| |
|

This overlay will guide you through the buttons:

सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक्।धीरा देवेषु सुम्नयौ ॥१॥
सीरा युञ्जन्ति कवयः युगा वि तन्वते पृथक्।धीराः देवेषु सुम्नयौ ॥१॥
sīrā yuñjanti kavayaḥ yugā vi tanvate pṛthak.dhīrāḥ deveṣu sumnayau ..1..

युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह बीजम् ।विराजः श्नुष्टिः सभरा असन् नो नेदीय इत्सृण्यः पक्वमा यवन् ॥२॥
युनक्त सीरा वि युगा तनोत कृते योनौ वपत इह बीजम् ।विराजः श्नुष्टिः सभराः असत् नः नेदीयः इत्सृण्यः पक्वमाः यवन् ॥२॥
yunakta sīrā vi yugā tanota kṛte yonau vapata iha bījam .virājaḥ śnuṣṭiḥ sabharāḥ asat naḥ nedīyaḥ itsṛṇyaḥ pakvamāḥ yavan ..2..

लाङ्गलं पवीरवत्सुशीमं सोमसत्सरु ।उदिद्वपतु गामविं प्रस्थावद्रथवाहनं पीबरीं च प्रफर्व्यम् ॥३॥
लाङ्गलम् पवीरवत् सुशीमम् सोम-सत्-सरु ।उदिद्वपतु गाम् अविम् प्रस्थावत्-रथवाहनम् पीबरीम् च प्रफर्व्यम् ॥३॥
lāṅgalam pavīravat suśīmam soma-sat-saru .udidvapatu gām avim prasthāvat-rathavāhanam pībarīm ca prapharvyam ..3..

इन्द्रः सीतां नि गृह्णातु तां पूषाभि रक्षतु ।सा नः पयस्वती दुहामुत्तरामुत्तरां समाम् ॥४॥
इन्द्रः सीताम् नि गृह्णातु ताम् पूषा अभि रक्षतु ।सा नः पयस्वती दुहाम् उत्तराम् उत्तराम् समाम् ॥४॥
indraḥ sītām ni gṛhṇātu tām pūṣā abhi rakṣatu .sā naḥ payasvatī duhām uttarām uttarām samām ..4..

शुनं सुफाला वि तुदन्तु भूमिं शुनं कीनाशा अनु यन्तु वाहान् ।शुनासीरा हविषा तोशमाना सुपिप्पला ओषधीः कर्तमस्मै ॥५॥
शुनम् सु फालाः वि तुदन्तु भूमिम् शुनम् कीनाशाः अनु यन्तु वाहान् ।शुनासीरा हविषा तोशमाना सु पिप्पलाः ओषधीः कर्तम् अस्मै ॥५॥
śunam su phālāḥ vi tudantu bhūmim śunam kīnāśāḥ anu yantu vāhān .śunāsīrā haviṣā tośamānā su pippalāḥ oṣadhīḥ kartam asmai ..5..

शुनं वाहाः शुनं नरः शुनं कृषतु लाङ्गलम् ।शुनं वरत्रा बध्यन्तां शुनमष्ट्रामुदिङ्गय ॥६॥
शुनम् वाहाः शुनम् नरः शुनम् कृषतु लाङ्गलम् ।शुनम् वरत्राः बध्यन्ताम् शुनम् अष्ट्राम् उदिङ्गय ॥६॥
śunam vāhāḥ śunam naraḥ śunam kṛṣatu lāṅgalam .śunam varatrāḥ badhyantām śunam aṣṭrām udiṅgaya ..6..

शुनासीरेह स्म मे जुषेथाम् ।यद्दिवि चक्रथुः पयस्तेनेमामुप सिञ्चतम् ॥७॥
शुनासीरा इह स्म मे जुषेथाम् ।यत् दिवि चक्रथुः पयः तेन इमाम् उप सिञ्चतम् ॥७॥
śunāsīrā iha sma me juṣethām .yat divi cakrathuḥ payaḥ tena imām upa siñcatam ..7..

सीते वन्दामहे त्वार्वाची सुभगे भव ।यथा नः सुमना असो यथा नः सुफला भुवः ॥८॥
सीते वन्दामहे त्वा अर्वाची सुभगे भव ।यथा नः सुमनाः असः यथा नः सु फला भुवः ॥८॥
sīte vandāmahe tvā arvācī subhage bhava .yathā naḥ sumanāḥ asaḥ yathā naḥ su phalā bhuvaḥ ..8..

घृतेन सीता मधुना समक्ता विश्वैर्देवैरनुमता मरुद्भिः ।सा नः सीते पयसाभ्याववृत्स्वोर्जस्वती घृतवत्पिन्वमाना ॥९॥
घृतेन सीता मधुना समक्ता विश्वैः देवैः अनुमता मरुद्भिः ।सा नः सीते पयसा अभ्याववृत्स्व ऊर्जस्वती घृतवत् पिन्वमाना ॥९॥
ghṛtena sītā madhunā samaktā viśvaiḥ devaiḥ anumatā marudbhiḥ .sā naḥ sīte payasā abhyāvavṛtsva ūrjasvatī ghṛtavat pinvamānā ..9..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In