| |
|

This overlay will guide you through the buttons:

आ यात्विन्द्रः स्वपतिर्मदाय यो धर्मणा तूतुजानस्तुविष्मान् ।प्रत्वक्षाणो अति विश्वा सहांस्यपारेण महता वृष्ण्येन ॥१॥
आ यातु इन्द्रः स्व-पतिः मदाय यः धर्मणा तूतुजानः तुविष्मान् ।प्रत्वक्षाणः अति विश्वा सहांसि अपारेण महता वृष्ण्येन ॥१॥
ā yātu indraḥ sva-patiḥ madāya yaḥ dharmaṇā tūtujānaḥ tuviṣmān .pratvakṣāṇaḥ ati viśvā sahāṃsi apāreṇa mahatā vṛṣṇyena ..1..

सुष्ठामा रथः सुयमा हरी ते मिम्यक्ष वज्रो नृपते गभस्तौ ।शीभं राजन् सुपथा याह्यर्वाङ्वर्धाम ते पपुसो वृष्ण्यानि ॥२॥
सुष्ठामा रथः सु यमा हरी ते मिम्यक्ष वज्रः नृपते गभस्तौ ।शीभम् राजन् सु पथा याहि अर्वाङ् वर्धाम ते पपुसः वृष्ण्यानि ॥२॥
suṣṭhāmā rathaḥ su yamā harī te mimyakṣa vajraḥ nṛpate gabhastau .śībham rājan su pathā yāhi arvāṅ vardhāma te papusaḥ vṛṣṇyāni ..2..

एन्द्रवाहो नृपतिं वज्रबाहुमुग्रमुग्रासस्तविषास एनम् ।प्रत्वक्षसं वृषभं सत्यशुष्ममेमस्मत्रा सधमादो वहन्तु ॥३॥
आ इन्द्रवाहः नृपतिम् वज्र-बाहुम् उग्रम् उग्रासः तविषासः एनम् ।प्रत्वक्षसम् वृषभम् सत्य-शुष्मम् आ इमस्मत्रा सधमादः वहन्तु ॥३॥
ā indravāhaḥ nṛpatim vajra-bāhum ugram ugrāsaḥ taviṣāsaḥ enam .pratvakṣasam vṛṣabham satya-śuṣmam ā imasmatrā sadhamādaḥ vahantu ..3..

एवा पतिं द्रोणसाचं सचेतसमूर्ज स्कम्भं धरुण आ वृषायसे ।ओजः कृष्व सं गृभाय त्वे अप्यसो यथा केनिपानामिनो वृधे ॥४॥
एव पतिम् द्रोणसाचम् सचेतसम् ऊर्जः स्कम्भम् धरुणे आ वृषायसे ।ओजः कृष्व सम् गृभाय त्वे अप्यसः यथा केनिपानामिनः वृधे ॥४॥
eva patim droṇasācam sacetasam ūrjaḥ skambham dharuṇe ā vṛṣāyase .ojaḥ kṛṣva sam gṛbhāya tve apyasaḥ yathā kenipānāminaḥ vṛdhe ..4..

गमन्न् अस्मे वसून्या हि शंसिषं स्वाशिषं भरमा याहि सोमिनः ।त्वमीशिषे सास्मिन्न् आ सत्सि बर्हिष्यनाधृष्या तव पात्राणि धर्मणा ॥५॥
गमन् अस्मे वसूनि आ हि शंसिषम् सु आशिषम् भरमा याहि सोमिनः ।त्वम् ईशिषे स अस्मिन् आ सत्सि बर्हिषि अनाधृष्या तव पात्राणि धर्मणा ॥५॥
gaman asme vasūni ā hi śaṃsiṣam su āśiṣam bharamā yāhi sominaḥ .tvam īśiṣe sa asmin ā satsi barhiṣi anādhṛṣyā tava pātrāṇi dharmaṇā ..5..

