| |
|

This overlay will guide you through the buttons:

इहैव ध्रुवां नि मिनोमि शालां क्षेमे तिष्ठाति घृतमुक्षमाणा ।तां त्वा शाले सर्ववीराः सुवीरा अरिष्टवीरा उप सं चरेम ॥१॥
इह एव ध्रुवाम् नि मिनोमि शालाम् क्षेमे तिष्ठाति घृतम् उक्षमाणा ।ताम् त्वा शाले सर्व-वीराः सु वीराः अरिष्ट-वीराः उप सम् चरेम ॥१॥
iha eva dhruvām ni minomi śālām kṣeme tiṣṭhāti ghṛtam ukṣamāṇā .tām tvā śāle sarva-vīrāḥ su vīrāḥ ariṣṭa-vīrāḥ upa sam carema ..1..

इहैव ध्रुवा प्रति तिष्ठ शालेऽश्वावती गोमती सूनृतावती ।ऊर्जस्वती घृतवती पयस्वत्युच्छ्रयस्व महते सौभगाय ॥२॥
इह एव ध्रुवा प्रति तिष्ठ शाले अश्वावती गोमती सूनृतावती ।ऊर्जस्वती घृतवती पयस्वती उच्छ्रयस्व महते सौभगाय ॥२॥
iha eva dhruvā prati tiṣṭha śāle aśvāvatī gomatī sūnṛtāvatī .ūrjasvatī ghṛtavatī payasvatī ucchrayasva mahate saubhagāya ..2..

धरुण्यसि शाले बृहच्छन्दाः पूतिधान्या ।आ त्वा वत्सो गमेदा कुमार आ धेनवः सायमास्पन्दमानाः ॥३॥
धरुणी असि शाले बृहत्-छन्दाः पूति-धान्या ।आ त्वा वत्सः गमेत् आ कुमारः आ धेनवः सायम् आस्पन्दमानाः ॥३॥
dharuṇī asi śāle bṛhat-chandāḥ pūti-dhānyā .ā tvā vatsaḥ gamet ā kumāraḥ ā dhenavaḥ sāyam āspandamānāḥ ..3..

इमां शालां सविता वायुरिन्द्रो बृहस्पतिर्नि मिनोतु प्रजानन् ।उक्षन्तूद्ना मरुतो घृतेन भगो नो राजा नि कृषिं तनोतु ॥४॥
इमाम् शालाम् सविता वायुः इन्द्रः बृहस्पतिः नि मिनोतु प्रजानन् ।उक्षन्तु उद्ना मरुतः घृतेन भगः नः राजा नि कृषिम् तनोतु ॥४॥
imām śālām savitā vāyuḥ indraḥ bṛhaspatiḥ ni minotu prajānan .ukṣantu udnā marutaḥ ghṛtena bhagaḥ naḥ rājā ni kṛṣim tanotu ..4..

मानस्य पत्नि शरणा स्योना देवी देवेभिर्निमितास्यग्रे ।तृणं वसाना सुमना असस्त्वमथास्मभ्यं सहवीरं रयिं दाः ॥५॥
मानस्य पत्नि शरणा स्योना देवी देवेभिः निमिता असि अग्रे ।तृणम् वसाना सुमनाः असः त्वम् अथ अस्मभ्यम् सह वीरम् रयिम् दाः ॥५॥
mānasya patni śaraṇā syonā devī devebhiḥ nimitā asi agre .tṛṇam vasānā sumanāḥ asaḥ tvam atha asmabhyam saha vīram rayim dāḥ ..5..

ऋतेन स्थूणामधि रोह वंशोग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् ।मा ते रिषन्न् उपसत्तारो गृहाणां शाले शतं जीवेम शरदः सर्ववीराः ॥६॥
ऋतेन स्थूणाम् अधि रोह वंश उग्रः विराजन् अप वृङ्क्ष्व शत्रून् ।मा ते रिषन् उपसत्तारः गृहाणाम् शाले शतम् जीवेम शरदः सर्व-वीराः ॥६॥
ṛtena sthūṇām adhi roha vaṃśa ugraḥ virājan apa vṛṅkṣva śatrūn .mā te riṣan upasattāraḥ gṛhāṇām śāle śatam jīvema śaradaḥ sarva-vīrāḥ ..6..

एमां कुमारस्तरुण आ वत्सो जगता सह ।एमां परिस्रुतः कुम्भ आ दध्नः कलशैरगुः ॥७॥
आ इमाम् कुमारः तरुणः आ वत्सः जगता सह ।आ इमाम् परिस्रुतः कुम्भे आ दध्नः कलशैः अगुः ॥७॥
ā imām kumāraḥ taruṇaḥ ā vatsaḥ jagatā saha .ā imām parisrutaḥ kumbhe ā dadhnaḥ kalaśaiḥ aguḥ ..7..

पूर्णं नारि प्र भर कुम्भमेतं घृतस्य धाराममृतेन संभृताम् ।इमां पातॄन् अमृतेन समङ्ग्धीष्टापूर्तमभि रक्षात्येनाम् ॥८॥
पूर्णम् नारि प्र भर कुम्भम् एतम् घृतस्य धाराम् अमृतेन संभृताम् ।इमाम् पातॄन् अमृतेन समङ्ग्धि इष्टापूर्तम् अभि रक्षाति एनाम् ॥८॥
pūrṇam nāri pra bhara kumbham etam ghṛtasya dhārām amṛtena saṃbhṛtām .imām pātṝn amṛtena samaṅgdhi iṣṭāpūrtam abhi rakṣāti enām ..8..

इमा आपः प्र भराम्ययक्ष्मा यक्ष्मनाशनीः ।गृहान् उप प्र सीदाम्यमृतेन सहाग्निना ॥९॥
इमाः आपः प्र भरामि अयक्ष्माः यक्ष्म-नाशनीः ।गृहान् उप प्र सीदामि अमृतेन सह अग्निना ॥९॥
imāḥ āpaḥ pra bharāmi ayakṣmāḥ yakṣma-nāśanīḥ .gṛhān upa pra sīdāmi amṛtena saha agninā ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In