| |
|

This overlay will guide you through the buttons:

ये अग्नयो अप्स्वन्तर्ये वृत्रे ये पुरुषे ये अश्मसु ।य आविवेशोषधीर्यो वनस्पतींस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥१॥
ये अग्नयः अप्सु अन्तर्ये वृत्रे ये पुरुषे ये अश्मसु ।यः आविवेश ओषधीः यः वनस्पतीन् तेभ्यः अग्निभ्यः हुतम् अस्तु एतत्॥१॥
ye agnayaḥ apsu antarye vṛtre ye puruṣe ye aśmasu .yaḥ āviveśa oṣadhīḥ yaḥ vanaspatīn tebhyaḥ agnibhyaḥ hutam astu etat..1..

यः सोमे अन्तर्यो गोष्वन्तर्य आविष्टो वयःसु यो मृगेषु ।य आविवेश द्विपदो यस्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥२॥
यः सोमे अन्तर्यः गोषु अन्तर्यः आविष्टः वयःसु यः मृगेषु ।यः आविवेश द्विपदः यः चतुष्पदः तेभ्यः अग्निभ्यः हुतम् अस्तु एतत्॥२॥
yaḥ some antaryaḥ goṣu antaryaḥ āviṣṭaḥ vayaḥsu yaḥ mṛgeṣu .yaḥ āviveśa dvipadaḥ yaḥ catuṣpadaḥ tebhyaḥ agnibhyaḥ hutam astu etat..2..

य इन्द्रेण सरथं याति देवो वैश्वानर उत विश्वदाव्यः ।यं जोहवीमि पृतनासु सासहिं तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥३॥
यः इन्द्रेण स रथम् याति देवः वैश्वानरः उत विश्वदाव्यः ।यम् जोहवीमि पृतनासु सासहिम् तेभ्यः अग्निभ्यः हुतम् अस्तु एतत्॥३॥
yaḥ indreṇa sa ratham yāti devaḥ vaiśvānaraḥ uta viśvadāvyaḥ .yam johavīmi pṛtanāsu sāsahim tebhyaḥ agnibhyaḥ hutam astu etat..3..

यो देवो विश्वाद्यमु काममाहुर्यं दातारं प्रतिगृह्णन्तमाहुः ।यो धीरः शक्रः परिभूरदाभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥४॥
यः देवः विश्व-अद्य अमु कामम् आहुः यम् दातारम् प्रतिगृह्णन्तम् आहुः ।यः धीरः शक्रः परिभूः अदाभ्यः तेभ्यः अग्निभ्यः हुतम् अस्तु एतत्॥४॥
yaḥ devaḥ viśva-adya amu kāmam āhuḥ yam dātāram pratigṛhṇantam āhuḥ .yaḥ dhīraḥ śakraḥ paribhūḥ adābhyaḥ tebhyaḥ agnibhyaḥ hutam astu etat..4..

यं त्वा होतारं मनसाभि संविदुस्त्रयोदश भौवनाः पञ्च मानवाः ।वर्चोधसे यशसे सूनृतावते तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥५॥
यम् त्वा होतारम् मनसा अभि संविदुः त्रयोदश भौवनाः पञ्च मानवाः ।वर्चः-धसे यशसे सूनृतावते तेभ्यः अग्निभ्यः हुतम् अस्तु एतत्॥५॥
yam tvā hotāram manasā abhi saṃviduḥ trayodaśa bhauvanāḥ pañca mānavāḥ .varcaḥ-dhase yaśase sūnṛtāvate tebhyaḥ agnibhyaḥ hutam astu etat..5..

उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।वैश्वानरज्येष्ठेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥६॥
उक्ष-अन्नाय वशा-अन्नाय सोम-पृष्ठाय वेधसे ।वैश्वानर-ज्येष्ठेभ्यः तेभ्यः अग्निभ्यः हुतम् अस्तु एतत्॥६॥
ukṣa-annāya vaśā-annāya soma-pṛṣṭhāya vedhase .vaiśvānara-jyeṣṭhebhyaḥ tebhyaḥ agnibhyaḥ hutam astu etat..6..

दिवं पृथिवीमन्वन्तरिक्षं ये विद्युतमनुसंचरन्ति ।ये दिक्ष्वन्तर्ये वाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत्॥७॥
दिवम् पृथिवीम् अनु अन्तरिक्षम् ये विद्युतम् अनुसंचरन्ति ।ये दिक्षु अन्तर् ये वाते अन्तर् तेभ्यः अग्निभ्यः हुतम् अस्तु एतत्॥७॥
divam pṛthivīm anu antarikṣam ye vidyutam anusaṃcaranti .ye dikṣu antar ye vāte antar tebhyaḥ agnibhyaḥ hutam astu etat..7..

हिरण्यपाणिं सवितारमिन्द्रं बृहस्पतिं वरुणं मित्रमग्निम् ।विश्वान् देवान् अङ्गिरसो हवामहे इमं क्रव्यादं शमयन्त्वग्निम् ॥८॥
हिरण्य-पाणिम् सवितारम् इन्द्रम् बृहस्पतिम् वरुणम् मित्रम् अग्निम् ।विश्वान् देवान् अङ्गिरसः हवामहे इमम् क्रव्यादम् शमयन्तु अग्निम् ॥८॥
hiraṇya-pāṇim savitāram indram bṛhaspatim varuṇam mitram agnim .viśvān devān aṅgirasaḥ havāmahe imam kravyādam śamayantu agnim ..8..

शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः ।अथो यो विश्वदाव्यस्तं क्रव्यादमशीशमम् ॥९॥
शान्तः अग्निः क्रव्याद् शान्तः पुरुष-रेषणः ।अथो यः विश्वदा अव्यः तम् क्रव्यादम् अशीशमम् ॥९॥
śāntaḥ agniḥ kravyād śāntaḥ puruṣa-reṣaṇaḥ .atho yaḥ viśvadā avyaḥ tam kravyādam aśīśamam ..9..

ये पर्वताः सोमपृष्ठा आप उत्तानशीवरीः ।वातः पर्जन्य आदग्निस्ते क्रव्यादमशीशमन् ॥१०॥
ये पर्वताः सोम-पृष्ठाः आपः उत्तान-शीवरीः ।वातः पर्जन्यः आत् अग्निः ते क्रव्यादम् अशीशमन् ॥१०॥
ye parvatāḥ soma-pṛṣṭhāḥ āpaḥ uttāna-śīvarīḥ .vātaḥ parjanyaḥ āt agniḥ te kravyādam aśīśaman ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In