| |
|

This overlay will guide you through the buttons:

तीव्रस्याभिवयसो अस्य पाहि सर्वरथा वि हरी इह मुञ्च ।इन्द्र मा त्वा यजमानासो अन्ये नि रीरमन् तुभ्यमिमे सुतासः ॥१॥
तीव्रस्य अभिवयसः अस्य पाहि सर्व-रथा वि हरी इह मुञ्च ।इन्द्र मा त्वा यजमानासः अन्ये नि रीरमन् तुभ्यम् इमे सुतासः ॥१॥
tīvrasya abhivayasaḥ asya pāhi sarva-rathā vi harī iha muñca .indra mā tvā yajamānāsaḥ anye ni rīraman tubhyam ime sutāsaḥ ..1..

तुभ्यं सुतास्तुभ्यमु सोत्वासस्त्वां गिरः श्वात्र्या आ ह्वयन्ति ।इन्द्रेदमद्य सवनं जुषाणो विश्वस्य विद्वामिह पाहि सोमम् ॥२॥
तुभ्यम् सुताः तुभ्यम् उ सोत्वासः त्वाम् गिरः श्वात्र्याः आ ह्वयन्ति ।इन्द्र इदम् अद्य सवनम् जुषाणः विश्वस्य विद्वाम् इह पाहि सोमम् ॥२॥
tubhyam sutāḥ tubhyam u sotvāsaḥ tvām giraḥ śvātryāḥ ā hvayanti .indra idam adya savanam juṣāṇaḥ viśvasya vidvām iha pāhi somam ..2..

य उशता मनसा सोममस्मै सर्वहृदा देवकामः सुनोति ।न गा इन्द्रस्तस्य परा ददाति प्रशस्तमिच्चारुमस्मै कृणोति ॥३॥
यः उशता मनसा सोमम् अस्मै सर्व-हृदा देव-कामः सुनोति ।न गाः इन्द्रः तस्य परा ददाति प्रशस्तम् इद् चारुम् अस्मै कृणोति ॥३॥
yaḥ uśatā manasā somam asmai sarva-hṛdā deva-kāmaḥ sunoti .na gāḥ indraḥ tasya parā dadāti praśastam id cārum asmai kṛṇoti ..3..

अनुस्पष्टो भवत्येषो अस्य यो अस्मै रेवान् न सुनोति सोमम् ।निररत्नौ मघवा तं दधाति ब्रह्मद्विषो हन्त्यनानुदिष्टः ॥४॥
अनुस्पष्टः भवति एषः अस्य यः अस्मै रेवान् न सुनोति सोमम् ।निररत्नौ मघवा तम् दधाति ब्रह्म-द्विषः हन्ति अनानुदिष्टः ॥४॥
anuspaṣṭaḥ bhavati eṣaḥ asya yaḥ asmai revān na sunoti somam .niraratnau maghavā tam dadhāti brahma-dviṣaḥ hanti anānudiṣṭaḥ ..4..

अश्वायन्तो गव्यन्तो वाजयन्तो हवामहे त्वोपगन्तवा उ ।आभूषन्तस्ते सुमतौ नवायां वयमिन्द्र त्वा शुनं हुवेम ॥५॥
अश्वायन्तः गव्यन्तः वाजयन्तः हवामहे त्वा उपगन्तवै उ ।आभूषन्तः ते सुमतौ नवायाम् वयम् इन्द्र त्वा शुनम् हुवेम ॥५॥
aśvāyantaḥ gavyantaḥ vājayantaḥ havāmahe tvā upagantavai u .ābhūṣantaḥ te sumatau navāyām vayam indra tvā śunam huvema ..5..

मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्।ग्राहिर्जग्राह यद्येतद्तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥६॥
मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञात-यक्ष्मात् उत राजयक्ष्मात्।ग्राहिः जग्राह यदि एतत् तस्याः इन्द्र-अग्नी प्र मुमुक्तम् एनम् ॥६॥
muñcāmi tvā haviṣā jīvanāya kam ajñāta-yakṣmāt uta rājayakṣmāt.grāhiḥ jagrāha yadi etat tasyāḥ indra-agnī pra mumuktam enam ..6..

यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकं नीत एव ।तमा हरामि निर्ऋतेरुपस्थादस्पार्शमेनं शतशारदाय ॥७॥
यदि क्षित-आयुः यदि वा परेतः यदि मृत्योः अन्तिकम् नीतः एव ।तम् आ हरामि निरृतेः उपस्थात् अ स्पार्शम् एनम् शत-शारदाय ॥७॥
yadi kṣita-āyuḥ yadi vā paretaḥ yadi mṛtyoḥ antikam nītaḥ eva .tam ā harāmi nirṛteḥ upasthāt a spārśam enam śata-śāradāya ..7..

सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥८॥
सहस्र-अक्षेण शत-वीर्येण शत-आयुषा हविषा अहार्षम् एनम् ।इन्द्रः यथा एनम् शरदः नयाति अति विश्वस्य दुरितस्य पारम् ॥८॥
sahasra-akṣeṇa śata-vīryeṇa śata-āyuṣā haviṣā ahārṣam enam .indraḥ yathā enam śaradaḥ nayāti ati viśvasya duritasya pāram ..8..

शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् ।शतं त इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥९॥
शतम् जीव शरदः वर्धमानः शतम् हेमन्तान् शतम् उ वसन्तान् ।शतम् ते इन्द्रः अग्निः सविता बृहस्पतिः शत-आयुषा हविषा अहार्षम् एनम् ॥९॥
śatam jīva śaradaḥ vardhamānaḥ śatam hemantān śatam u vasantān .śatam te indraḥ agniḥ savitā bṛhaspatiḥ śata-āyuṣā haviṣā ahārṣam enam ..9..

आहार्षमविदं त्वा पुनरागाः पुनर्णवः ।सर्वाङ्ग सर्वं ते चक्षुः सर्वमायुश्च तेऽविदम् ॥१०॥
आहार्षम् अविदम् त्वा पुनर् आगाः पुनर्णवः ।सर्व-अङ्ग सर्वम् ते चक्षुः सर्वम् आयुः च ते अविदम् ॥१०॥
āhārṣam avidam tvā punar āgāḥ punarṇavaḥ .sarva-aṅga sarvam te cakṣuḥ sarvam āyuḥ ca te avidam ..10..

ब्रह्मणाग्निः सम्विदानो रक्षोहा बाधतामितः ।अमीवा यस्ते गर्भं दुर्णामा योनिमाशये ॥११॥
ब्रह्मणा अग्निः सम्विदानः रक्षः-हा बाधताम् इतस् ।अमीवा यः ते गर्भम् दुर्णामा योनिम् आशये ॥११॥
brahmaṇā agniḥ samvidānaḥ rakṣaḥ-hā bādhatām itas .amīvā yaḥ te garbham durṇāmā yonim āśaye ..11..

यस्ते गर्भममीवा दुर्णामा योनिमाशये ।अग्निष्टं ब्रह्मणा सह निष्क्रव्यादमनीनशत्॥१२॥
यः ते गर्भम् अमीवाः दुर्णामा योनिम् आशये ।अग्निः तम् ब्रह्मणा सह निः क्रव्य-अदम् अनीनशत्॥१२॥
yaḥ te garbham amīvāḥ durṇāmā yonim āśaye .agniḥ tam brahmaṇā saha niḥ kravya-adam anīnaśat..12..

यस्ते हन्ति पतयन्तं निषत्स्नुं यः सरीसृपम् ।जातं यस्ते जिघांसति तमितो नाशयामसि ॥१३॥
यः ते हन्ति पतयन्तम् निषत्स्नुम् यः सरीसृपम् ।जातम् यः ते जिघांसति तम् इतस् नाशयामसि ॥१३॥
yaḥ te hanti patayantam niṣatsnum yaḥ sarīsṛpam .jātam yaḥ te jighāṃsati tam itas nāśayāmasi ..13..

यस्त ऊरू विहरत्यन्तरा दम्पती शये ।योनिं यो अन्तरारेल्हि तमितो नाशयामसि ॥१४॥
यः ते ऊरू विहरति अन्तरा दम्पती शये ।योनिम् यः अन्तर् आरेल्हि तम् इतस् नाशयामसि ॥१४॥
yaḥ te ūrū viharati antarā dampatī śaye .yonim yaḥ antar ārelhi tam itas nāśayāmasi ..14..

यस्त्वा भ्राता पतिर्भूत्वा जारो भूत्वा निपद्यते ।प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१५॥
यः त्वा भ्राता पतिः भूत्वा जारः भूत्वा निपद्यते ।प्रजाम् यः ते जिघांसति तम् इतस् नाशयामसि ॥१५॥
yaḥ tvā bhrātā patiḥ bhūtvā jāraḥ bhūtvā nipadyate .prajām yaḥ te jighāṃsati tam itas nāśayāmasi ..15..

यस्त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।प्रजां यस्ते जिघांसति तमितो नाशयामसि ॥१६॥
यः त्वा स्वप्नेन तमसा मोहयित्वा निपद्यते ।प्रजाम् यः ते जिघांसति तम् इतस् नाशयामसि ॥१६॥
yaḥ tvā svapnena tamasā mohayitvā nipadyate .prajām yaḥ te jighāṃsati tam itas nāśayāmasi ..16..

अक्षीभ्यां ते नासिकाभ्यां कर्णाभ्यां छुबुकादधि ।यक्ष्मं शीर्षण्यं मस्तिष्काज्जिह्वाया वि वृहामि ते ॥१७॥
अक्षीभ्याम् ते नासिकाभ्याम् कर्णाभ्याम् छुबुकात् अधि ।यक्ष्मम् शीर्षण्यम् मस्तिष्कात् जिह्वायाः वि वृहामि ते ॥१७॥
akṣībhyām te nāsikābhyām karṇābhyām chubukāt adhi .yakṣmam śīrṣaṇyam mastiṣkāt jihvāyāḥ vi vṛhāmi te ..17..

