| |
|

This overlay will guide you through the buttons:

आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान् ।ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्वप्रयावन् ॥१॥
आ अयम् अगन् पर्णमणिः बली बलेन प्रमृणन् सपत्नान् ।ओजः देवानाम् पयः ओषधीनाम् वर्चसा मा जिन्वन्तु अ प्रयावन् ॥१॥
ā ayam agan parṇamaṇiḥ balī balena pramṛṇan sapatnān .ojaḥ devānām payaḥ oṣadhīnām varcasā mā jinvantu a prayāvan ..1..

मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम् ।अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः ॥२॥
मयि क्षत्रम् पर्ण-मणे मयि धारयत अद्रयिम् ।अहम् राष्ट्रस्य अभीवर्गे निजः भूयासम् उत्तमः ॥२॥
mayi kṣatram parṇa-maṇe mayi dhārayata adrayim .aham rāṣṭrasya abhīvarge nijaḥ bhūyāsam uttamaḥ ..2..

यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम् ।तमस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥३॥
यम् निदधुः वनस्पतौ गुह्यम् देवाः प्रियम् मणिम् ।तम् अस्मभ्यम् सह आयुषा देवाः ददतु भर्तवे ॥३॥
yam nidadhuḥ vanaspatau guhyam devāḥ priyam maṇim .tam asmabhyam saha āyuṣā devāḥ dadatu bhartave ..3..

सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः ।तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥४॥
सोमस्य पर्णः सहः उग्रम् आगन् इन्द्रेण दत्तः वरुणेन शिष्टः ।तम् प्रियासम् बहु रोचमानः दीर्घ-आयु-त्वाय शत-शारदाय ॥४॥
somasya parṇaḥ sahaḥ ugram āgan indreṇa dattaḥ varuṇena śiṣṭaḥ .tam priyāsam bahu rocamānaḥ dīrgha-āyu-tvāya śata-śāradāya ..4..

आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये ।यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः ॥५॥
आ मा आरुक्षत् पर्ण-मणिः मह्यै अरिष्टतातये ।यथा अहम् उत्तरः असानि अर्यम्णः उत संविदः ॥५॥
ā mā ārukṣat parṇa-maṇiḥ mahyai ariṣṭatātaye .yathā aham uttaraḥ asāni aryamṇaḥ uta saṃvidaḥ ..5..

ये धीवानो रथकाराः कर्मारा ये मनीषिणः ।उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥६॥
ये धीवानः रथकाराः कर्माराः ये मनीषिणः ।उपस्तीन् पर्ण मह्यम् त्वम् सर्वान् कृणु अभितस् जनान् ॥६॥
ye dhīvānaḥ rathakārāḥ karmārāḥ ye manīṣiṇaḥ .upastīn parṇa mahyam tvam sarvān kṛṇu abhitas janān ..6..

ये राजानो राजकृतः सूता ग्रामण्यश्च ये ।उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥७॥
ये राजानः राज-कृतः सूताः ग्रामण्यः च ये ।उपस्तीन् पर्ण मह्यम् त्वम् सर्वान् कृणु अभितस् जनान् ॥७॥
ye rājānaḥ rāja-kṛtaḥ sūtāḥ grāmaṇyaḥ ca ye .upastīn parṇa mahyam tvam sarvān kṛṇu abhitas janān ..7..

पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया ।संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥८॥
पर्णः असि तनू-पानः स योनिः वीरः वीरेण मया ।संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥८॥
parṇaḥ asi tanū-pānaḥ sa yoniḥ vīraḥ vīreṇa mayā .saṃvatsarasya tejasā tena badhnāmi tvā maṇe ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In