| |
|

This overlay will guide you through the buttons:

संशितं म इदं ब्रह्म संशितं वीर्यं बलम् ।संशितं क्षत्रमजरमस्तु जिष्णुर्येषामस्मि पुरोहितः ॥१॥
संशितम् मे इदम् ब्रह्म संशितम् वीर्यम् बलम् ।संशितम् क्षत्रम् अजरम् अस्तु जिष्णुः येषाम् अस्मि पुरोहितः ॥१॥
saṃśitam me idam brahma saṃśitam vīryam balam .saṃśitam kṣatram ajaram astu jiṣṇuḥ yeṣām asmi purohitaḥ ..1..

समहमेषां राष्ट्रं स्यामि समोजो वीर्यं बलम् ।वृश्चामि शत्रूणां बाहून् अनेन हविषा अहम् ॥२॥
सम् अहम् एषाम् राष्ट्रम् स्यामि सम् ओजः वीर्यम् बलम् ।वृश्चामि शत्रूणाम् बाहून् अनेन हविषा अहम् ॥२॥
sam aham eṣām rāṣṭram syāmi sam ojaḥ vīryam balam .vṛścāmi śatrūṇām bāhūn anena haviṣā aham ..2..

नीचैः पद्यन्तामधरे भवन्तु ये नः सूरिं मघवानं पृतन्यान् ।क्षिणामि ब्रह्मणामित्रान् उन् नयामि स्वान् अहम् ॥३॥
नीचैस् पद्यन्ताम् अधरे भवन्तु ये नः सूरिम् मघवानम् पृतन्यान् ।क्षिणामि ब्रह्मणा अमित्रान् उद् नयामि स्वान् अहम् ॥३॥
nīcais padyantām adhare bhavantu ye naḥ sūrim maghavānam pṛtanyān .kṣiṇāmi brahmaṇā amitrān ud nayāmi svān aham ..3..

तीक्ष्णीयांसः परशोरग्नेस्तीक्ष्णतरा उत ।इन्द्रस्य वज्रात्तीक्ष्णीयांसो येषामस्मि पुरोहितः ॥४॥
तीक्ष्णीयांसः परशोः अग्नेः तीक्ष्णतराः उत ।इन्द्रस्य वज्रात् तीक्ष्णीयांसः येषाम् अस्मि पुरोहितः ॥४॥
tīkṣṇīyāṃsaḥ paraśoḥ agneḥ tīkṣṇatarāḥ uta .indrasya vajrāt tīkṣṇīyāṃsaḥ yeṣām asmi purohitaḥ ..4..

एषामहमायुधा सं स्याम्येषां राष्ट्रं सुवीरं वर्धयामि ।एषां क्षत्रमजरमस्तु जिष्ण्वेषां चित्तं विश्वेऽवन्तु देवाः ॥५॥
एषाम् अहम् आयुधा सम् स्यामि एषाम् राष्ट्रम् सु वीरम् वर्धयामि ।एषाम् क्षत्रम् अजरम् अस्तु जिष्णु एषाम् चित्तम् विश्वे अवन्तु देवाः ॥५॥
eṣām aham āyudhā sam syāmi eṣām rāṣṭram su vīram vardhayāmi .eṣām kṣatram ajaram astu jiṣṇu eṣām cittam viśve avantu devāḥ ..5..

उद्धर्षन्तां मघवन् वाजिनान्युद्वीराणां जयतामेतु घोषः ।पृथग्घोषा उलुलयः केतुमन्त उदीरताम् ।देवा इन्द्रज्येष्ठा मरुतो यन्तु सेनया ॥६॥
उद् हर्षन्ताम् मघवन् वाजिनानि उद् वीराणाम् जयताम् एतु घोषः ।पृथक् घोषाः उलुलयः केतुमन्तः उदीरताम् ।देवाः इन्द्र-ज्येष्ठाः मरुतः यन्तु सेनया ॥६॥
ud harṣantām maghavan vājināni ud vīrāṇām jayatām etu ghoṣaḥ .pṛthak ghoṣāḥ ululayaḥ ketumantaḥ udīratām .devāḥ indra-jyeṣṭhāḥ marutaḥ yantu senayā ..6..

प्रेता जयता नर उग्रा वः सन्तु बाहवः ।तीक्ष्णेषवोऽबलधन्वनो हतोग्रायुधा अबलान् उग्रबाहवः ॥७॥
प्र इत जयत नरः उग्राः वः सन्तु बाहवः ।तीक्ष्ण-इषवः अबल-धन्वनः हत-उग्र-आयुधाः अबलान् उग्र-बाहवः ॥७॥
pra ita jayata naraḥ ugrāḥ vaḥ santu bāhavaḥ .tīkṣṇa-iṣavaḥ abala-dhanvanaḥ hata-ugra-āyudhāḥ abalān ugra-bāhavaḥ ..7..

अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।जय अमित्रान् प्र पद्यस्व जह्येषां वरंवरं मामीषां मोचि कश्चन ॥८॥
अवसृष्टा परा पत शरव्ये ब्रह्म-संशिते ।जय अमित्रान् प्र पद्यस्व जहि एषाम् वरम् वरम् मा अमीषाम् मोचि कश्चन ॥८॥
avasṛṣṭā parā pata śaravye brahma-saṃśite .jaya amitrān pra padyasva jahi eṣām varam varam mā amīṣām moci kaścana ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In