ग्रीवाभ्यस्त उष्णिहाभ्यः कीकसाभ्यो अनूक्यात्।यक्ष्मं दोषण्यमंसाभ्यां बाहुभ्यां वि वृहामि ते ॥१८॥
ग्रीवाभ्यः तः उष्णिहाभ्यः कीकसाभ्यः अनूक्यात्।यक्ष्मम् दोषण्यम् अंसाभ्याम् बाहुभ्याम् वि वृहामि ते ॥१८॥
grīvābhyaḥ taḥ uṣṇihābhyaḥ kīkasābhyaḥ anūkyāt.yakṣmam doṣaṇyam aṃsābhyām bāhubhyām vi vṛhāmi te ..18..

हृदयात्ते परि क्लोम्नो हलीक्ष्णात्पार्श्वाभ्याम् ।यक्ष्मं मतस्नाभ्यां प्लीह्नो यक्नस्ते वि वृहामसि ॥१९॥
हृदयात् ते परि क्लोम्नः हलीक्ष्णात् पार्श्वाभ्याम् ।यक्ष्मम् मतस्नाभ्याम् प्लीह्नः यक्नः ते वि वृहामसि ॥१९॥
hṛdayāt te pari klomnaḥ halīkṣṇāt pārśvābhyām .yakṣmam matasnābhyām plīhnaḥ yaknaḥ te vi vṛhāmasi ..19..

आन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि ।यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥२०॥
आन्त्रेभ्यः ते गुदाभ्यः वनिष्ठोः उदरात् अधि ।यक्ष्मम् कुक्षिभ्याम् प्लाशेः नाभ्याः वि वृहामि ते ॥२०॥
āntrebhyaḥ te gudābhyaḥ vaniṣṭhoḥ udarāt adhi .yakṣmam kukṣibhyām plāśeḥ nābhyāḥ vi vṛhāmi te ..20..

ऊरुभ्यां ते अष्ठीवद्भ्यां पार्ष्णिभ्यां प्रपदाभ्याम् ।यक्ष्मं भसद्यं श्रोणिभ्यां भासदं भांससो वि वृहामि ते ॥२१॥
ऊरुभ्याम् ते अष्ठीवद्भ्याम् पार्ष्णिभ्याम् प्रपदाभ्याम् ।यक्ष्मम् भसद्यम् श्रोणिभ्याम् भासदम् भांससः वि वृहामि ते ॥२१॥
ūrubhyām te aṣṭhīvadbhyām pārṣṇibhyām prapadābhyām .yakṣmam bhasadyam śroṇibhyām bhāsadam bhāṃsasaḥ vi vṛhāmi te ..21..

अमेहनाद्वनंकरणाल्लोमभ्यस्ते नखेभ्यः ।यक्ष्मं सर्वस्मादात्मनस्तमिदं वि वृहामि ते ॥२२॥
अ मेहनात् वनंकरणात् लोमभ्यः ते नखेभ्यः ।यक्ष्मम् सर्वस्मात् आत्मनः तम् इदम् वि वृहामि ते ॥२२॥
a mehanāt vanaṃkaraṇāt lomabhyaḥ te nakhebhyaḥ .yakṣmam sarvasmāt ātmanaḥ tam idam vi vṛhāmi te ..22..

अस्थिभ्यस्ते मज्जभ्यः स्नावभ्यो धमनिभ्यः ।यक्ष्मं पाणिभ्यामङ्गुलिभ्यो नखेभ्यो वि वृहामि ते ॥२२॥
अस्थिभ्यः ते मज्जभ्यः स्नावभ्यः धमनिभ्यः ।यक्ष्मम् पाणिभ्याम् अङ्गुलिभ्यः नखेभ्यः वि वृहामि ते ॥२२॥
asthibhyaḥ te majjabhyaḥ snāvabhyaḥ dhamanibhyaḥ .yakṣmam pāṇibhyām aṅgulibhyaḥ nakhebhyaḥ vi vṛhāmi te ..22..

अङ्गेअङ्गे लोम्निलोम्नि यस्ते पर्वणिपर्वणि ।यक्ष्मं त्वचस्यं ते वयं कश्यपस्य वीबर्हेण विष्वञ्चं वि वृहामसि ॥२३॥
अङ्गे अङ्गे लोम्नि लोम्नि यः ते पर्वणि पर्वणि ।यक्ष्मम् त्वचस्यम् ते वयम् कश्यपस्य वीबर्हेण विष्वञ्चम् वि वृहामसि ॥२३॥
aṅge aṅge lomni lomni yaḥ te parvaṇi parvaṇi .yakṣmam tvacasyam te vayam kaśyapasya vībarheṇa viṣvañcam vi vṛhāmasi ..23..

अपेहि मनसस्पतेऽप काम परश्चर ।परो निर्ऋत्या आ चक्ष्व बहुधा जीवतो मनः ॥२४॥
अपेहि मनसस्पते अप काम परस् चर ।परस् निरृत्याः आ चक्ष्व बहुधा जीवतः मनः ॥२४॥
apehi manasaspate apa kāma paras cara .paras nirṛtyāḥ ā cakṣva bahudhā jīvataḥ manaḥ ..24..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In