| |
|

This overlay will guide you through the buttons:

वि देवा जरसावृतन् वि त्वमग्ने अरात्या ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१॥
वि देवाः जरसा अवृतन् वि त्वम् अग्ने अरात्या ।वि अहम् सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥१॥
vi devāḥ jarasā avṛtan vi tvam agne arātyā .vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ..1..

व्यार्त्या पवमानो वि शक्रः पापकृत्यया ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥२॥
व्यार्त्या पवमानः वि शक्रः पाप-कृत्यया ।वि अहम् सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥२॥
vyārtyā pavamānaḥ vi śakraḥ pāpa-kṛtyayā .vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ..2..

वि ग्राम्याः पशव आरण्यैर्व्यापस्तृष्णयासरन् ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥३॥
वि ग्राम्याः पशवः आरण्यैः वि अपः तृष्णया असरन् ।वि अहम् सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥३॥
vi grāmyāḥ paśavaḥ āraṇyaiḥ vi apaḥ tṛṣṇayā asaran .vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ..3..

वी मे द्यावापृथिवी इतो वि पन्थानो दिशंदिशम् ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥४॥
वि मे द्यावापृथिवी इतस् वि पन्थानः दिशंदिशम् ।वि अहम् सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥४॥
vi me dyāvāpṛthivī itas vi panthānaḥ diśaṃdiśam .vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ..4..

त्वष्टा दुहित्रे वहतुं युनक्तीतीदं विश्वं भुवनं वि याति ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥५॥
त्वष्टा दुहित्रे वहतुम् युनक्ति इति इदम् विश्वम् भुवनम् वि याति ।वि अहम् सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥५॥
tvaṣṭā duhitre vahatum yunakti iti idam viśvam bhuvanam vi yāti .vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ..5..

अग्निः प्राणान्त्सं दधाति चन्द्रः प्राणेन संहितः ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥६॥
अग्निः प्राणान् सम् दधाति चन्द्रः प्राणेन संहितः ।वि अहम् सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥६॥
agniḥ prāṇān sam dadhāti candraḥ prāṇena saṃhitaḥ .vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ..6..

प्राणेन विश्वतोवीर्यं देवाः सूर्यं समैरयन् ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥७॥
प्राणेन विश्वतस् वीर्यम् देवाः सूर्यम् समैरयन् ।वि अहम् सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥७॥
prāṇena viśvatas vīryam devāḥ sūryam samairayan .vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ..7..

आयुष्मतामायुष्कृतां प्राणेन जीव मा मृथाः ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥८॥
आयुष्मताम् आयुः-कृताम् प्राणेन जीव मा मृथाः ।वि अहम् सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥८॥
āyuṣmatām āyuḥ-kṛtām prāṇena jīva mā mṛthāḥ .vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ..8..

प्राणेन प्राणतां प्राणेहैव भव मा मृथाः ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥९॥
प्राणेन प्राणताम् प्राण इह एव भव मा मृथाः ।वि अहम् सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥९॥
prāṇena prāṇatām prāṇa iha eva bhava mā mṛthāḥ .vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ..9..

उदायुषा समायुषोदोषधीनां रसेन ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥१०॥
उद् आयुषा सम् आयुषा उद् ओषधीनाम् रसेन ।वि अहम् सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥१०॥
ud āyuṣā sam āyuṣā ud oṣadhīnām rasena .vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ..10..

आ पर्जन्यस्य वृष्ट्योदस्थामामृता वयम् ।व्यहं सर्वेण पाप्मना वि यक्ष्मेण समायुषा ॥११॥
आ पर्जन्यस्य वृष्ट्या उदस्थाम अमृताः वयम् ।वि अहम् सर्वेण पाप्मना वि यक्ष्मेण सम् आयुषा ॥११॥
ā parjanyasya vṛṣṭyā udasthāma amṛtāḥ vayam .vi aham sarveṇa pāpmanā vi yakṣmeṇa sam āyuṣā ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In