| |
|

This overlay will guide you through the buttons:

यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् ।द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥१॥
यः अद्रि-भिद् प्रथम-जाः ऋतावा बृहस्पतिः आङ्गिरसः हविष्मान् ।द्विबर्हज्मा प्राघर्मसद्-पिता नः आ रोदसी वृषभः रोरवीति ॥१॥
yaḥ adri-bhid prathama-jāḥ ṛtāvā bṛhaspatiḥ āṅgirasaḥ haviṣmān .dvibarhajmā prāgharmasad-pitā naḥ ā rodasī vṛṣabhaḥ roravīti ..1..

जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार ।घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान् पृत्सु साहन् ॥२॥
जनाय चित् यः ईवते उ लोकम् बृहस्पतिः देव-हूतौ चकार ।घ्नन् वृत्राणि वि पुरः दर्दरीति जयम् शत्रून् अमित्रान् पृत्सु साहन् ॥२॥
janāya cit yaḥ īvate u lokam bṛhaspatiḥ deva-hūtau cakāra .ghnan vṛtrāṇi vi puraḥ dardarīti jayam śatrūn amitrān pṛtsu sāhan ..2..

बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमते देव एषः ।अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥३॥
बृहस्पतिः समजयत् वसूनि महः व्रजान् गोमते देवः एषः ।अपः सिषासन् स्वर-प्रतीतः बृहस्पतिः हन्ति अमित्रम् अर्कैः ॥३॥
bṛhaspatiḥ samajayat vasūni mahaḥ vrajān gomate devaḥ eṣaḥ .apaḥ siṣāsan svara-pratītaḥ bṛhaspatiḥ hanti amitram arkaiḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In