| |
|

This overlay will guide you through the buttons:

विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक्।तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।इन्द्रं न यज्ञैश्चतयन्त आयव स्तोमेभिरिन्द्रमायवः ॥१॥
विश्वेषु हि त्वा सवनेषु तुञ्जते समानम् एकम् वृषमण्यवः पृथक्स्वर् सनिष्यवः पृथक्।तम् त्वा नावम् न पर्षणिम् शूषस्य धुरि धीमहि ।इन्द्रम् न यज्ञैः चतयन्तः आयवः स्तोमेभिः इन्द्रम् आयवः ॥१॥
viśveṣu hi tvā savaneṣu tuñjate samānam ekam vṛṣamaṇyavaḥ pṛthaksvar saniṣyavaḥ pṛthak.tam tvā nāvam na parṣaṇim śūṣasya dhuri dhīmahi .indram na yajñaiḥ catayantaḥ āyavaḥ stomebhiḥ indram āyavaḥ ..1..

वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि ।आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥२॥
वि त्वा ततस्रे मिथुनाः अवस्यवः व्रजस्य साता गव्यस्य निःसृजः सक्षन्तः इन्द्र निःसृजः ।यत् गव्यन्ता द्वा जना स्वर्-यन्ता समूहसि ।आविष्करिक्रत् वृषणम् सचाभुवम् वज्रम् इन्द्र सचाभुवम् ॥२॥
vi tvā tatasre mithunāḥ avasyavaḥ vrajasya sātā gavyasya niḥsṛjaḥ sakṣantaḥ indra niḥsṛjaḥ .yat gavyantā dvā janā svar-yantā samūhasi .āviṣkarikrat vṛṣaṇam sacābhuvam vajram indra sacābhuvam ..2..

उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।यदिन्द्र हन्तवे मृघो वृषा वज्रिं चिकेतसि ।आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥३॥
उत उ नः अस्याः उषसः जुषेत हि अर्कस्य बोधि हविषः हवीमभिः स्वर्षाता हवीमभिः ।यत् इन्द्र हन्तवे मृघः वृषा वज्रिम् चिकेतसि ।आ मे अस्य वेधसः नवीयसः मन्म श्रुधि नवीयसः ॥३॥
uta u naḥ asyāḥ uṣasaḥ juṣeta hi arkasya bodhi haviṣaḥ havīmabhiḥ svarṣātā havīmabhiḥ .yat indra hantave mṛghaḥ vṛṣā vajrim ciketasi .ā me asya vedhasaḥ navīyasaḥ manma śrudhi navīyasaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In