| |
|

This overlay will guide you through the buttons:

यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥१॥
यत् चित् हि सत्य सोम-पाः अन् आशस्ताः इव स्मसि ।आ तू नः इन्द्र शंसय गोषु अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥१॥
yat cit hi satya soma-pāḥ an āśastāḥ iva smasi .ā tū naḥ indra śaṃsaya goṣu aśveṣu śubhriṣu sahasreṣu tuvīmagha ..1..

शिप्रिन् वाजानां पते शचीवस्तव दंसना ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥२॥
शिप्रिन् वाजानाम् पते शचीवस् तव दंसना ।आ तू नः इन्द्र शंसय गोषु अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥२॥
śiprin vājānām pate śacīvas tava daṃsanā .ā tū naḥ indra śaṃsaya goṣu aśveṣu śubhriṣu sahasreṣu tuvīmagha ..2..

नि ष्वापया मिथूदृशा सस्तामबुध्यमाने ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥३॥
नि स्वापय मिथूदृशा सस्ताम् अ बुध्यमाने ।आ तू नः इन्द्र शंसय गोषु अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥३॥
ni svāpaya mithūdṛśā sastām a budhyamāne .ā tū naḥ indra śaṃsaya goṣu aśveṣu śubhriṣu sahasreṣu tuvīmagha ..3..

ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥४॥
ससन्तु त्याः अरातयः बोधन्तु शूर रातयः ।आ तू नः इन्द्र शंसय गोषु अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥४॥
sasantu tyāḥ arātayaḥ bodhantu śūra rātayaḥ .ā tū naḥ indra śaṃsaya goṣu aśveṣu śubhriṣu sahasreṣu tuvīmagha ..4..

समिन्द्र गर्दभं मृण नुवन्तं पपयामुया ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥५॥
सम् इन्द्र गर्दभम् मृण नुवन्तम् पपय अमुया ।आ तू नः इन्द्र शंसय गोषु अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥५॥
sam indra gardabham mṛṇa nuvantam papaya amuyā .ā tū naḥ indra śaṃsaya goṣu aśveṣu śubhriṣu sahasreṣu tuvīmagha ..5..

पताति कुण्डृणाच्या दूरं वातो वनादधि ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥६॥
पताति कुण्डृणाच्या दूरम् वातः वनात् अधि ।आ तू नः इन्द्र शंसय गोषु अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥६॥
patāti kuṇḍṛṇācyā dūram vātaḥ vanāt adhi .ā tū naḥ indra śaṃsaya goṣu aśveṣu śubhriṣu sahasreṣu tuvīmagha ..6..

सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् ।आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥७॥
सर्वम् परिक्रोशम् जहि जम्भय कृकदाश्वम् ।आ तू नः इन्द्र शंसय गोषु अश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥७॥
sarvam parikrośam jahi jambhaya kṛkadāśvam .ā tū naḥ indra śaṃsaya goṣu aśveṣu śubhriṣu sahasreṣu tuvīmagha ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In