaḥ ā gahi ..3..

परेहि विग्रमस्तृतमिन्द्रं पृछा विपश्चितम् ।यस्ते सखिभ्य आ वरम् ॥४॥
परेहि विग्रम् अस्तृतम् इन्द्रम् पृच्छ विपश्चितम् ।यः ते सखिभ्यः आ वरम् ॥४॥
parehi vigram astṛtam indram pṛccha vipaścitam .yaḥ te sakhibhyaḥ ā varam ..4..

उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।दधाना इन्द्र इद्दुवः ॥५॥
उत ब्रुवन्तु नः निदः निः अन्यतस् चित् आरत ।दधानः इन्द्रः इद् दुवः ॥५॥
uta bruvantu naḥ nidaḥ niḥ anyatas cit ārata .dadhānaḥ indraḥ id duvaḥ ..5..

उत नः सुभगामरिर्वोचेयुर्दस्म कृष्टयः ।स्यामेदिन्द्रस्य शर्मणि ॥६॥
उत नः सुभगाम् अरिः वोचेयुः दस्म कृष्टयः ।स्याम इद् इन्द्रस्य शर्मणि ॥६॥
uta naḥ subhagām ariḥ voceyuḥ dasma kṛṣṭayaḥ .syāma id indrasya śarmaṇi ..6..

एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।पतयन् मन्दयत्सखम् ॥७॥
आ इमा आशुम् आशवे भर यज्ञ-श्रियम् नृ-मादनम् ।पतयत् मन्दयत्-सखम् ॥७॥
ā imā āśum āśave bhara yajña-śriyam nṛ-mādanam .patayat mandayat-sakham ..7..

अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।प्रावो वाजेषु वाजिनम् ॥८॥
अस्य पीत्वा शतक्रतो घनः वृत्राणाम् अभवः ।प्रावः वाजेषु वाजिनम् ॥८॥
asya pītvā śatakrato ghanaḥ vṛtrāṇām abhavaḥ .prāvaḥ vājeṣu vājinam ..8..

तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।धनानामिन्द्र सातये ॥९॥
तम् त्वा वाजेषु वाजिनम् वाजयामः शतक्रतो ।धनानाम् इन्द्र सातये ॥९॥
tam tvā vājeṣu vājinam vājayāmaḥ śatakrato .dhanānām indra sātaye ..9..

यो रायोऽवनिर्महान्त्सुपारः सुन्वतः सखा ।तस्मा इन्द्राय गायत ॥१०॥
यः रायः अवनिः महान् सु पारः सुन्वतः सखा ।तस्मै इन्द्राय गायत ॥१०॥
yaḥ rāyaḥ avaniḥ mahān su pāraḥ sunvataḥ sakhā .tasmai indrāya gāyata ..10..

आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।सखाय स्तोमवाहसः ॥११॥
आ तु एत नि सीदत इन्द्रम् अभि प्र गायत ।सखायः स्तोम-वाहसः ॥११॥
ā tu eta ni sīdata indram abhi pra gāyata .sakhāyaḥ stoma-vāhasaḥ ..11..

पुरूतमं पुरूणामीशानं वार्याणाम् ।इन्द्रं सोमे सचा सुते ॥१२॥
पुरुतमम् पुरूणाम् ईशानम् वार्याणाम् ।इन्द्रम् सोमे सचा सुते ॥१२॥
purutamam purūṇām īśānam vāryāṇām .indram some sacā sute ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In