| |
|

This overlay will guide you through the buttons:

येन वेहद्बभूविथ नाशयामसि तत्त्वत्।इदं तदन्यत्र त्वदप दूरे नि दध्मसि ॥१॥
येन वेहत् बभूविथ नाशयामसि तत् त्वत्।इदम् तत् अन्यत्र त्वत् अप दूरे नि दध्मसि ॥१॥
yena vehat babhūvitha nāśayāmasi tat tvat.idam tat anyatra tvat apa dūre ni dadhmasi ..1..

आ ते योनिं गर्भ एतु पुमान् बाण इवेषुधिम् ।आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥२॥
आ ते योनिम् गर्भः एतु पुमान् बाणः इव इषुधिम् ।आ वीरः अत्र जायताम् पुत्रः ते दशमास्यः ॥२॥
ā te yonim garbhaḥ etu pumān bāṇaḥ iva iṣudhim .ā vīraḥ atra jāyatām putraḥ te daśamāsyaḥ ..2..

पुमांसं पुत्रं जनय तं पुमान् अनु जायताम् ।भवासि पुत्राणां माता जातानां जनयाश्च यान् ॥३॥
पुमांसम् पुत्रम् जनय तम् पुमान् अनु जायताम् ।भवासि पुत्राणाम् माता जातानाम् जनयाः च यान् ॥३॥
pumāṃsam putram janaya tam pumān anu jāyatām .bhavāsi putrāṇām mātā jātānām janayāḥ ca yān ..3..

यानि बद्राणि बीजान्यृषभा जनयन्ति च ।तैस्त्वं पुत्रं विन्दस्व सा प्रसूर्धेनुका भव ॥४॥
यानि बद्राणि बीजानि ऋषभाः जनयन्ति च ।तैः त्वम् पुत्रम् विन्दस्व सा प्रसूः धेनुका भव ॥४॥
yāni badrāṇi bījāni ṛṣabhāḥ janayanti ca .taiḥ tvam putram vindasva sā prasūḥ dhenukā bhava ..4..

कृणोमि ते प्राजापत्यमा योनिं गर्भ एतु ते ।विन्दस्व त्वं पुत्रं नारि यस्तुभ्यं शमसच्छमु तस्मै त्वं भव ॥५॥
कृणोमि ते प्राजापत्यम् आ योनिम् गर्भः एतु ते ।विन्दस्व त्वम् पुत्रम् नारि यः तुभ्यम् शमसद् शमु तस्मै त्वम् भव ॥५॥
kṛṇomi te prājāpatyam ā yonim garbhaḥ etu te .vindasva tvam putram nāri yaḥ tubhyam śamasad śamu tasmai tvam bhava ..5..

यासां द्यौः पिता पृथिवी माता समुद्रो मूलं वीरुधां बभूव ।तास्त्वा पुत्रविद्याय दैवीः प्रावन्त्वोषधयः ॥६॥
यासाम् द्यौः पिता पृथिवी माता समुद्रः मूलम् वीरुधाम् बभूव ।ताः त्वा पुत्र-विद्याय दैवीः प्रावन्तु ओषधयः ॥६॥
yāsām dyauḥ pitā pṛthivī mātā samudraḥ mūlam vīrudhām babhūva .tāḥ tvā putra-vidyāya daivīḥ prāvantu oṣadhayaḥ ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In