| |
|

This overlay will guide you through the buttons:

अग्निर्नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥
अग्निः नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन् अभिशस्तिम् अरातिम् ।स सेनाम् मोहयतु परेषाम् निर्हस्तान् च कृणवत् जातवेदाः ॥१॥
agniḥ naḥ śatrūn pratyetu vidvān pratidahan abhiśastim arātim .sa senām mohayatu pareṣām nirhastān ca kṛṇavat jātavedāḥ ..1..

यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् ।अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥२॥
यूयम् उग्राः मरुतः ईदृशे स्थ अभि प्रेत मृणत सहध्वम् ।अमीमृणन् वसवः नाथिताः इमे अग्निः हि एषाम् दूतः प्रत्येतु विद्वान् ॥२॥
yūyam ugrāḥ marutaḥ īdṛśe stha abhi preta mṛṇata sahadhvam .amīmṛṇan vasavaḥ nāthitāḥ ime agniḥ hi eṣām dūtaḥ pratyetu vidvān ..2..

अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि ।युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति ॥३॥
अमित्र-सेनाम् मघवन् अस्मान् शत्रूयतीम् अभि ।युवम् ताम् इन्द्र वृत्रहन् अग्निः च दहतम् प्रति ॥३॥
amitra-senām maghavan asmān śatrūyatīm abhi .yuvam tām indra vṛtrahan agniḥ ca dahatam prati ..3..

प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् ।जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥४॥
प्रसूतः इन्द्र प्रवता हरिभ्याम् प्र ते वज्रः प्रमृणन् एतु शत्रून् ।जहि प्रतीचः अनूचः पराचः विष्वक् सत्यम् कृणुहि चित्तम् एषाम् ॥४॥
prasūtaḥ indra pravatā haribhyām pra te vajraḥ pramṛṇan etu śatrūn .jahi pratīcaḥ anūcaḥ parācaḥ viṣvak satyam kṛṇuhi cittam eṣām ..4..

इन्द्र सेनां मोहयामित्राणाम् ।अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥५॥
इन्द्र सेनाम् मोहय अमित्राणाम् ।अग्नेः वातस्य ध्राज्या तान् विषूचः वि नाशय ॥५॥
indra senām mohaya amitrāṇām .agneḥ vātasya dhrājyā tān viṣūcaḥ vi nāśaya ..5..

इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता ॥६॥
इन्द्रः सेनाम् मोहयतु मरुतः घ्नन्तु ओजसा ।चक्षूंसि अग्निः आ दत्ताम् पुनर् एतु पराजिता ॥६॥
indraḥ senām mohayatu marutaḥ ghnantu ojasā .cakṣūṃsi agniḥ ā dattām punar etu parājitā ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In