| |
|

This overlay will guide you through the buttons:

अग्निर्नो दूतः प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।स चित्तानि मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥१॥
अग्निः नः दूतः प्रत्येतु विद्वान् प्रतिदहन् अभिशस्तिम् अरातिम् ।स चित्तानि मोहयतु परेषाम् निर्हस्तान् च कृणवत् जातवेदाः ॥१॥
agniḥ naḥ dūtaḥ pratyetu vidvān pratidahan abhiśastim arātim .sa cittāni mohayatu pareṣām nirhastān ca kṛṇavat jātavedāḥ ..1..

अयमग्निरमूमुहद्यानि चित्तानि वो हृदि ।वि वो धमत्वोकसः प्र वो धमतु सर्वतः ॥२॥
अयम् अग्निः अमूमुहत् यानि चित्तानि वः हृदि ।वि वः धमतु ओकसः प्र वः धमतु सर्वतस् ॥२॥
ayam agniḥ amūmuhat yāni cittāni vaḥ hṛdi .vi vaḥ dhamatu okasaḥ pra vaḥ dhamatu sarvatas ..2..

इन्द्र चित्तानि मोहयन्न् अर्वाङाकूत्या चर ।अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥३॥
इन्द्र चित्तानि मोहयन् अर्वाङ् आकूत्या चर ।अग्नेः वातस्य ध्राज्या तान् विषूचः वि नाशय ॥३॥
indra cittāni mohayan arvāṅ ākūtyā cara .agneḥ vātasya dhrājyā tān viṣūcaḥ vi nāśaya ..3..

व्याकूतय एषामिताथो चित्तानि मुह्यत ।अथो यदद्यैषां हृदि तदेषां परि निर्जहि ॥४॥
व्याकूतयः चित्तानि मुह्यत ।अथ उ यत् अद्य एषाम् हृदि तत् एषाम् परि निर्जहि ॥४॥
vyākūtayaḥ cittāni muhyata .atha u yat adya eṣām hṛdi tat eṣām pari nirjahi ..4..

अमीषां चित्तानि प्रतिमोहयन्ती गृहाणाङ्गान्यप्वे परेहि ।अभि प्रेहि निर्दह हृत्सु शोकैर्ग्राह्यामित्रांस्तमसा विध्य शत्रून् ॥५॥
अमीषाम् चित्तानि प्रतिमोहयन्ती गृहाण अङ्गानि अप्वे परेहि ।अभि प्रेहि निर्दह हृत्सु शोकैः ग्राह्य अमित्रान् तमसा विध्य शत्रून् ॥५॥
amīṣām cittāni pratimohayantī gṛhāṇa aṅgāni apve parehi .abhi prehi nirdaha hṛtsu śokaiḥ grāhya amitrān tamasā vidhya śatrūn ..5..

असौ या सेना मरुतः परेषामस्मान् ऐत्यभ्योजसा स्पर्धमाना ।तां विध्यत तमसापव्रतेन यथैषामन्यो अन्यं न जानात्॥६॥
असौ या सेना मरुतः परेषाम् अस्मान् ऐति अभि ओजसा स्पर्धमाना ।ताम् विध्यत तमसा अपव्रतेन यथा एषाम् अन्यः अन्यम् न जानात्॥६॥
asau yā senā marutaḥ pareṣām asmān aiti abhi ojasā spardhamānā .tām vidhyata tamasā apavratena yathā eṣām anyaḥ anyam na jānāt..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In