| |
|

This overlay will guide you through the buttons:

एकैकयैषा सृष्ट्या सं बभूव यत्र गा असृजन्त भूतकृतो विश्वरूपाः ।यत्र विजायते यमिन्यपर्तुः सा पशून् क्षिणाति रिफती रुशती ॥१॥
एकैकया एषा सृष्ट्या सम् बभूव यत्र गाः असृजन्त भूत-कृतः विश्व-रूपाः ।यत्र विजायते यमिनी अपर्तुः सा पशून् क्षिणाति रिफती रुशती ॥१॥
ekaikayā eṣā sṛṣṭyā sam babhūva yatra gāḥ asṛjanta bhūta-kṛtaḥ viśva-rūpāḥ .yatra vijāyate yaminī apartuḥ sā paśūn kṣiṇāti riphatī ruśatī ..1..

एषा पशून्त्सं क्षिणाति क्रव्याद्भूत्वा व्यद्वरी ।उतैनां ब्रह्मणे दद्यात्तथा स्योना शिवा स्यात्॥२॥
एषा पशून् सम् क्षिणाति क्रव्याद् भूत्वा व्यद्वरी ।उत एनाम् ब्रह्मणे दद्यात् तथा स्योना शिवा स्यात्॥२॥
eṣā paśūn sam kṣiṇāti kravyād bhūtvā vyadvarī .uta enām brahmaṇe dadyāt tathā syonā śivā syāt..2..

शिवा भव पुरुषेभ्यो गोभ्यो अश्वेभ्यः शिवा ।शिवास्मै सर्वस्मै क्षेत्राय शिवा न इहैधि ॥३॥
शिवा भव पुरुषेभ्यः गोभ्यः अश्वेभ्यः शिवा ।शिवा अस्मै सर्वस्मै क्षेत्राय शिवा नः इह एधि ॥३॥
śivā bhava puruṣebhyaḥ gobhyaḥ aśvebhyaḥ śivā .śivā asmai sarvasmai kṣetrāya śivā naḥ iha edhi ..3..

इह पुष्टिरिह रस इह सहस्रसातमा भव ।पशून् यमिनि पोषय ॥४॥
इह पुष्टिः इह रसः इह सहस्र-सातमा भव ।पशून् यमिनि पोषय ॥४॥
iha puṣṭiḥ iha rasaḥ iha sahasra-sātamā bhava .paśūn yamini poṣaya ..4..

यत्रा सुहार्दः सुकृतो मदन्ति विहाय रोगं तन्वः स्वायाः ।तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥५॥
यत्र सुहार्दः सु कृतः मदन्ति विहाय रोगम् तन्वः स्वायाः ।तम् लोकम् यमिनी अभिसंबभूव सा नः मा हिंसीत् पुरुषान् पशून् च ॥५॥
yatra suhārdaḥ su kṛtaḥ madanti vihāya rogam tanvaḥ svāyāḥ .tam lokam yaminī abhisaṃbabhūva sā naḥ mā hiṃsīt puruṣān paśūn ca ..5..

यत्रा सुहार्दां सुकृतामग्निहोत्रहुतां यत्र लोकः ।तं लोकं यमिन्यभिसंबभूव सा नो मा हिंसीत्पुरुषान् पशूंश्च ॥६॥
यत्र सुहार्दाम् सु कृताम् अग्निहोत्र-हुताम् यत्र लोकः ।तम् लोकम् यमिनी अभिसंबभूव सा नः मा हिंसीत् पुरुषान् पशून् च ॥६॥
yatra suhārdām su kṛtām agnihotra-hutām yatra lokaḥ .tam lokam yaminī abhisaṃbabhūva sā naḥ mā hiṃsīt puruṣān paśūn ca ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In