| |
|

This overlay will guide you through the buttons:

स घा नो योग आ भुवत्स राये स पुरंध्याम् ।गमद्वाजेभिरा स नः ॥१॥
स घा नः योगे आ भुवत् स राये स पुरंध्याम् ।गमत् वाजेभिः आ स नः ॥१॥
sa ghā naḥ yoge ā bhuvat sa rāye sa puraṃdhyām .gamat vājebhiḥ ā sa naḥ ..1..

यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।तस्मा इन्द्राय गायत ॥२॥
यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।तस्मै इन्द्राय गायत ॥२॥
yasya saṃsthe na vṛṇvate harī samatsu śatravaḥ .tasmai indrāya gāyata ..2..

सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।सोमासो दध्याशिरः ॥३॥
सुत-पाव्ने सुताः इमे शुचयः यन्ति वीतये ।सोमासः दधि-आशिरः ॥३॥
suta-pāvne sutāḥ ime śucayaḥ yanti vītaye .somāsaḥ dadhi-āśiraḥ ..3..

त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।इन्द्र ज्यैष्ठ्याय सुक्रतो ॥४॥
त्वम् सुतस्य पीतये सद्यस् वृद्धः अजायथाः ।इन्द्र ज्यैष्ठ्याय सुक्रतो ॥४॥
tvam sutasya pītaye sadyas vṛddhaḥ ajāyathāḥ .indra jyaiṣṭhyāya sukrato ..4..

आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।शं ते सन्तु प्रचेतसे ॥५॥
आ त्वा विशन्तु आशवः सोमासः इन्द्र गिर्वणः ।शम् ते सन्तु प्रचेतसे ॥५॥
ā tvā viśantu āśavaḥ somāsaḥ indra girvaṇaḥ .śam te santu pracetase ..5..

त्वां स्तोमा अवीवृधन् त्वामुक्था शतक्रतो ।त्वां वर्धन्तु नो गिरः ॥६॥
त्वाम् स्तोमाः अवीवृधन् त्वाम् उक्था शतक्रतो ।त्वाम् वर्धन्तु नः गिरः ॥६॥
tvām stomāḥ avīvṛdhan tvām ukthā śatakrato .tvām vardhantu naḥ giraḥ ..6..

अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ।यस्मिन् विश्वानि पौंस्या ॥७॥
अक्षित-ऊतिः सनेत् इमम् वाजम् इन्द्रः सहस्रिणम् ।यस्मिन् विश्वानि पौंस्या ॥७॥
akṣita-ūtiḥ sanet imam vājam indraḥ sahasriṇam .yasmin viśvāni pauṃsyā ..7..

मा नो मर्ता अभि द्रुहन् तनूनामिन्द्र गिर्वणः ।ईशानो यवया वधम् ॥८॥
मा नः मर्ताः अभि द्रुहन् तनूनाम् इन्द्र गिर्वणः ।ईशानः यवय वधम् ॥८॥
mā naḥ martāḥ abhi druhan tanūnām indra girvaṇaḥ .īśānaḥ yavaya vadham ..8..

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।रोचन्ते रोचना दिवि ॥९॥
युञ्जन्ति ब्रध्नम् अरुषम् चरन्तम् परि तस्थुषः ।रोचन्ते रोचना दिवि ॥९॥
yuñjanti bradhnam aruṣam carantam pari tasthuṣaḥ .rocante rocanā divi ..9..

युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृवाहसा ॥१०॥
युञ्जन्ति अस्य काम्या हरी विपक्षसा रथे ।शोणा धृष्णू नृ-वाहसा ॥१०॥
yuñjanti asya kāmyā harī vipakṣasā rathe .śoṇā dhṛṣṇū nṛ-vāhasā ..10..

केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे ।समुषद्भिरजायथाः ॥११॥
केतुम् कृण्वन् अ केतवे पेशः मर्याः अ पेशसे ।समुषद्भिः अजायथाः ॥११॥
ketum kṛṇvan a ketave peśaḥ maryāḥ a peśase .samuṣadbhiḥ ajāyathāḥ ..11..

आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।दधाना नाम यज्ञियम् ॥१२॥
आदह स्वधाम् अनु पुनर् गर्भ-त्वम् एरिरे ।दधानाः नाम यज्ञियम् ॥१२॥
ādaha svadhām anu punar garbha-tvam erire .dadhānāḥ nāma yajñiyam ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In