| |
|

This overlay will guide you through the buttons:

इमां धियं सप्तशीर्ष्णीं पिता न ऋतप्रजातां बृहतीमविन्दत्।तुरीयं स्विज्जनयद्विश्वजन्योऽयास्य उक्थमिन्द्राय शंसन् ॥१॥
इमाम् धियम् सप्त-शीर्ष्णीम् पिता नः ऋत-प्रजाताम् बृहतीम् अविन्दत्।तुरीयम् स्विद् जनयत् विश्वजन्यः अयास्यः उक्थम् इन्द्राय शंसन् ॥१॥
imām dhiyam sapta-śīrṣṇīm pitā naḥ ṛta-prajātām bṛhatīm avindat.turīyam svid janayat viśvajanyaḥ ayāsyaḥ uktham indrāya śaṃsan ..1..

ऋतं शंसन्त ऋजु दीध्याना दिवस्पुत्रासो असुरस्य वीराः ।विप्रं पदमङ्गिरसो दधाना यज्ञस्य धाम प्रथमं मनन्त ॥२॥
ऋतम् शंसन्तः ऋजु दीध्यानाः दिवस्पुत्रासः असुरस्य वीराः ।विप्रम् पदम् अङ्गिरसः दधानाः यज्ञस्य धाम प्रथमम् मनन्त ॥२॥
ṛtam śaṃsantaḥ ṛju dīdhyānāḥ divasputrāsaḥ asurasya vīrāḥ .vipram padam aṅgirasaḥ dadhānāḥ yajñasya dhāma prathamam mananta ..2..

हंसैरिव सखिभिर्वावदद्भिरश्मन्मयानि नहना व्यस्यन् ।बृहस्पतिरभिकनिक्रदद्गा उत प्रास्तौदुच्च विद्वामगायत्॥३॥
हंसैः इव सखिभिः वावदद्भिः अश्मन्मयानि नहना व्यस्यन् ।बृहस्पतिः अभिकनिक्रदत् गाः उत प्रास्तौत् उच्च विद्वाम् अगायत्॥३॥
haṃsaiḥ iva sakhibhiḥ vāvadadbhiḥ aśmanmayāni nahanā vyasyan .bṛhaspatiḥ abhikanikradat gāḥ uta prāstaut ucca vidvām agāyat..3..

अवो द्वाभ्यां पर एकया गा गुहा तिष्ठन्तीरनृतस्य सेतौ ।बृहस्पतिस्तमसि ज्योतिरिच्छन् उदुस्रा आकर्वि हि तिस्र आवः ॥४॥
अवस् द्वाभ्याम् परस् एकया गाः गुहा तिष्ठन्तीः अनृतस्य सेतौ ।बृहस्पतिः तमसि ज्योतिः इच्छन् उदुस्राः आकर्वि हि तिस्रः आवः ॥४॥
avas dvābhyām paras ekayā gāḥ guhā tiṣṭhantīḥ anṛtasya setau .bṛhaspatiḥ tamasi jyotiḥ icchan udusrāḥ ākarvi hi tisraḥ āvaḥ ..4..

विभिद्या पुरं शयथेमपाचीं निस्त्रीणि साकमुदधेरकृन्तत्।बृहस्पतिरुषसं सूर्यं गामर्कं विवेद स्तनयन्न् इव द्यौः ॥५॥
विभिद्य पुरम् शयथ हेम-पाचीम् निस्त्रीणि साकम् उदधेः अकृन्तत्।बृहस्पतिः उषसम् सूर्यम् गाम् अर्कम् विवेद स्तनयन् इव द्यौः ॥५॥
vibhidya puram śayatha hema-pācīm nistrīṇi sākam udadheḥ akṛntat.bṛhaspatiḥ uṣasam sūryam gām arkam viveda stanayan iva dyauḥ ..5..

इन्द्रो वलं रक्षितारं दुघानां करेणेव वि चकर्ता रवेण ।स्वेदाञ्जिभिराशिरमिच्छमानोऽरोदयत्पणिमा गा अमुष्णात्॥६॥
इन्द्रः वलम् रक्षितारम् दुघानाम् करेण इव वि चकर्त रवेण ।स्वेद-अञ्जिभिः आशिरम् इच्छमानः अरोदयत् पणिमा गाः अमुष्णात्॥६॥
indraḥ valam rakṣitāram dughānām kareṇa iva vi cakarta raveṇa .sveda-añjibhiḥ āśiram icchamānaḥ arodayat paṇimā gāḥ amuṣṇāt..6..

