| |
|

This overlay will guide you through the buttons:

सहृदयं सांमनस्यमविद्वेषं कृणोमि वः ।अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या ॥१॥
सहृदयम् सांमनस्यम् अ विद्वेषम् कृणोमि वः ।अन्यः अन्यम् अभि हर्यत वत्सम् जातम् इव अघ्न्या ॥१॥
sahṛdayam sāṃmanasyam a vidveṣam kṛṇomi vaḥ .anyaḥ anyam abhi haryata vatsam jātam iva aghnyā ..1..

अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः ।जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥२॥
अनुव्रतः पितुः पुत्रः मात्रा भवतु संमनाः ।जाया पत्ये मधुमतीम् वाचम् वदतु शन्तिवाम् ॥२॥
anuvrataḥ pituḥ putraḥ mātrā bhavatu saṃmanāḥ .jāyā patye madhumatīm vācam vadatu śantivām ..2..

मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा ।सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया ॥३॥
मा भ्राता भ्रातरम् द्विक्षत् मा स्वसारम् उत स्वसा ।सम्यञ्चः सव्रताः भूत्वा वाचम् वदत भद्रया ॥३॥
mā bhrātā bhrātaram dvikṣat mā svasāram uta svasā .samyañcaḥ savratāḥ bhūtvā vācam vadata bhadrayā ..3..

येन देवा न वियन्ति नो च विद्विषते मिथः ।तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥४॥
येन देवाः न वियन्ति न उ च विद्विषते मिथस् ।तत् कृण्मः ब्रह्म वः गृहे संज्ञानम् पुरुषेभ्यः ॥४॥
yena devāḥ na viyanti na u ca vidviṣate mithas .tat kṛṇmaḥ brahma vaḥ gṛhe saṃjñānam puruṣebhyaḥ ..4..

ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः ।अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस्क्र्णोमि ॥५॥
ज्यायस्वन्तः चित्तिनः मा वि यौष्ट संराधयन्तः सधुराः चरन्तः ।अन्यः अन्यस्मै वल्गु वदन्तः एत सध्रीचीनान् वः संमनसस्क्र्णोमि ॥५॥
jyāyasvantaḥ cittinaḥ mā vi yauṣṭa saṃrādhayantaḥ sadhurāḥ carantaḥ .anyaḥ anyasmai valgu vadantaḥ eta sadhrīcīnān vaḥ saṃmanasaskrṇomi ..5..

समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि ।सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः ॥६॥
समानी प्रपा सह वः अन्न-भागः समाने योक्त्रे सह वः युनज्मि ।सम्यञ्चः अग्निम् सपर्यत अराः नाभिम् इव अभितस् ॥६॥
samānī prapā saha vaḥ anna-bhāgaḥ samāne yoktre saha vaḥ yunajmi .samyañcaḥ agnim saparyata arāḥ nābhim iva abhitas ..6..

सध्रीचीनान् वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान् ।देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥७॥
सध्रीचीनान् वः संमनसस्कृणोमि एक-श्नुष्टीन् संवननेन सर्वान् ।देवाः इव अमृतम् रक्षमाणाः सायंप्रातर् सौमनसः वः अस्तु ॥७॥
sadhrīcīnān vaḥ saṃmanasaskṛṇomi eka-śnuṣṭīn saṃvananena sarvān .devāḥ iva amṛtam rakṣamāṇāḥ sāyaṃprātar saumanasaḥ vaḥ astu ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In