| |
|

This overlay will guide you through the buttons:

महामिन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।द्यौर्न प्रथिना शवः ॥१॥
महाम् इन्द्रः परस् च नु महि-त्वम् अस्तु वज्रिणे ।द्यौः न प्रथिना शवः ॥१॥
mahām indraḥ paras ca nu mahi-tvam astu vajriṇe .dyauḥ na prathinā śavaḥ ..1..

समोहे वा य आशत नरस्तोकस्य सनितौ ।विप्रासो वा धियायवः ॥२॥
समोहे वा ये आशत नरः स्तोकस्य सनितौ ।विप्रासः वा धियायवः ॥२॥
samohe vā ye āśata naraḥ stokasya sanitau .viprāsaḥ vā dhiyāyavaḥ ..2..

यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।उर्वीरापो न काकुदः ॥३॥
यः कुक्षिः सोम-पातमः समुद्रः इव पिन्वते ।उर्वीरापः न काकुदः ॥३॥
yaḥ kukṣiḥ soma-pātamaḥ samudraḥ iva pinvate .urvīrāpaḥ na kākudaḥ ..3..

एवा ह्यस्य सूनृता विरप्शी गोमती मही ।पक्वा शाखा न दाशुषे ॥४॥
एव हि अस्य सूनृता विरप्शी गोमती मही ।पक्वा शाखा न दाशुषे ॥४॥
eva hi asya sūnṛtā virapśī gomatī mahī .pakvā śākhā na dāśuṣe ..4..

एवा हि ते विभूतय ऊतय इन्द्र मावते ।सद्यश्चित्सन्ति दाशुषे ॥५॥
एव हि ते विभूतयः ऊतयः इन्द्र मावते ।सद्यस् चित् सन्ति दाशुषे ॥५॥
eva hi te vibhūtayaḥ ūtayaḥ indra māvate .sadyas cit santi dāśuṣe ..5..

एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।इन्द्राय सोमपीतये ॥६॥
एव हि अस्य काम्या स्तोमः उक्थम् च शंस्या ।इन्द्राय सोम-पीतये ॥६॥
eva hi asya kāmyā stomaḥ uktham ca śaṃsyā .indrāya soma-pītaye ..6..

इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।महामभिष्टिरोजसा ॥७॥
इन्द्र इहि मत्सि अन्धसः विश्वेभिः सोम-पर्वभिः ।महाम् अभिष्टिः ओजसा ॥७॥
indra ihi matsi andhasaḥ viśvebhiḥ soma-parvabhiḥ .mahām abhiṣṭiḥ ojasā ..7..

एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।चक्रिं विश्वानि चक्रये ॥८॥
आ इमा एनम् सृजत सुते मन्दिम् इन्द्राय मन्दिने ।चक्रिम् विश्वानि चक्रये ॥८॥
ā imā enam sṛjata sute mandim indrāya mandine .cakrim viśvāni cakraye ..8..

मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।सचैषु सवनेष्वा ॥९॥
मत्स्व सु शिप्र मन्दिभिः स्तोमेभिः विश्वचर्षणे ।सचा एषु सवनेषु वा ॥९॥
matsva su śipra mandibhiḥ stomebhiḥ viśvacarṣaṇe .sacā eṣu savaneṣu vā ..9..

असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।अजोषा वृषभं पतिम् ॥१०॥
असृग्रम् इन्द्र ते गिरः प्रति त्वाम् उदहासत ।अजोषाः वृषभम् पतिम् ॥१०॥
asṛgram indra te giraḥ prati tvām udahāsata .ajoṣāḥ vṛṣabham patim ..10..

सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।असदित्ते विभु प्रभु ॥११॥
सम् चोदय चित्रम् अर्व-अग्राधः इन्द्र वरेण्यम् ।विभु प्रभु ॥११॥
sam codaya citram arva-agrādhaḥ indra vareṇyam .vibhu prabhu ..11..

अस्मान्त्सु तत्र चोदयेन्द्र राये रभस्वतः ।तुविद्युम्न यशस्वतः ॥१२॥
अस्मान् सु तत्र चोदय इन्द्र राये रभस्वतः ।तुवि-द्युम्न यशस्वतः ॥१२॥
asmān su tatra codaya indra rāye rabhasvataḥ .tuvi-dyumna yaśasvataḥ ..12..

सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत्।विश्वायुर्धेह्यक्षितम् ॥१३॥
सम् गोमत् इन्द्र वाजवत् अस्मे पृथु श्रवः बृहत्।विश्व-आयुः धेहि अक्षितम् ॥१३॥
sam gomat indra vājavat asme pṛthu śravaḥ bṛhat.viśva-āyuḥ dhehi akṣitam ..13..

अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।इन्द्र ता रथिनीरिषः ॥१४॥
अस्मे धेहि श्रवः बृहत्-द्युम्नम् सहस्र-सातमम् ।इन्द्र ताः रथिनीः इषः ॥१४॥
asme dhehi śravaḥ bṛhat-dyumnam sahasra-sātamam .indra tāḥ rathinīḥ iṣaḥ ..14..

वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।होम गन्तारमूतये ॥१५॥
वसोः इन्द्रम् वसु-पतिम् गीर्भिः गृणन्तः ऋग्मियम् ।होम गन्तारम् ऊतये ॥१५॥
vasoḥ indram vasu-patim gīrbhiḥ gṛṇantaḥ ṛgmiyam .homa gantāram ūtaye ..15..

सुतेसुते न्योकसे बृहद्बृहत एदरिः ।इन्द्राय शूषमर्चति ॥१६॥
सुतेसुते न्योकसे बृहत्-बृहते एदरिः ।इन्द्राय शूषम् अर्चति ॥१६॥
sutesute nyokase bṛhat-bṛhate edariḥ .indrāya śūṣam arcati ..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In