| |
|

This overlay will guide you through the buttons:

आ त्वा गन् राष्ट्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज ।सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥१॥
आ त्वा गन् राष्ट्रम् सह वर्चसा उदिहि प्राङ् विशाम् पतिः एक-राज् त्वम् वि राज ।सर्वाः त्वा राजन् प्रदिशः ह्वयन्तु उपसद्यः नमस्यः भव इह ॥१॥
ā tvā gan rāṣṭram saha varcasā udihi prāṅ viśām patiḥ eka-rāj tvam vi rāja .sarvāḥ tvā rājan pradiśaḥ hvayantu upasadyaḥ namasyaḥ bhava iha ..1..

त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः ।वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥२॥
त्वाम् विशः वृणताम् राज्याय त्वाम् इमाः प्रदिशः पञ्च देवीः ।वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततस् नः उग्रः वि भज वसूनि ॥२॥
tvām viśaḥ vṛṇatām rājyāya tvām imāḥ pradiśaḥ pañca devīḥ .varṣman rāṣṭrasya kakudi śrayasva tatas naḥ ugraḥ vi bhaja vasūni ..2..

अच्छ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै ।जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥३॥
अच्छ त्वा यन्तु हविनः सजाताः अग्निः दूतः अजिरः सम् चरातै ।जायाः पुत्राः सुमनसः भवन्तु बहुम् बलिम् प्रति पश्यासै उग्रः ॥३॥
accha tvā yantu havinaḥ sajātāḥ agniḥ dūtaḥ ajiraḥ sam carātai .jāyāḥ putrāḥ sumanasaḥ bhavantu bahum balim prati paśyāsai ugraḥ ..3..

अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु ।अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि ॥४॥
अश्विना त्वा अग्रे मित्रावरुणा उभा विश्वे देवाः मरुतः त्वा ह्वयन्तु ।अधा मनः वसु-देयाय कृणुष्व ततस् नः उग्रः वि भज वसूनि ॥४॥
aśvinā tvā agre mitrāvaruṇā ubhā viśve devāḥ marutaḥ tvā hvayantu .adhā manaḥ vasu-deyāya kṛṇuṣva tatas naḥ ugraḥ vi bhaja vasūni ..4..

आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् ।तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥५॥
आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् ।तत् अयम् राजा वरुणः तथा आह स त्वा अयम् अह्वत्सः उप इदम् एहि ॥५॥
ā pra drava paramasyāḥ parāvataḥ śive te dyāvāpṛthivī ubhe stām .tat ayam rājā varuṇaḥ tathā āha sa tvā ayam ahvatsaḥ upa idam ehi ..5..

इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः ।स त्वायमह्वत्स्वे सधस्थे स देवान् यक्षत्स उ कल्पयद्विशः ॥६॥
इन्द्र इन्द्र मनुष्याः परेहि सम् हि अज्ञास्थाः वरुणैः संविदानः ।स त्वायम् अह्वत्-स्वे सधस्थे स देवान् यक्षत् सः उ कल्पयत् विशः ॥६॥
indra indra manuṣyāḥ parehi sam hi ajñāsthāḥ varuṇaiḥ saṃvidānaḥ .sa tvāyam ahvat-sve sadhasthe sa devān yakṣat saḥ u kalpayat viśaḥ ..6..

पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन् ।तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥७॥
पथ्याः रेवतीः बहुधा विरूपाः सर्वाः संगत्य वरीयः ते अक्रन् ।ताः त्वा सर्वाः संविदानाः ह्वयन्तु दशमीम् उग्रः सुमनाः वशा इह ॥७॥
pathyāḥ revatīḥ bahudhā virūpāḥ sarvāḥ saṃgatya varīyaḥ te akran .tāḥ tvā sarvāḥ saṃvidānāḥ hvayantu daśamīm ugraḥ sumanāḥ vaśā iha ..7..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In