| |
|

This overlay will guide you through the buttons:

वने न वा यो न्यधायि चाक्रं छुचिर्वां स्तोमो भुरणावजीगः ।यस्येदिन्द्रः पुरुदिनेषु होता नृणां नर्वो नृतमः क्षपावान् ॥१॥
वने न वा यः न्यधायि चाक्रम् शुचिः वाम् स्तोमः भुरणा अजीगः ।यस्य इद् इन्द्रः पुरु-दिनेषु होता नृणाम् नर्वः नृतमः क्षपावान् ॥१॥
vane na vā yaḥ nyadhāyi cākram śuciḥ vām stomaḥ bhuraṇā ajīgaḥ .yasya id indraḥ puru-dineṣu hotā nṛṇām narvaḥ nṛtamaḥ kṣapāvān ..1..

प्र ते अस्या उषसः प्रापरस्या नृतौ स्याम नृतमस्य नृणाम् ।अनु त्रिशोकः शतमावहन् नॄन् कुत्सेन रथो यो असत्ससवान् ॥२॥
प्र ते अस्याः उषसः प्र अपरस्याः नृतौ स्याम नृतमस्य नृणाम् ।अनु त्रिशोकः शतम् आवहत् नॄन् कुत्सेन रथः यः असत् ससवान् ॥२॥
pra te asyāḥ uṣasaḥ pra aparasyāḥ nṛtau syāma nṛtamasya nṛṇām .anu triśokaḥ śatam āvahat nṝn kutsena rathaḥ yaḥ asat sasavān ..2..

कस्ते मद इन्द्र रन्त्यो भूद्दुरो गिरो अभ्युग्रो वि धाव ।कद्वाहो अर्वागुप मा मनीषा आ त्वा शक्यामुपमं राधो अन्नैः ॥३॥
कः ते मदः इन्द्र रन्त्यः भूत् दुरः गिरः अभि उग्रः वि धाव ।कद् वाहो अर्वाक् उप मा मनीषा आ त्वा शक्याम् उपमम् राधः अन्नैः ॥३॥
kaḥ te madaḥ indra rantyaḥ bhūt duraḥ giraḥ abhi ugraḥ vi dhāva .kad vāho arvāk upa mā manīṣā ā tvā śakyām upamam rādhaḥ annaiḥ ..3..

कदु द्युम्नमिन्द्र त्वावतो नॄन् कया धिया करसे कन् न आगन् ।मित्रो न सत्य उरुगाय भृत्या अन्ने समस्य यदसन् मनीषाः ॥४॥
कदु द्युम्नम् इन्द्र त्वावतः नॄन् कया धिया करसे कद् नः आगन् ।मित्रः न सत्यः उरु-गाय भृत्याः अन्ने समस्य यत् असत् मनीषाः ॥४॥
kadu dyumnam indra tvāvataḥ nṝn kayā dhiyā karase kad naḥ āgan .mitraḥ na satyaḥ uru-gāya bhṛtyāḥ anne samasya yat asat manīṣāḥ ..4..

प्रेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इव ग्मन् ।गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्र प्रतिशिक्षन्त्यन्नैः ॥५॥
प्रेरय सूरः अर्थम् न पारम् ये अस्य कामम् जनिधाः इव ग्मन् ।गिरः च ये ते तुवि-जात पूर्वीः नरः इन्द्र प्रतिशिक्षन्ति अन्नैः ॥५॥
preraya sūraḥ artham na pāram ye asya kāmam janidhāḥ iva gman .giraḥ ca ye te tuvi-jāta pūrvīḥ naraḥ indra pratiśikṣanti annaiḥ ..5..

मात्रे नु ते सुमिते इन्द्र पूर्वी द्यौर्मज्मना पृथिवी काव्येन ।वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि ॥६॥
मात्रे नु ते सु मिते इन्द्र पूर्वी द्यौः मज्मना पृथिवी काव्येन ।वराय ते घृतवन्तः सुतासः स्वाद्नन् भवन्तु पीतये मधूनि ॥६॥
mātre nu te su mite indra pūrvī dyauḥ majmanā pṛthivī kāvyena .varāya te ghṛtavantaḥ sutāsaḥ svādnan bhavantu pītaye madhūni ..6..

आ मध्वो अस्मा असिचन्न् अमत्रमिन्द्राय पूर्णं स हि सत्यराधाः ।स वावृधे वरिमन्न् आ पृथिव्या अभि क्रत्वा नर्यः पौंस्यैश्च ॥७॥
आ मध्वः अस्मै असिचन् अमत्रम् इन्द्राय पूर्णम् स हि सत्य-राधाः ।स वावृधे वरिमन् आ पृथिव्याः अभि क्रत्वा नर्यः पौंस्यैः च ॥७॥
ā madhvaḥ asmai asican amatram indrāya pūrṇam sa hi satya-rādhāḥ .sa vāvṛdhe variman ā pṛthivyāḥ abhi kratvā naryaḥ pauṃsyaiḥ ca ..7..

व्यानळ् इन्द्रः पृतनाः स्वोजा आस्मै यतन्ते सख्याय पूर्वीः ।आ स्मा रथं न पृतनासु तिष्ठ यं भद्रया सुमत्या चोदयासे ॥८॥
व्यानळ् इन्द्रः पृतनाः स्वोजाः आ अस्मै यतन्ते सख्याय पूर्वीः ।आ स्मा रथम् न पृतनासु तिष्ठ यम् भद्रया सुमत्या चोदयासे ॥८॥
vyānal̤ indraḥ pṛtanāḥ svojāḥ ā asmai yatante sakhyāya pūrvīḥ .ā smā ratham na pṛtanāsu tiṣṭha yam bhadrayā sumatyā codayāse ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In