| |
|

This overlay will guide you through the buttons:

हस्तिवर्चसं प्रथतां बृहद्यशो अदित्या यत्तन्वः संबभूव ।तत्सर्वे समदुर्मह्यमेतद्विश्वे देवा अदितिः सजोषाः ॥१॥
हस्ति-वर्चसम् प्रथताम् बृहत् यशः अदित्याः यत् तन्वः संबभूव ।तत् सर्वे समदुः मह्यम् एतत् विश्वे देवाः अदितिः सजोषाः ॥१॥
hasti-varcasam prathatām bṛhat yaśaḥ adityāḥ yat tanvaḥ saṃbabhūva .tat sarve samaduḥ mahyam etat viśve devāḥ aditiḥ sajoṣāḥ ..1..

मित्रश्च वरुणश्चेन्द्रो रुद्रश्च चेततु ।देवासो विश्वधायसस्ते माञ्जन्तु वर्चसा ॥२॥
मित्रः च वरुणः च इन्द्रः रुद्रः च चेततु ।देवासः विश्व-धायसः ते मा अञ्जन्तु वर्चसा ॥२॥
mitraḥ ca varuṇaḥ ca indraḥ rudraḥ ca cetatu .devāsaḥ viśva-dhāyasaḥ te mā añjantu varcasā ..2..

येन हस्ती वर्चसा संबभूव येन राजा मनुष्येस्वप्स्वन्तः ।येन देवा देवतामग्र आयन् तेन मामद्य वर्चसाग्ने वर्चस्विनं कृणु ॥३॥
येन हस्ती वर्चसा संबभूव येन राजा मनुष्येसु अप्सु अन्तः ।येन देवाः देव-ताम् अग्रे आयन् तेन माम् अद्य वर्चसा अग्ने वर्चस्विनम् कृणु ॥३॥
yena hastī varcasā saṃbabhūva yena rājā manuṣyesu apsu antaḥ .yena devāḥ deva-tām agre āyan tena mām adya varcasā agne varcasvinam kṛṇu ..3..

यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः ।यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः ।तावन् मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥४॥
यत् ते वर्चः जातवेदः बृहत् भवति आहुतेः ।यावत् सूर्यस्य वर्चः आसुरस्य च हस्तिनः ।तावत् मे अश्विना वर्चः आ धत्ताम् पुष्करस्रजा ॥४॥
yat te varcaḥ jātavedaḥ bṛhat bhavati āhuteḥ .yāvat sūryasya varcaḥ āsurasya ca hastinaḥ .tāvat me aśvinā varcaḥ ā dhattām puṣkarasrajā ..4..

यावच्चतस्रः प्रदिशश्चक्षुर्यावत्समश्नुते ।तावत्समैत्विन्द्रियं मयि तद्धस्तिवर्चसम् ॥५॥
यावत् चतस्रः प्रदिशः चक्षुः यावत् समश्नुते ।तावत् समैतु इन्द्रियम् मयि तत् हस्ति-वर्चसम् ॥५॥
yāvat catasraḥ pradiśaḥ cakṣuḥ yāvat samaśnute .tāvat samaitu indriyam mayi tat hasti-varcasam ..5..

हस्ती मृगाणां सुषदामतिष्ठावान् बभूव हि ।तस्य भगेन वर्चसाभि षिञ्चामि मामहम् ॥६॥
हस्ती मृगाणाम् सुषदाम् अतिष्ठावान् बभूव हि ।तस्य भगेन वर्चसा अभि सिञ्चामि माम् अहम् ॥६॥
hastī mṛgāṇām suṣadām atiṣṭhāvān babhūva hi .tasya bhagena varcasā abhi siñcāmi mām aham ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In