| |
|

This overlay will guide you through the buttons:

उत्तुदस्त्वोत्तुदतु मा धृथाः शयने स्वे ।इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥१॥
उत्तुदः त्वा उत्तुदतु मा धृथाः शयने स्वे ।इषुः कामस्य या भीमा तया विध्यामि त्वा हृदि ॥१॥
uttudaḥ tvā uttudatu mā dhṛthāḥ śayane sve .iṣuḥ kāmasya yā bhīmā tayā vidhyāmi tvā hṛdi ..1..

आधीपर्णां कामशल्यामिषुं संकल्पकुल्मलाम् ।तां सुसंनतां कृत्वा कामो विध्यतु त्वा हृदि ॥२॥
आधीपर्णाम् काम-शल्याम् इषुम् संकल्प-कुल्मलाम् ।ताम् सु संनताम् कृत्वा कामः विध्यतु त्वा हृदि ॥२॥
ādhīparṇām kāma-śalyām iṣum saṃkalpa-kulmalām .tām su saṃnatām kṛtvā kāmaḥ vidhyatu tvā hṛdi ..2..

या प्लीहानं शोषयति कामस्येषुः सुसंनता ।प्राचीनपक्षा व्योषा तया विध्यामि त्वा हृदि ॥३॥
या प्लीहानम् शोषयति कामस्य इषुः सु संनता ।प्राचीन-पक्षा व्योषा तया विध्यामि त्वा हृदि ॥३॥
yā plīhānam śoṣayati kāmasya iṣuḥ su saṃnatā .prācīna-pakṣā vyoṣā tayā vidhyāmi tvā hṛdi ..3..

शुचा विद्धा व्योषया शुष्कास्याभि सर्प मा ।मृदुर्निमन्युः केवली प्रियवादिन्यनुव्रता ॥४॥
शुचा विद्धा व्योषया शुष्क-आस्या अभि सर्प मा ।मृदुः निमन्युः केवली प्रिय-वादिनी अनुव्रता ॥४॥
śucā viddhā vyoṣayā śuṣka-āsyā abhi sarpa mā .mṛduḥ nimanyuḥ kevalī priya-vādinī anuvratā ..4..

आजामि त्वाजन्या परि मातुरथो पितुः ।यथा मम क्रतावसो मम चित्तमुपायसि ॥५॥
आजामि त्वा अजन्या परि मातुः अथ उ पितुः ।यथा मम क्रतावसो मम चित्तम् उपायसि ॥५॥
ājāmi tvā ajanyā pari mātuḥ atha u pituḥ .yathā mama kratāvaso mama cittam upāyasi ..5..

व्यस्यै मित्रावरुणौ हृदश्चित्तान्यस्यतम् ।अथैनामक्रतुं कृत्वा ममैव कृणुतं वशे ॥६॥
व्यस्यै मित्रावरुणौ हृदः चित्तानि अस्यतम् ।अथ एनाम् अक्रतुम् कृत्वा मम एव कृणुतम् वशे ॥६॥
vyasyai mitrāvaruṇau hṛdaḥ cittāni asyatam .atha enām akratum kṛtvā mama eva kṛṇutam vaśe ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In