पृथक्प्रायन् प्रथमा देवहूतयोऽकृण्वत श्रवस्यानि दुष्टरा ।न ये शेकुर्यज्ञियां नावमारुहमिर्मैव ते न्यविशन्त केपयः ॥६॥
पृथक् प्रायन् प्रथमाः देव-हूतयः अकृण्वत श्रवस्यानि दुष्टरा ।न ये शेकुः यज्ञियाम् नावम् आरुहमिः मा एव ते न्यविशन्त केपयः ॥६॥
pṛthak prāyan prathamāḥ deva-hūtayaḥ akṛṇvata śravasyāni duṣṭarā .na ye śekuḥ yajñiyām nāvam āruhamiḥ mā eva te nyaviśanta kepayaḥ ..6..

एवैवापागपरे सन्तु दूध्योऽश्वा येषां दुर्युग आयुयुज्रे ।इत्था ये प्रागुपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥७॥
एव एव अपाक् अपरे सन्तु दूध्यः अश्वाः येषाम् दुर्युगे आयुयुज्रे ।इत्था ये प्राक् उपरे सन्ति दावने पुरूणि यत्र वयुनानि भोजना ॥७॥
eva eva apāk apare santu dūdhyaḥ aśvāḥ yeṣām duryuge āyuyujre .itthā ye prāk upare santi dāvane purūṇi yatra vayunāni bhojanā ..7..

गिरींरज्रान् रेजमानामधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्।समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥८॥
गिरीन् रज्रान् रेजमानाम् अधारयत् द्यौः क्रन्दत् अन्तरिक्षाणि कोपयत्।समीचीने धिषणे वि स्कभायति वृष्णः पीत्वा मदे उक्थानि शंसति ॥८॥
girīn rajrān rejamānām adhārayat dyauḥ krandat antarikṣāṇi kopayat.samīcīne dhiṣaṇe vi skabhāyati vṛṣṇaḥ pītvā made ukthāni śaṃsati ..8..

इमं बिभर्मि सुकृतं ते अङ्कुशं येनारुजासि मघवं छफारुजः ।अस्मिन्त्सु ते सवने अस्त्वोक्त्यं सुत इष्टौ मघवन् बोध्याभगः ॥९॥
इमम् बिभर्मि सु कृतम् ते अङ्कुशम् येन आरुजासि मघवन् शफारुजः ।अस्मिन् सु ते सवने अस्त्वा उक्त्यम् सुते इष्टौ मघवन् बोध्या भगः ॥९॥
imam bibharmi su kṛtam te aṅkuśam yena ārujāsi maghavan śaphārujaḥ .asmin su te savane astvā uktyam sute iṣṭau maghavan bodhyā bhagaḥ ..9..

गोभिष्टरेमामतिं दुरेवां यवेन क्षुधं पुरुहूत विश्वाम् ।वयं राजभिः प्रथमा धनान्यस्माकेन वृजनेना जयेम ॥१०॥
गोभिः तरेम अमतिम् दुरेवाम् यवेन क्षुधम् पुरुहूत विश्वाम् ।वयम् राजभिः प्रथमाः धनानि अस्माकेन वृजनेन जयेम ॥१०॥
gobhiḥ tarema amatim durevām yavena kṣudham puruhūta viśvām .vayam rājabhiḥ prathamāḥ dhanāni asmākena vṛjanena jayema ..10..

बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥११॥
बृहस्पतिः नः परि पातु पश्चात् उत उत्तरस्मात् अधरात् अघयोः ।इन्द्रः पुरस्तात् उत मध्यतस् नः सखा सखिभ्यः वरिवः कृणोतु ॥११॥
bṛhaspatiḥ naḥ pari pātu paścāt uta uttarasmāt adharāt aghayoḥ .indraḥ purastāt uta madhyatas naḥ sakhā sakhibhyaḥ varivaḥ kṛṇotu ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In