| |
|

This overlay will guide you through the buttons:

मुञ्चामि त्वा हविषा जीवनाय कमज्ञातयक्ष्मादुत राजयक्ष्मात्।ग्राहिर्जग्राह यद्येतदेनं तस्या इन्द्राग्नी प्र मुमुक्तमेनम् ॥१॥
मुञ्चामि त्वा हविषा जीवनाय कम् अज्ञात-यक्ष्मात् उत राजयक्ष्मात्।ग्राहिः जग्राह यदि एतत् एनम् तस्याः इन्द्र-अग्नी प्र मुमुक्तम् एनम् ॥१॥
muñcāmi tvā haviṣā jīvanāya kam ajñāta-yakṣmāt uta rājayakṣmāt.grāhiḥ jagrāha yadi etat enam tasyāḥ indra-agnī pra mumuktam enam ..1..

यदि क्षितायुर्यदि वा परेतो यदि मृत्योरन्तिकमेव ।तमा हरामि निर्ऋतेरुपस्थादस्पार्शमेनं शतशारदाय ॥२॥
यदि क्षित-आयुः यदि वा परेतः यदि मृत्योः अन्तिकम् एव ।तम् आ हरामि निरृतेः उपस्थात् अ स्पार्शम् एनम् शत-शारदाय ॥२॥
yadi kṣita-āyuḥ yadi vā paretaḥ yadi mṛtyoḥ antikam eva .tam ā harāmi nirṛteḥ upasthāt a spārśam enam śata-śāradāya ..2..

सहस्राक्षेण शतवीर्येण शतायुषा हविषाहार्षमेनम् ।इन्द्रो यथैनं शरदो नयात्यति विश्वस्य दुरितस्य पारम् ॥३॥
सहस्र-अक्षेण शत-वीर्येण शत-आयुषा हविषा अहार्षम् एनम् ।इन्द्रः यथा एनम् शरदः नयाति अति विश्वस्य दुरितस्य पारम् ॥३॥
sahasra-akṣeṇa śata-vīryeṇa śata-āyuṣā haviṣā ahārṣam enam .indraḥ yathā enam śaradaḥ nayāti ati viśvasya duritasya pāram ..3..

शतं जीव शरदो वर्धमानः शतं हेमन्तान् छतमु वसन्तान् ।शतं ते इन्द्रो अग्निः सविता बृहस्पतिः शतायुषा हविषाहार्षमेनम् ॥४॥
शतम् जीव शरदः वर्धमानः शतम् हेमन्तान् शतम् उ वसन्तान् ।शतम् ते इन्द्रः अग्निः सविता बृहस्पतिः शत-आयुषा हविषा अहार्षम् एनम् ॥४॥
śatam jīva śaradaḥ vardhamānaḥ śatam hemantān śatam u vasantān .śatam te indraḥ agniḥ savitā bṛhaspatiḥ śata-āyuṣā haviṣā ahārṣam enam ..4..

प्र विशतं प्राणापानावनड्वाहाविव व्रजम् ।व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥५॥
प्र विशतम् प्राण-अपानौ अनड्वाहौ इव व्रजम् ।वि अन्ये यन्तु मृत्यवः यान् आहुः इतरान् शतम् ॥५॥
pra viśatam prāṇa-apānau anaḍvāhau iva vrajam .vi anye yantu mṛtyavaḥ yān āhuḥ itarān śatam ..5..

इहैव स्तं प्राणापानौ माप गातमितो युवम् ।शरीरमस्याङ्गानि जरसे वहतं पुनः ॥६॥
इह एव स्तम् प्राण-अपानौ मा अप गातम् इतस् युवम् ।शरीरम् अस्य अङ्गानि जरसे वहतम् पुनर् ॥६॥
iha eva stam prāṇa-apānau mā apa gātam itas yuvam .śarīram asya aṅgāni jarase vahatam punar ..6..

जरायै त्वा परि ददामि जरायै नि धुवामि त्वा ।जरा त्वा भद्रा नेष्ट व्यन्ये यन्तु मृत्यवो यान् आहुरितरान् छतम् ॥७॥
जरायै त्वा परि ददामि जरायै नि धुवामि त्वा ।जरा त्वा भद्रा नेष्ट वि अन्ये यन्तु मृत्यवः यान् आहुः इतरान् शतम् ॥७॥
jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā .jarā tvā bhadrā neṣṭa vi anye yantu mṛtyavaḥ yān āhuḥ itarān śatam ..7..

अभि त्वा जरिमाहित गामुक्षणमिव रज्ज्वा ।यस्त्वा मृत्युरभ्यधत्त जायमानं सुपाशया ।तं ते सत्यस्य हस्ताभ्यामुदमुञ्चद्बृहस्पतिः ॥८॥
अभि त्वा जरिमा अहित गामुक्षणम् इव रज्ज्वा ।यः त्वा मृत्युः अभ्यधत्त जायमानम् सु पाशया ।तम् ते सत्यस्य हस्ताभ्याम् उदमुञ्चत् बृहस्पतिः ॥८॥
abhi tvā jarimā ahita gāmukṣaṇam iva rajjvā .yaḥ tvā mṛtyuḥ abhyadhatta jāyamānam su pāśayā .tam te satyasya hastābhyām udamuñcat bṛhaspatiḥ ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In