| |
|

This overlay will guide you through the buttons:

आ सत्यो यातु मघवामृजीषी द्रवन्त्वस्य हरय उप नः ।तस्मा इदन्धः सुषुमा सुदक्षमिहाभिपित्वं करते गृणानः ॥१॥
आ सत्यः यातु मघवा अमृजीषी द्रवन्तु अस्य हरयः उप नः ।तस्मै इद् अन्धः सुषुम सु दक्षम् इह अभिपित्वम् करते गृणानः ॥१॥
ā satyaḥ yātu maghavā amṛjīṣī dravantu asya harayaḥ upa naḥ .tasmai id andhaḥ suṣuma su dakṣam iha abhipitvam karate gṛṇānaḥ ..1..

अव स्य शूराध्वनो नान्तेऽस्मिन् नो अद्य सवने मन्दध्यै ।शंसात्युक्थमुशनेव वेधाश्चिकितुषे असुर्याय मन्म ॥२॥
अव स्य शूर अध्वनः न अन्ते अस्मिन् नः अद्य सवने मन्दध्यै ।शंसाति उक्थम् उशना इव वेधाः चिकितुषे असुर्याय मन्म ॥२॥
ava sya śūra adhvanaḥ na ante asmin naḥ adya savane mandadhyai .śaṃsāti uktham uśanā iva vedhāḥ cikituṣe asuryāya manma ..2..

कविर्न निण्यं विदथानि साधन् वृषा यत्सेकं विपिपानो अर्चात्।दिव इत्था जीजनत्सप्त कारून् अह्ना चिच्चक्रुर्वयुना गृणन्तः ॥३॥
कविः न निण्यम् विदथानि साधन् वृषा यत् सेकम् विपिपानः अर्चात्।दिवः इत्था जीजनत् सप्त कारून् अह्ना चित् चक्रुः वयुना गृणन्तः ॥३॥
kaviḥ na niṇyam vidathāni sādhan vṛṣā yat sekam vipipānaḥ arcāt.divaḥ itthā jījanat sapta kārūn ahnā cit cakruḥ vayunā gṛṇantaḥ ..3..

स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः ।अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥४॥
स्वर् यत् वेदि सुदृशीकम् अर्कैः महि ज्योतिः रुरुचुः यत् ह वस्तोः ।अन्धा तमांसि दुधिता विचक्षे नृभ्यः चकार नृतमः अभिष्टौ ॥४॥
svar yat vedi sudṛśīkam arkaiḥ mahi jyotiḥ rurucuḥ yat ha vastoḥ .andhā tamāṃsi dudhitā vicakṣe nṛbhyaḥ cakāra nṛtamaḥ abhiṣṭau ..4..

ववक्ष इन्द्रो अमितमृजिष्युभे आ पप्रौ रोदसी महित्वा ।अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥५॥
ववक्ष इन्द्रः अमित-मृजिषी उभे आ पप्रौ रोदसी महित्वा ।अतस् चित् अस्य महिमा वि रेचि अभि यः विश्वा भुवना बभूव ॥५॥
vavakṣa indraḥ amita-mṛjiṣī ubhe ā paprau rodasī mahitvā .atas cit asya mahimā vi reci abhi yaḥ viśvā bhuvanā babhūva ..5..

विश्वानि शक्रो नर्याणि विद्वान् अपो रिरेच सखिभिर्निकामैः ।अश्मानं चिद्ये बिभिदुर्वचोभिर्व्रजं गोमन्तमुशिजो वि वव्रुः ॥६॥
विश्वानि शक्रः नर्याणि विद्वान् अपः रिरेच सखिभिः निकामैः ।अश्मानम् चित् ये बिभिदुः वचोभिः व्रजम् गोमन्तम् उशिजः वि वव्रुः ॥६॥
viśvāni śakraḥ naryāṇi vidvān apaḥ rireca sakhibhiḥ nikāmaiḥ .aśmānam cit ye bibhiduḥ vacobhiḥ vrajam gomantam uśijaḥ vi vavruḥ ..6..

अपो वृत्रं वव्रिवांसं पराहन् प्रावत्ते वज्रं पृथिवी सचेताः ।प्रार्णांसि समुद्रियाण्यैनोः पतिर्भवं छवसा शूर धृष्णो ॥७॥
अपः वृत्रम् वव्रिवांसम् पराहन् प्रावत्ते वज्रम् पृथिवी सचेताः ।प्र अर्णांसि समुद्रियाणि ऐनोः पतिः भवम् शवसा शूर धृष्णो ॥७॥
apaḥ vṛtram vavrivāṃsam parāhan prāvatte vajram pṛthivī sacetāḥ .pra arṇāṃsi samudriyāṇi ainoḥ patiḥ bhavam śavasā śūra dhṛṣṇo ..7..

अपो यदद्रिं पुरुहूत दर्दराविर्भुवत्सरमा पूर्व्यं ते ।स नो नेता वाजमा दर्षि भूरिं गोत्रा रुजन्न् अङ्गिरोभिर्गृणानः ॥८॥
अप उ यत् अद्रिम् पुरुहूत दर्दर आविर्भुवत् सरमा पूर्व्यम् ते ।स नः नेता वाज-मा दर्षि भूरिम् गोत्रा रुजन् अङ्गिरोभिः गृणानः ॥८॥
apa u yat adrim puruhūta dardara āvirbhuvat saramā pūrvyam te .sa naḥ netā vāja-mā darṣi bhūrim gotrā rujan aṅgirobhiḥ gṛṇānaḥ ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In