| |
|

This overlay will guide you through the buttons:

अस्तेव सु प्रतरं लायमस्यन् भूषन्न् इव प्र भरा स्तोममस्मै ।वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥१॥
अस्ता इव सु प्रतरम् लायम् अस्यन् भूषन् इव प्र भर स्तोमम् अस्मै ।वाचा विप्राः तरत वाचम् अर्यः नि रामय जरितर् सोमे इन्द्रम् ॥१॥
astā iva su prataram lāyam asyan bhūṣan iva pra bhara stomam asmai .vācā viprāḥ tarata vācam aryaḥ ni rāmaya jaritar some indram ..1..

दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् ।कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥२॥
दोहेन गाम् उप शिक्ष सखायम् प्र बोधय जरितर् जारम् इन्द्रम् ।कोशम् न पूर्णम् वसुना न्यृष्टम् आ च्यावय मघ-देयाय शूरम् ॥२॥
dohena gām upa śikṣa sakhāyam pra bodhaya jaritar jāram indram .kośam na pūrṇam vasunā nyṛṣṭam ā cyāvaya magha-deyāya śūram ..2..

किमङ्ग त्वा मघवन् भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि ।अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥३॥
किम् अङ्ग त्वा मघवन् भोजम् आहुः शिशीहि मा शिशयम् त्वा शृणोमि ।अप्नस्वती मम धीरः अस्तु शक्र वसु-विदम् भगम् इन्द्र आ भर नः ॥३॥
kim aṅga tvā maghavan bhojam āhuḥ śiśīhi mā śiśayam tvā śṛṇomi .apnasvatī mama dhīraḥ astu śakra vasu-vidam bhagam indra ā bhara naḥ ..3..

त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके ।अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥४॥
त्वाम् जनाः ममसत्येषु इन्द्र संतस्थानाः वि ह्वयन्ते समीके ।अत्रा युजम् कृणुते यः हविष्मान् न अ सुन्वता सख्यम् वष्टि शूरः ॥४॥
tvām janāḥ mamasatyeṣu indra saṃtasthānāḥ vi hvayante samīke .atrā yujam kṛṇute yaḥ haviṣmān na a sunvatā sakhyam vaṣṭi śūraḥ ..4..

धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमामासुनोति प्रयस्वान् ।तस्मै शत्रून्त्सुतुकान् प्रातरह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥५॥
धनम् न स्पन्द्रम् बहुलम् यः अस्मै तीव्रान् सोमाम् आसुनोति प्रयस्वान् ।तस्मै शत्रून् सुतुकान् प्रातरह्नः नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥५॥
dhanam na spandram bahulam yaḥ asmai tīvrān somām āsunoti prayasvān .tasmai śatrūn sutukān prātarahnaḥ ni svaṣṭrān yuvati hanti vṛtram ..5..

यस्मिन् वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे ।आराच्चित्सन् भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥६॥
यस्मिन् वयम् शंसम् इन्द्रे यः शिश्राय मघवा कामम् अस्मे ।आरात् चित् सन् भयताम् अस्य शत्रुः नि अस्मै द्युम्ना जन्याः नमन्ताम् ॥६॥
yasmin vayam śaṃsam indre yaḥ śiśrāya maghavā kāmam asme .ārāt cit san bhayatām asya śatruḥ ni asmai dyumnā janyāḥ namantām ..6..

आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन ।अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥७॥
आरात् शत्रुम् अप बाधस्व दूरम् उग्रः यः शम्बः पुरुहूत तेन ।अस्मे धेहि यवमत् गोमत् इन्द्र कृधि धियम् जरित्रे वाज-रत्नाम् ॥७॥
ārāt śatrum apa bādhasva dūram ugraḥ yaḥ śambaḥ puruhūta tena .asme dhehi yavamat gomat indra kṛdhi dhiyam jaritre vāja-ratnām ..7..

प्र यमन्तर्वृषसवासो अज्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् ।नाह दामानं मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥८॥
प्र यम् अन्तर्वृष-सवासः अज्मन् तीव्राः सोमाः बहुल-अन्तासः इन्द्रम् ।न अह दामानम् मघवा नि यंसत् नि सुन्वते वहति भूरि वामम् ॥८॥
pra yam antarvṛṣa-savāsaḥ ajman tīvrāḥ somāḥ bahula-antāsaḥ indram .na aha dāmānam maghavā ni yaṃsat ni sunvate vahati bhūri vāmam ..8..

उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले ।यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥९॥
उत प्रहामतिदीवा जयति कृतम् इव श्वघ्नी वि चिनोति काले ।यः देव-कामः न धनम् रुणद्धि समिध्-तम् रायः सृजति स्वधाभिः ॥९॥
uta prahāmatidīvā jayati kṛtam iva śvaghnī vi cinoti kāle .yaḥ deva-kāmaḥ na dhanam ruṇaddhi samidh-tam rāyaḥ sṛjati svadhābhiḥ ..9..

गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥१०॥
गोभिः तरेम अमतिम् दुरेवाम् यवेन वा क्षुधम् पुरुहूत विश्वे ।वयम् राजसु प्रथमा धनानि अरिष्टासः वृजनीभिः जयेम ॥१०॥
gobhiḥ tarema amatim durevām yavena vā kṣudham puruhūta viśve .vayam rājasu prathamā dhanāni ariṣṭāsaḥ vṛjanībhiḥ jayema ..10..

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥११॥
बृहस्पतिः नः परि पातु पश्चात् उत उत्तरस्मात् अधरात् अघयोः ।इन्द्रः पुरस्तात् उत मध्यतस् नः सखा सखिभ्यः वरीयः कृणोतु ॥११॥
bṛhaspatiḥ naḥ pari pātu paścāt uta uttarasmāt adharāt aghayoḥ .indraḥ purastāt uta madhyatas naḥ sakhā sakhibhyaḥ varīyaḥ kṛṇotu ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In