| |
|

This overlay will guide you through the buttons:

यस्तस्तम्भ सहसा वि ज्मो अन्तान् बृहस्पतिस्त्रिषधस्थो रवेण ।तं प्रत्नास ऋषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम् ॥१॥
यः तस्तम्भ सहसा वि ज्मः अन्तान् बृहस्पतिः त्रिषधस्थः रवेण ।तम् प्रत्नासः ऋषयः दीध्यानाः पुरस् विप्राः दधिरे मन्द्र-जिह्वम् ॥१॥
yaḥ tastambha sahasā vi jmaḥ antān bṛhaspatiḥ triṣadhasthaḥ raveṇa .tam pratnāsaḥ ṛṣayaḥ dīdhyānāḥ puras viprāḥ dadhire mandra-jihvam ..1..

धुनेतयः सुप्रकेतं मदन्तो बृहस्पते अभि ये नस्ततस्रे ।पृषन्तं सृप्रमदब्धमूर्वं बृहस्पते रक्षतादस्य योनिम् ॥२॥
धुनेतयः सु प्रकेतम् मदन्तः बृहस्पते अभि ये नः ततस्रे ।पृषन्तम् सृप्रम् अदब्धम् ऊर्वम् बृहस्पते रक्षतात् अदस्य योनिम् ॥२॥
dhunetayaḥ su praketam madantaḥ bṛhaspate abhi ye naḥ tatasre .pṛṣantam sṛpram adabdham ūrvam bṛhaspate rakṣatāt adasya yonim ..2..

बृहस्पते या परमा परावदत आ ते ऋतस्पृशो नि षेदुः ।तुभ्यं खाता अवता अद्रिदुग्धा मध्व श्चोतन्त्यभितो विरप्शम् ॥३॥
बृहस्पते या परमा परावदते आ ते ऋत-स्पृशः नि सेदुः ।तुभ्यम् खाताः अवताः अद्रि-दुग्धाः मध्वः श्चोतन्ति अभितस् विरप्शम् ॥३॥
bṛhaspate yā paramā parāvadate ā te ṛta-spṛśaḥ ni seduḥ .tubhyam khātāḥ avatāḥ adri-dugdhāḥ madhvaḥ ścotanti abhitas virapśam ..3..

बृहस्पतिः प्रथमं जायमानो महो ज्योतिषः परमे व्योमन् ।सप्तास्यस्तुविजातो रवेण वि सप्तरश्मिरधमत्तमांसि ॥४॥
बृहस्पतिः प्रथमम् जायमानः महः ज्योतिषः परमे व्योमन् ।सप्त-आस्यः तुवि-जातः रवेण वि सप्त-रश्मिः अधमत् तमांसि ॥४॥
bṛhaspatiḥ prathamam jāyamānaḥ mahaḥ jyotiṣaḥ parame vyoman .sapta-āsyaḥ tuvi-jātaḥ raveṇa vi sapta-raśmiḥ adhamat tamāṃsi ..4..

स सुष्टुभा स ऋक्वता गणेन वलं रुरोज फलिगं रवेण ।बृहस्पतिरुस्रिया हव्यसूदः कनिक्रदद्वावशतीरुदाजत्॥५॥
स सुष्टुभा सः ऋक्वता गणेन वलम् रुरोज फलिगम् रवेण ।बृहस्पतिः उस्रियाः हव्यसूदः॥५॥
sa suṣṭubhā saḥ ṛkvatā gaṇena valam ruroja phaligam raveṇa .bṛhaspatiḥ usriyāḥ havyasūdaḥ..5..

एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर्विधेम नमसा हविर्भिः ।बृहस्पते सुप्रजा वीरवन्तो वयं स्याम पतयो रयीणाम् ॥६॥
एव पित्रे विश्व-देवाय वृष्णे यज्ञैः विधेम नमसा हविर्भिः ।बृहस्पते सु प्रजाः वीरवन्तः वयम् स्याम पतयः रयीणाम् ॥६॥
eva pitre viśva-devāya vṛṣṇe yajñaiḥ vidhema namasā havirbhiḥ .bṛhaspate su prajāḥ vīravantaḥ vayam syāma patayaḥ rayīṇām ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In