| |
|

This overlay will guide you through the buttons:

प्रथमा ह व्युवास सा धेनुरभवद्यमे ।सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥१॥
प्रथमा ह व्युवास सा धेनुः अभवत् यमे ।सा नः पयस्वती दुहाम् उत्तराम् उत्तराम् समाम् ॥१॥
prathamā ha vyuvāsa sā dhenuḥ abhavat yame .sā naḥ payasvatī duhām uttarām uttarām samām ..1..

यां देवाः प्रतिनन्दन्ति रात्रिं धेनुमुपायतीम् ।संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गली ॥२॥
याम् देवाः प्रतिनन्दन्ति रात्रिम् धेनुम् उपायतीम् ।संवत्सरस्य या पत्नी सा नः अस्तु सु मङ्गली ॥२॥
yām devāḥ pratinandanti rātrim dhenum upāyatīm .saṃvatsarasya yā patnī sā naḥ astu su maṅgalī ..2..

संवत्सरस्य प्रतिमां यां त्वा रात्र्युपास्महे ।सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥३॥
संवत्सरस्य प्रतिमाम् याम् त्वा रात्रि उपास्महे ।सा नः आयुष्मतीम् प्रजाम् रायस्पोषेण सम् सृज ॥३॥
saṃvatsarasya pratimām yām tvā rātri upāsmahe .sā naḥ āyuṣmatīm prajām rāyaspoṣeṇa sam sṛja ..3..

इयमेव सा या प्रथमा व्यौच्छदास्वितरासु चरति प्रविष्टा ।महान्तो अस्यां महिमानो अन्तर्वधूर्जिगाय नवगज्जनित्री ॥४॥
इयम् एव सा या प्रथमा व्यौच्छद आसु इतरासु चरति प्रविष्टा ।महान्तः अस्याम् महिमानः अन्तर्वधूः जिगाय नवगत् जनित्री ॥४॥
iyam eva sā yā prathamā vyaucchada āsu itarāsu carati praviṣṭā .mahāntaḥ asyām mahimānaḥ antarvadhūḥ jigāya navagat janitrī ..4..

वानस्पत्या ग्रावाणो घोषमक्रत हविष्कृण्वन्तः परिवत्सरीणम् ।एकाष्टके सुप्रजसः सुवीरा वयं स्याम पतयो रयीणाम् ॥५॥
वानस्पत्याः ग्रावाणः घोषम् अक्रत हविष्कृण्वन्तः परिवत्सरीणम् ।एकाष्टके सुप्रजसः सु वीराः वयम् स्याम पतयः रयीणाम् ॥५॥
vānaspatyāḥ grāvāṇaḥ ghoṣam akrata haviṣkṛṇvantaḥ parivatsarīṇam .ekāṣṭake suprajasaḥ su vīrāḥ vayam syāma patayaḥ rayīṇām ..5..

इडायास्पदं घृतवत्सरीसृपं जातवेदः प्रति हव्या गृभाय ।ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि रन्तिरस्तु ॥६॥
इडाय आस्पदम् घृतवत् सरीसृपम् जातवेदः प्रति हव्या गृभाय ।ये ग्राम्याः पशवः विश्व-रूपाः तेषाम् सप्तानाम् मयि रन्तिः अस्तु ॥६॥
iḍāya āspadam ghṛtavat sarīsṛpam jātavedaḥ prati havyā gṛbhāya .ye grāmyāḥ paśavaḥ viśva-rūpāḥ teṣām saptānām mayi rantiḥ astu ..6..

आ मा पुष्टे च पोषे च रात्रि देवानां सुमतौ स्याम ।पूर्णा दर्वे परा पत सुपूर्णा पुनरा पत ।सर्वान् यज्ञान्त्संभुञ्जतीषमूर्जं न आ भर ॥७॥
आ मा पुष्टे च पोषे च रात्रि देवानाम् सुमतौ स्याम ।पूर्णा दर्वे परा पत सु पूर्णा पुनर् आ पत ।सर्वान् यज्ञान् संभुञ्जती इषम् ऊर्जम् नः आ भर ॥७॥
ā mā puṣṭe ca poṣe ca rātri devānām sumatau syāma .pūrṇā darve parā pata su pūrṇā punar ā pata .sarvān yajñān saṃbhuñjatī iṣam ūrjam naḥ ā bhara ..7..

आयमगन्त्संवत्सरः पतिरेकाष्टके तव ।सा न आयुष्मतीं प्रजां रायस्पोषेण सं सृज ॥८॥
आ अयम् अगन् संवत्सरः पतिः एकाष्टके तव ।सा नः आयुष्मतीम् प्रजाम् रायस्पोषेण सम् सृज ॥८॥
ā ayam agan saṃvatsaraḥ patiḥ ekāṣṭake tava .sā naḥ āyuṣmatīm prajām rāyaspoṣeṇa sam sṛja ..8..

ऋतून् यज ऋतुपतीन् आर्तवान् उत हायनान् ।समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥९॥
ऋतून् यजे ऋतु-पतीन् आर्तवान् उत हायनान् ।समाः संवत्सरान् मासान् भूतस्य पतये यजे ॥९॥
ṛtūn yaje ṛtu-patīn ārtavān uta hāyanān .samāḥ saṃvatsarān māsān bhūtasya pataye yaje ..9..

ऋतुभ्यष्ट्वार्तवेभ्यो माद्भ्यः संवत्सरेभ्यः ।धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥१०॥
ऋतुभ्यः तु आर्तवेभ्यः माद्भ्यः संवत्सरेभ्यः ।धात्रे विधात्रे समृधे भूतस्य पतये यजे ॥१०॥
ṛtubhyaḥ tu ārtavebhyaḥ mādbhyaḥ saṃvatsarebhyaḥ .dhātre vidhātre samṛdhe bhūtasya pataye yaje ..10..

इडया जुह्वतो वयं देवान् घृतवता यजे ।गृहान् अलुभ्यतो वयं सं विशेमोप गोमतः ॥११॥
इडया जुह्वतः वयम् देवान् घृतवता यजे ।गृहान् अ लुभ्यतः वयम् सम् विशेम उप गोमतः ॥११॥
iḍayā juhvataḥ vayam devān ghṛtavatā yaje .gṛhān a lubhyataḥ vayam sam viśema upa gomataḥ ..11..

एकाष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रम् ।तेन देवा व्यसहन्त शत्रून् हन्ता दस्यूनामभवच्छचीपतिः ॥१२॥
एकाष्टका तपसा तप्यमाना जजान गर्भम् महिमानम् इन्द्रम् ।तेन देवाः व्यसहन्त शत्रून् हन्ता दस्यूनाम् अभवत् शचीपतिः ॥१२॥
ekāṣṭakā tapasā tapyamānā jajāna garbham mahimānam indram .tena devāḥ vyasahanta śatrūn hantā dasyūnām abhavat śacīpatiḥ ..12..

इन्द्रपुत्रे सोमपुत्रे दुहितासि प्रजापतेः ।कामान् अस्माकं पूरय प्रति गृह्णाहि नो हविः ॥१३॥
इन्द्र-पुत्रे सोम-पुत्रे दुहिता असि प्रजापतेः ।कामान् अस्माकम् पूरय प्रति गृह्णाहि नः हविः ॥१३॥
indra-putre soma-putre duhitā asi prajāpateḥ .kāmān asmākam pūraya prati gṛhṇāhi naḥ haviḥ ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In