| |
|

This overlay will guide you through the buttons:

अचिक्रदत्स्वपा इह भुवदग्ने व्यचस्व रोदसी उरूची ।युञ्जन्तु त्वा मरुतो विश्ववेदस आमुं नय नमसा रातहव्यम् ॥१॥
अचिक्रदत्-सु अपाः इह भुवत् अग्ने व्यचस्व रोदसी उरूची ।युञ्जन्तु त्वा मरुतः विश्व-वेदसः आ अमुम् नय नमसा रात-हव्यम् ॥१॥
acikradat-su apāḥ iha bhuvat agne vyacasva rodasī urūcī .yuñjantu tvā marutaḥ viśva-vedasaḥ ā amum naya namasā rāta-havyam ..1..

दूरे चित्सन्तमरुषास इन्द्रमा च्यावयन्तु सख्याय विप्रम् ।यद्गायत्रीं बृहतीमर्कमस्मै सौत्रामण्या दधृषन्त देवाः ॥२॥
दूरे चित् सन्तम् अरुषासः इन्द्रम् आ च्यावयन्तु सख्याय विप्रम् ।यत् गायत्रीम् बृहतीम् अर्कम् अस्मै सौत्रामण्या दधृषन्त देवाः ॥२॥
dūre cit santam aruṣāsaḥ indram ā cyāvayantu sakhyāya vipram .yat gāyatrīm bṛhatīm arkam asmai sautrāmaṇyā dadhṛṣanta devāḥ ..2..

अद्भ्यस्त्वा राज वरुणो ह्वयतु सोमस्त्वा ह्वयतु पर्वतेभ्यः ।इन्द्रस्त्वा ह्वयतु विड्भ्य आभ्यः श्येनो भूत्वा विश आ पतेमाः ॥३॥ {४}
अद्भ्यः त्वा राज वरुणः ह्वयतु सोमः त्वा ह्वयतु पर्वतेभ्यः ।इन्द्रः त्वा ह्वयतु विड्भ्यः आभ्यः श्येनः भूत्वा विशः आ पत इमाः ॥३॥
adbhyaḥ tvā rāja varuṇaḥ hvayatu somaḥ tvā hvayatu parvatebhyaḥ .indraḥ tvā hvayatu viḍbhyaḥ ābhyaḥ śyenaḥ bhūtvā viśaḥ ā pata imāḥ ..3..

श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम् ।अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥४॥ {५}
श्येनः हव्यम् नयत्वा परस्मात् अन्य-क्षेत्रे अपरुद्धम् चरन्तम् ।अश्विना पन्थाम् कृणुताम् सु गम् ते इमम् सजाताः अभिसंविशध्वम् ॥४॥
śyenaḥ havyam nayatvā parasmāt anya-kṣetre aparuddham carantam .aśvinā panthām kṛṇutām su gam te imam sajātāḥ abhisaṃviśadhvam ..4..

ह्वयन्तु त्वा प्रतिजनाः प्रति मित्रा अवृषत ।इन्द्राग्नी विश्वे देवास्ते विशि क्षेममदीधरन् ॥५॥ {६}
ह्वयन्तु त्वा प्रतिजनाः प्रति मित्राः अवृषत ।इन्द्र-अग्नी विश्वे देवाः ते विशि क्षेमम् अदीधरन् ॥५॥
hvayantu tvā pratijanāḥ prati mitrāḥ avṛṣata .indra-agnī viśve devāḥ te viśi kṣemam adīdharan ..5..

यस्ते हवं विवदत्सजातो यश्च निष्ट्यः ।अपाञ्चमिन्द्र तं कृत्वाथेममिहाव गमय ॥६॥ {७}
यः ते हवम् विवदत् सजातः यः च निष्ट्यः ।अपाञ्चम् इन्द्र तम् कृत्वा अथ इमम् इह अव गमय ॥६॥
yaḥ te havam vivadat sajātaḥ yaḥ ca niṣṭyaḥ .apāñcam indra tam kṛtvā atha imam iha ava gamaya ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In