| |
|

This overlay will guide you through the buttons:

पयस्वतीरोषधयः पयस्वन् मामकं वचः ।अथो पयस्वतीनामा भरेऽहं सहस्रशः ॥१॥
पयस्वतीः ओषधयः पयस्वत् मामकम् वचः ।अथो पयस्वती-नामा भरे अहम् सहस्रशस् ॥१॥
payasvatīḥ oṣadhayaḥ payasvat māmakam vacaḥ .atho payasvatī-nāmā bhare aham sahasraśas ..1..

वेदाहं पयस्वन्तं चकार धान्यं बहु ।संभृत्वा नाम यो देवस्तं वयं हवामहे योयो अयज्वनो गृहे ॥२॥
वेद अहम् पयस्वन्तम् चकार धान्यम् बहु ।संभृत्वा नाम यः देवः तम् वयम् हवामहे यः यः अयज्वनः गृहे ॥२॥
veda aham payasvantam cakāra dhānyam bahu .saṃbhṛtvā nāma yaḥ devaḥ tam vayam havāmahe yaḥ yaḥ ayajvanaḥ gṛhe ..2..

इमा याः पञ्च प्रदिशो मानवीः पञ्च कृष्टयः ।वृष्टे शापं नदीरिवेह स्फातिं समावहान् ॥३॥
इमाः याः पञ्च प्रदिशः मानवीः पञ्च कृष्टयः ।वृष्टे शापम् नदीः इव इह स्फातिम् समावहान् ॥३॥
imāḥ yāḥ pañca pradiśaḥ mānavīḥ pañca kṛṣṭayaḥ .vṛṣṭe śāpam nadīḥ iva iha sphātim samāvahān ..3..

उदुत्सं शतधारं सहस्रधारमक्षितम् ।एवास्माकेदं धान्यं सहस्रधारमक्षितम् ॥४॥
उदुत्सम् शत-धारम् सहस्र-धारम् अक्षितम् ।एव अस्माक-इदम् धान्यम् सहस्र-धारम् अक्षितम् ॥४॥
udutsam śata-dhāram sahasra-dhāram akṣitam .eva asmāka-idam dhānyam sahasra-dhāram akṣitam ..4..

शतहस्त समाहर सहस्रहस्त सं किर ।कृतस्य कार्यस्य चेह स्फातिं समावह ॥५॥
शत-हस्त समाहर सहस्र-हस्त सम् किर ।कृतस्य कार्यस्य च इह स्फातिम् समावह ॥५॥
śata-hasta samāhara sahasra-hasta sam kira .kṛtasya kāryasya ca iha sphātim samāvaha ..5..

तिस्रो मात्रा गन्धर्वाणां चतस्रो गृहपत्न्याः ।तासां या स्फातिमत्तमा तया त्वाभि मृशामसि ॥६॥
तिस्रः मात्राः गन्धर्वाणाम् चतस्रः गृह-पत्न्याः ।तासाम् या स्फातिमत्तमा तया त्वा अभि मृशामसि ॥६॥
tisraḥ mātrāḥ gandharvāṇām catasraḥ gṛha-patnyāḥ .tāsām yā sphātimattamā tayā tvā abhi mṛśāmasi ..6..

उपोहश्च समूहश्च क्षत्तारौ ते प्रजापते ।ताविहा वहतां स्फातिं बहुं भूमानमक्षितम् ॥७॥
उपोहः च समूहः च क्षत्तारौ ते प्रजापते ।तौ इह आ वहताम् स्फातिम् बहुम् भूमानम् अक्षितम् ॥७॥
upohaḥ ca samūhaḥ ca kṣattārau te prajāpate .tau iha ā vahatām sphātim bahum bhūmānam akṣitam ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In