स ईं सत्येभिः सखिभिः शुचद्भिर्गोधायसं वि धनसैरदर्दः ।ब्रह्मणस्पतिर्वृषभिर्वराहैर्घर्मस्वेदेभिर्द्रविणं व्यानट्॥७॥
सः ईम् सत्येभिः सखिभिः शुचद्भिः गोधायसम् वि धनसैः अदर्दर् ।ब्रह्मणस्पतिः वृषभिः वराहैः घर्म-स्वेदेभिः द्रविणम् व्यानट्॥७॥
saḥ īm satyebhiḥ sakhibhiḥ śucadbhiḥ godhāyasam vi dhanasaiḥ adardar .brahmaṇaspatiḥ vṛṣabhiḥ varāhaiḥ gharma-svedebhiḥ draviṇam vyānaṭ..7..

ते सत्येन मनसा गोपतिं गा इयानास इषणयन्त धीभिः ।बृहस्पतिर्मिथोअवद्यपेभिरुदुस्रिया असृजत स्वयुग्भिः ॥८॥
ते सत्येन मनसा गोपतिम् गाः इयानासः इषणयन्त धीभिः ।बृहस्पतिः मिथोअवद्यपेभिः उदुस्रियाः असृजत स्वयुग्भिः ॥८॥
te satyena manasā gopatim gāḥ iyānāsaḥ iṣaṇayanta dhībhiḥ .bṛhaspatiḥ mithoavadyapebhiḥ udusriyāḥ asṛjata svayugbhiḥ ..8..

तं वर्धयन्तो मतिभिः शिवाभिः सिंहमिव नानदतं सधस्थे ।बृहस्पतिं वृषणं शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥
तम् वर्धयन्तः मतिभिः शिवाभिः सिंहम् इव नानदतम् सधस्थे ।बृहस्पतिम् वृषणम् शूरसातौ भरेभरे अनु मदेम जिष्णुम् ॥९॥
tam vardhayantaḥ matibhiḥ śivābhiḥ siṃham iva nānadatam sadhasthe .bṛhaspatim vṛṣaṇam śūrasātau bharebhare anu madema jiṣṇum ..9..

यदा वाजमसनद्विश्वरूपमा द्यामरुक्षदुत्तराणि सद्म ।बृहस्पतिं वृषणं वर्धयन्तो नाना सन्तो बिभ्रतो ज्योतिरासा ॥१०॥
यदा वाजम् असनत् विश्व-रूपम् आ द्याम् अरुक्षत् उत्तराणि सद्म ।बृहस्पतिम् वृषणम् वर्धयन्तः नाना सन्तः बिभ्रतः ज्योतिः आसा ॥१०॥
yadā vājam asanat viśva-rūpam ā dyām arukṣat uttarāṇi sadma .bṛhaspatim vṛṣaṇam vardhayantaḥ nānā santaḥ bibhrataḥ jyotiḥ āsā ..10..

सत्यमाशिषं कृणुता वयोधै कीरिं चिद्ध्यवथ स्वेभिरेवैः ।पश्चा मृधो अप भवन्तु विश्वास्तद्रोदसी शृणुतं विश्वमिन्वे ॥११॥
सत्यम् आशिषम् कृणुता वयोधैः कीरिम् चित् हि अवथ स्वेभिः एवैः ।पश्चा मृधः अप भवन्तु विश्वाः तत् रोदसी शृणुतम् विश्वमिन्वे ॥११॥
satyam āśiṣam kṛṇutā vayodhaiḥ kīrim cit hi avatha svebhiḥ evaiḥ .paścā mṛdhaḥ apa bhavantu viśvāḥ tat rodasī śṛṇutam viśvaminve ..11..

इन्द्रो मह्ना महतो अर्णवस्य वि मूर्धानमभिनदर्बुदस्य ।अहन्न् अहिमरिणात्सप्त सिन्धून् देवैर्द्यावापृथिवी प्रावतं नः ॥१२॥
इन्द्रः मह्ना महतः अर्णवस्य वि मूर्धानम् अभिनत् अर्बुदस्य ।अहन् अहिम् अरिणात् सप्त सिन्धून् देवैः द्यावापृथिवी प्रावतम् नः ॥१२॥
indraḥ mahnā mahataḥ arṇavasya vi mūrdhānam abhinat arbudasya .ahan ahim ariṇāt sapta sindhūn devaiḥ dyāvāpṛthivī prāvatam naḥ ..12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In