| |
|

This overlay will guide you through the buttons:

वीलु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।अविन्द उस्रिया अनु ॥१॥
वीलु चित् आरु-जत्नुभिः गुहा चित् इन्द्र वह्निभिः ।अविन्दः उस्रियाः अनु ॥१॥
vīlu cit āru-jatnubhiḥ guhā cit indra vahnibhiḥ .avindaḥ usriyāḥ anu ..1..

देवयन्तो यथा मतिमछा विदद्वसुं गिरः ।महामनूषत श्रुतम् ॥२॥
देवयन्तः यथा मतिम् अछा विदद्वसुम् गिरः ।महा अमनूषत श्रुतम् ॥२॥
devayantaḥ yathā matim achā vidadvasum giraḥ .mahā amanūṣata śrutam ..2..

इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।मन्दू समानवर्चसा ॥३॥
इन्द्रेण सम् हि दृक्षसे संजग्मानः अ बिभ्युषा ।मन्दू समान-वर्चसा ॥३॥
indreṇa sam hi dṛkṣase saṃjagmānaḥ a bibhyuṣā .mandū samāna-varcasā ..3..

अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।गणैरिन्द्रस्य काम्यैः ॥४॥
अनवद्यैः अभिद्युभिः मखः सहस्वत् अर्चति ।गणैः इन्द्रस्य काम्यैः ॥४॥
anavadyaiḥ abhidyubhiḥ makhaḥ sahasvat arcati .gaṇaiḥ indrasya kāmyaiḥ ..4..

अतः परिज्मन्न् आ गहि दिवो वा रोचनादधि ।समस्मिन्न् ऋञ्जते गिरः ॥५॥
अतस् परिज्मन् आ गहि दिवः वा रोचना दधि ।समस्मिन् ऋञ्जते गिरः ॥५॥
atas parijman ā gahi divaḥ vā rocanā dadhi .samasmin ṛñjate giraḥ ..5..

इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।इन्द्रं महो वा रजसः ॥६॥
इतस् वा सातिमीमहे दिवः वा पार्थिवात् अधि ।इन्द्रम् महः वा रजसः ॥६॥
itas vā sātimīmahe divaḥ vā pārthivāt adhi .indram mahaḥ vā rajasaḥ ..6..

इन्द्रमिद्गथिनो बृहदिन्द्रमर्केभिरर्किणः ।इन्द्रं वाणीरनूषत ॥७॥
इन्द्रम् इद् गथिनः बृहत् इन्द्रम् अर्केभिः अर्किणः ।इन्द्रम् वाणीः अनूषत ॥७॥
indram id gathinaḥ bṛhat indram arkebhiḥ arkiṇaḥ .indram vāṇīḥ anūṣata ..7..

इन्द्र इद्धर्योः सचा संमिश्ल आ वचोयुजा ।इन्द्रो वज्री हिरण्ययः ॥८॥
इन्द्रः इद् हर्योः सचा संमिश्लः आ वचः-युजा ।इन्द्रः वज्री हिरण्ययः ॥८॥
indraḥ id haryoḥ sacā saṃmiślaḥ ā vacaḥ-yujā .indraḥ vajrī hiraṇyayaḥ ..8..

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।वि गोभिरिन्द्रमैरयत्॥९॥
इन्द्रः दीर्घाय चक्षसे आ सूर्यम् रोहयत् दिवि ।वि गोभिः इन्द्रम् ऐरयत्॥९॥
indraḥ dīrghāya cakṣase ā sūryam rohayat divi .vi gobhiḥ indram airayat..9..

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।उग्र उग्राभिरूतिभिः ॥१०॥
इन्द्र वाजेषु नः अव सहस्र-प्रधनेषु च ।उग्रः उग्राभिः ऊतिभिः ॥१०॥
indra vājeṣu naḥ ava sahasra-pradhaneṣu ca .ugraḥ ugrābhiḥ ūtibhiḥ ..10..

इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।युजं वृत्रेषु वज्रिणम् ॥११॥
इन्द्रम् वयम् महाधने इन्द्रम् अर्भे हवामहे ।युजम् वृत्रेषु वज्रिणम् ॥११॥
indram vayam mahādhane indram arbhe havāmahe .yujam vṛtreṣu vajriṇam ..11..

स नो वृषन्न् अमुं चरुं सत्रादावन्न् अपा वृधि ।अस्मभ्यमप्रतिष्कुतः ॥१२॥
स नः वृषन् अमुम् चरुम् सत्रादावन् अप आ वृधि ।अस्मभ्यम् अप्रतिष्कुतः ॥१२॥
sa naḥ vṛṣan amum carum satrādāvan apa ā vṛdhi .asmabhyam apratiṣkutaḥ ..12..

तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।न विन्धे अस्य सुष्टुतिम् ॥१३॥
तुञ्जेतुञ्जे ये उत्तरे स्तोमाः इन्द्रस्य वज्रिणः ।न विन्धे अस्य सुष्टुतिम् ॥१३॥
tuñjetuñje ye uttare stomāḥ indrasya vajriṇaḥ .na vindhe asya suṣṭutim ..13..

वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।ईशानो अप्रतिष्कुतः ॥१४॥
वृषा यूथा इव वंसगः कृष्टीः इयर्ति ओजसा ।ईशानः अप्रतिष्कुतः ॥१४॥
vṛṣā yūthā iva vaṃsagaḥ kṛṣṭīḥ iyarti ojasā .īśānaḥ apratiṣkutaḥ ..14..

य एकश्चर्षणीनां वसूनामिरज्यति ।इन्द्रः पञ्च क्षितीनाम् ॥१५॥
यः एकः चर्षणीनाम् वसूनाम् इरज्यति ।इन्द्रः पञ्च क्षितीनाम् ॥१५॥
yaḥ ekaḥ carṣaṇīnām vasūnām irajyati .indraḥ pañca kṣitīnām ..15..

इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।अस्माकमस्तु केवलः ॥१६॥
इन्द्रम् वः विश्वतस्परि हवामहे जनेभ्यः ।अस्माकम् अस्तु केवलः ॥१६॥
indram vaḥ viśvataspari havāmahe janebhyaḥ .asmākam astu kevalaḥ ..16..

एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।वर्षिष्ठमूतये भर ॥१७॥
आ इन्द्र सानसिम् रयिम् स जित्वानम् सदासहम् ।वर्षिष्ठम् ऊतये भर ॥१७॥
ā indra sānasim rayim sa jitvānam sadāsaham .varṣiṣṭham ūtaye bhara ..17..

नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।त्वोतासो न्यर्वता ॥१८॥
नि येन मुष्टि-हत्यया नि वृत्रा रुणधामहै ।त्वोतासः न्यर्वता ॥१८॥
ni yena muṣṭi-hatyayā ni vṛtrā ruṇadhāmahai .tvotāsaḥ nyarvatā ..18..

इन्द्र त्वोतासो आ वयं वज्रं घना ददीमहि ।जयेम सं युधि स्पृधः ॥१९॥
इन्द्र त्वोतासः आ वयम् वज्रम् घना ददीमहि ।जयेम सम् युधि स्पृधः ॥१९॥
indra tvotāsaḥ ā vayam vajram ghanā dadīmahi .jayema sam yudhi spṛdhaḥ ..19..

वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।सासह्याम पृतन्यतः ॥२०॥
वयम् शूरेभिः अस्तृभिः इन्द्र त्वया युजा वयम् ।सासह्याम पृतन्यतः ॥२०॥
vayam śūrebhiḥ astṛbhiḥ indra tvayā yujā vayam .sāsahyāma pṛtanyataḥ ..20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In